Thursday, 19 October 2017

सप्त श्लोकी गोरक्ष गीता

सप्त श्लोकी गोरक्ष गीता

वेदा न लोका न सुरा न यज्ञा वर्णाश्रमो नैव कुलं न जाति ।
न धूम्र मार्गों न च दीप्त मार्गों ब्रह्मैक रूपं परमार्द तत्वम् ।।1।।

मूर्खोSपि नाहं न च पण्डितोЅहं मौनं च वार्ता न  मे कदाचित् ।
वितर्क तर्क च कथं वदामि स्वरूप निर्वाण मना मयोहम् ।।2।।

न ते माता च पिता न बन्धुर्नते च पत्नी न च शत्रु मित्राः ।
न पक्षपातो न विपक्षपातः कथं हि तृप्तो न च काम कामी ।।3।।

जितेन्द्रियोहं न जितेन्द्रियोहः न च संयमो मे नियमो न जातिः ।
त्वया मयायत्र कथं वदामि वयं स्वरूप निर्वाण मना मयोहम् ।।4।।

शिवं न जानामि कथं वदामि वयं शिवश्च परमार्थ तत्वम् ।
सत्य स्वभावो गगनोप मोहं ज्ञानामृतं शुद्ध मतीन्द्रियोहम् ।।5।।

अतत्व रूपं नहि वस्तु किंचित् तत्व स्वरूपं नहि वस्तु किंचित् ।
आत्म स्वरूपं परमार्थ तत्वं न हिंसको वापि न चापि शुद्धम् ।।6।।

षडग्ङ योगो न च नैव शुद्धं गुरूपदेशे न च नैव शुद्धम् ।
मनोविनाशाय च नैश शुद्धं वयं तत्वं वयं मेव शुद्धम् ।।7।।
                 ।। इति सम्पूर्णं।।

No comments:

Post a Comment