Sunday, 5 November 2017

तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् | नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् || १||

प्रमुखा विकल्पसूचिः उद्घाट्यताम् विकिपुस्तकानि अन्विष्यताम् ३ सम्पाद्यताम्अवलोकनेन अलम् । बालकाण्डे प्रथमः सर्गः तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् | नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् || १|| को न्वस्मिन्साम्प्रतं लोके गुणवान्कश्च वीर्यवान् | धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः || २|| चारित्रेण च को युक्तः सर्वभूतेषु को हितः | विद्वान्कः कः समर्थश्च कश्चैकप्रियदर्शनः || ३|| आत्मवान्को जितक्रोधो मतिमान्कोऽनसूयकः | कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे || ४|| एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे | महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम् || ५|| श्रुत्वा चैतत्त्रिलोकज्ञो वाल्मीकेर्नारदो वचः | श्रूयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत् || ६|| बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः | मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तः श्रूयतां नरः || ७|| इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः | नियतात्मा महावीर्यो द्युतिमान्धृतिमान्वशी || ८|| बुद्धिमान्नीतिमान्वाग्मी श्रीमाञ्शत्रुनिबर्हणः | विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः || ९|| महोरस्को महेष्वासो गूढजत्रुररिन्दमः | आजानुबाहुः सुशिराः सुललाटः सुविक्रमः || १०|| समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् | पीनवक्षा विशालाक्षो लक्ष्मीवाञ्शुभलक्षणः || ११|| धर्मज्ञः सत्यसन्धश्च प्रजानां च हिते रतः | यशस्वी ज्ञानसम्पन्नः शुचिर्वश्यः समाधिमान् || १२|| रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता | वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः || १३|| सर्वशास्त्रार्थतत्त्वज्ञो स्मृतिमान्प्रतिभानवान् | सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः || १४|| सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः | आर्यः सर्वसमश्चैव सदैकप्रियदर्शनः || १५|| स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः | समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव || १६|| विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः | कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः || १७|| धनदेन समस्त्यागे सत्ये धर्म इवापरः | तमेवङ्गुणसम्पन्नं रामं सत्यपराक्रमम् || १८|| ज्येष्ठं श्रेष्ठगुणैर्युक्तं प्रियं दशरथः सुतम् | यौवराज्येन संयोक्तुमैच्छत्प्रीत्या महीपतिः || १९|| तस्याभिषेकसम्भारान्दृष्ट्वा भार्याथ कैकयी | पूर्वं दत्तवरा देवी वरमेनमयाचत | विवासनं च रामस्य भरतस्याभिषेचनम् || २०|| स सत्यवचनाद्राजा धर्मपाशेन संयतः | विवासयामास सुतं रामं दशरथः प्रियम् || २१|| स जगाम वनं वीरः प्रतिज्ञामनुपालयन् | पितुर्वचननिर्देशात्कैकेय्याः प्रियकारणात् || २२|| तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह | स्नेहाद्विनयसम्पन्नः सुमित्रानन्दवर्धनः || २३|| सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः | सीताप्यनुगता रामं शशिनं रोहिणी यथा || २४|| पौरैरनुगतो दूरं पित्रा दशरथेन च | शृङ्गवेरपुरे सूतं गङ्गाकूले व्यसर्जयत् || २५|| ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदकाः | चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् || २६|| रम्यमावसथं कृत्वा रममाणा वने त्रयः | देवगन्धर्वसङ्काशास्तत्र ते न्यवसन्सुखम् || २७|| चित्रकूटं गते रामे पुत्रशोकातुरस्तदा | राजा दशरथः स्वर्गं जगाम विलपन्सुतम् || २८|| मृते तु तस्मिन्भरतो वसिष्ठप्रमुखैर्द्विजैः | नियुज्यमानो राज्याय नैच्छद्राज्यं महाबलः | स जगाम वनं वीरो रामपादप्रसादकः || २९|| पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः | निवर्तयामास ततो भरतं भरताग्रजः || ३०|| स काममनवाप्यैव रामपादावुपस्पृशन् | नन्दिग्रामेऽकरोद्राज्यं रामागमनकाङ्क्षया || ३१|| रामस्तु पुनरालक्ष्य नागरस्य जनस्य च | तत्रागमनमेकाग्रे दण्डकान्प्रविवेश ह || ३२|| विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह | सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्य भ्रातरं तथा || ३३|| अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम् | खड्गं च परमप्रीतस्तूणी चाक्षयसायकौ || ३४|| वसतस्तस्य रामस्य वने वनचरैः सह | ऋषयोऽभ्यागमन्सर्वे वधायासुररक्षसाम् || ३५|| तेन तत्रैव वसता जनस्थाननिवासिनी | विरूपिता शूर्पणखा राक्षसी कामरूपिणी || ३६|| ततः शूर्पणखावाक्यादुद्युक्तान्सर्वराक्षसान् | खरं त्रिशिरसं चैव दूषणं चैव राक्षसं || ३७|| निजघान रणे रामस्तेषां चैव पदानुगान् | रक्षसां निहतान्यासन्सहस्राणि चतुर्दश || ३८|| ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्छितः | सहायं वरयामास मारीचं नाम राक्षसं || ३९|| वार्यमाणः सुबहुशो मारीचेन स रावणः | न विरोधो बलवता क्षमो रावण तेन ते || ४०|| अनादृत्य तु तद्वाक्यं रावणः कालचोदितः | जगाम सहमरीचस्तस्याश्रमपदं तदा || ४१|| तेन मायाविना दूरमपवाह्य नृपात्मजौ | जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम् || ४२|| गृध्रं च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम् | राघवः शोकसन्तप्तो विललापाकुलेन्द्रियः || ४३|| ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् | मार्गमाणो वने सीतां राक्षसं सन्ददर्श ह || ४४|| कबन्धं नाम रूपेण विकृतं घोरदर्शनम् | तं निहत्य महाबाहुर्ददाह स्वर्गतश्च सः || ४५|| स चास्य कथयामास शबरीं धर्मचारिणीम् | श्रमणीं धर्मनिपुणामभिगच्छेति राघव | सोऽभ्यगच्छन्महातेजाः शबरीं शत्रुसूदनः || ४६|| शबर्या पूजितः सम्यग्रामो दशरथात्मजः | पम्पातीरे हनुमता सङ्गतो वानरेण ह || ४७|| हनुमद्वचनाच्चैव सुग्रीवेण समागतः | सुग्रीवाय च तत्सर्वं शंसद्रामो महाबलः || ४८|| ततो वानरराजेन वैरानुकथनं प्रति | रामायावेदितं सर्वं प्रणयाद्दुःखितेन च | वालिनश्च बलं तत्र कथयामास वानरः || ४९|| प्रतिज्ञातं च रामेण तदा वालिवधं प्रति | सुग्रीवः शङ्कितश्चासीन्नित्यं वीर्येण राघवे || ५०|| राघवः प्रत्ययार्थं तु दुन्दुभेः कायमुत्तमम् | पादाङ्गुष्ठेन चिक्षेप सम्पूर्णं दशयोजनम् || ५१|| बिभेद च पुनः सालान्सप्तैकेन महेषुणा | गिरिं रसातलं चैव जनयन्प्रत्ययं तदा || ५२|| ततः प्रीतमनास्तेन विश्वस्तः स महाकपिः | किष्किन्धां रामसहितो जगाम च गुहां तदा || ५३|| ततोऽगर्जद्धरिवरः सुग्रीवो हेमपिङ्गलः | तेन नादेन महता निर्जगाम हरीश्वरः || ५४|| ततः सुग्रीववचनाद्धत्वा वालिनमाहवे | सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत् || ५५|| स च सर्वान्समानीय वानरान्वानरर्षभः | दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम् || ५६|| ततो गृध्रस्य वचनात्सम्पातेर्हनुमान्बली | शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम् || ५७|| तत्र लङ्कां समासाद्य पुरीं रावणपालिताम् | ददर्श सीतां ध्यायन्तीमशोकवनिकां गताम् || ५८|| निवेदयित्वाभिज्ञानं प्रवृत्तिं च निवेद्य च | समाश्वास्य च वैदेहीं मर्दयामास तोरणम् || ५९|| पञ्च सेनाग्रगान्हत्वा सप्त मन्त्रिसुतानपि | शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत् || ६०|| अस्त्रेणोन्मुहमात्मानं ज्ञात्वा पैतामहाद्वरात् | मर्षयन्राक्षसान्वीरो यन्त्रिणस्तान्यदृच्छया || ६१|| ततो दग्ध्वा पुरीं लङ्कामृते सीतां च मैथिलीम् | रामाय प्रियमाख्यातुं पुनरायान्महाकपिः || ६२|| सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम् | न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः || ६३|| ततः सुग्रीवसहितो गत्वा तीरं महोदधेः | समुद्रं क्षोभयामास शरैरादित्यसंनिभैः || ६४|| दर्शयामास चात्मानं समुद्रः सरितां पतिः | समुद्रवचनाच्चैव नलं सेतुमकारयत् || ६५|| तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे | अभ्यषिञ्चत्स लङ्कायां राक्षसेन्द्रं विभीषणम् || ६६|| कर्मणा तेन महता त्रैलोक्यं सचराचरम् | सदेवर्षिगणं तुष्टं राघवस्य महात्मनः || ६७|| तथा परमसन्तुष्टैः पूजितः सर्वदैवतैः | कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह || ६८|| देवताभ्यो वरान्प्राप्य समुत्थाप्य च वानरान् | पुष्पकं तत्समारुह्य नन्दिग्रामं ययौ तदा || ६९|| नन्दिग्रामे जटां हित्वा भ्रातृभिः सहितोऽनघः | रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान् || ७०|| प्रहृष्टमुदितो लोकस्तुष्टः पुष्टः सुधार्मिकः | निरायमो अरोगश्च दुर्भिक्षभयवर्जितः || ७१|| न पुत्रमरणं के चिद्द्रक्ष्यन्ति पुरुषाः क्वचित् | नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः || ७२|| न वातजं भयं किं चिन्नाप्सु मज्जन्ति जन्तवः | न चाग्रिजं भयं किं चिद्यथा कृतयुगे तथा || ७३|| अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः | गवां कोट्ययुतं दत्त्वा विद्वद्भ्यो विधिपूर्वकम् || ७४|| राजवंशाञ्शतगुणान्स्थापयिष्यति राघवः | चातुर्वर्ण्यं च लोकेऽस्मिन्स्वे स्वे धर्मे नियोक्ष्यति || ७५|| दशवर्षसहस्राणि दशवर्षशतानि च | रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति || ७६|| इदं पवित्रं पापघ्नं पुण्यं वेदैश्च संमितम् | यः पठेद्रामचरितं सर्वपापैः प्रमुच्यते || ७७|| एतदाख्यानमायुष्यं पठन्रामायणं नरः | सपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महीयते || ७८|| पठन्द्विजो वागृषभत्वमीयात् स्यात्क्षत्रियो भूमिपतित्वमीयात् | वणिग्जनः पण्यफलत्वमीयाज् जनश्च शूद्रोऽपि महत्त्वमीयात् || ७९|| सम्भाषणम् Last edited ८ years ago by Shivchal विकिपुस्तकानि भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 3.0 इत्यत्र उल्लेखो भवति । गोपनीयताउत्पीठम्

No comments:

Post a Comment