प्रमुखा विकल्पसूचिः उद्घाट्यताम् विकिस्रोतःअन्विष्यताम् ३ सम्पाद्यताम्अवलोकनेन अलम् । गरुडपुराणम्/आचारकाण्डः/अध्यायः ११३ < गरुडपुराणम् | आचारकाण्डः ← आचारकाण्डः, अध्यायः ११२गरुडपुराणम् अध्यायः ११३ वेदव्यासःआचारकाण्डः, अध्यायः ११४ → श्रीगरुडमहापुराणम् ११३ सूत उवाच । गुणवन्तं नियुञ्जीत गुणहीनं विवर्जयेत् । पण्डितस्य गुणाः सर्वे मूर्वे दोषाश्च केवलाः ॥ १,११३.१ ॥ सद्भिरासीत सततं सद्भिः कुर्वीत सङ्गतिम् । सद्भिर्विवादं मैत्रीञ्च नासद्भिः किञ्चिदाचरेत् ॥ १,११३.२ ॥ पण्डितैश्च विर्नातैश्च धर्मशैः सत्यवादिभिः । बन्ध्स्थोऽपि तिष्ठेच्च न तु राज्ये खलैः सह ॥ १,११३.३ ॥ सावशेषाणि कार्याणि कुवत्रर्थे युज्यते । तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत् ॥ १,११३.४ ॥ मधुहेव दुहेत्सारं कुसुमञ्च न घातयेत् । वत्सापेक्षी दुहेत्क्षीरं भूमिं गाञ्चैव पार्थिपः ॥ १,११३.५ ॥ यथाक्रमेण पुष्पेभ्यश्चिनुते मधु षट्पदः । तथा वित्तमु पादाय राजा कुर्वीत सञ्चयम् ॥ १,११३.६ ॥ वल्मीकं मधुजालञ्च शुक्लण्क्षे तु चन्द्रमाः । राजद्रव्यञ्च भैक्ष्यञ्च स्तोकंस्तोकं प्रवर्धते ॥ १,११३.७ ॥ अर्जितस्य क्षयं दृष्टा संप्रदत्तस्य सञ्चयम् । अवन्ध्यं दिवसं कुर्याद्दानध्ययनकर्मसु ॥ १,११३.८ ॥ वनेऽपि दोषाः प्रभवन्ति रागिणां गृहेऽपि पञ्चेन्द्रियनिग्रहस्तपः । अकुत्सिते कर्मणि यः प्रवर्तते निवृत्तरागस्य गृहं तपोवनम् ॥ १,११३.९ ॥ सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते । मृजया रक्ष्यते पात्रं कुलं शलिन रक्ष्यते ॥ १,११३.१० ॥ वरं विन्ध्याटव्यां निवसनमभुक्तस्य मरणं वरं सर्पाकीर्णे शयनमथ कूपे निपतनम् । वरं भ्रान्तावर्ते सभयजलमध्ये प्रविशनं न तु स्वीये पक्षे हि धनमणु देहीति कथनम् ॥ १,११३.११ ॥ भाग्यक्षयेषु क्षीयन्ते नोपभोगेन सम्पदः । पूर्वार्जिते हि सुकृते न नश्यन्ति कदाचन ॥ १,११३.१२ ॥ विप्राणां भूषणं विद्या पृथिव्या भूषणं नृपः । नभसो भूषणं चन्द्रः शीलं सर्वस्य भूषणम् ॥ १,११३.१३ ॥ एते ते चन्द्रतुल्याः क्षितिपतितनया भीमसेनार्जुनाद्याः शुराः सत्यप्रतिज्ञा दिनकरवपुषः केशवेनोपगूढाः । ते वै दुष्टग्रहस्थाः कृपणवशगता भैक्ष्यचर्यां प्रयाताः को वा कस्मिन्समर्थो भवति विधिवशाद्भ्रामयेत्कर्मरेखा ॥ १,११३.१४ ॥ ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डभाण्डोदरे विष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कटे । रुद्रोयेन कपालपाणिपुटके भिक्षाटनं कारितः सूर्यो भ्राम्यति नित्यमेव गगने तरमै नमः कर्णणे ॥ १,११३.१५ ॥ दाता बलिर्याचकको मुरारिर्दानं मही विप्रमुखस्य मध्ये । दत्त्वा फलं बन्धनमेव लब्धं नमोऽस्तु ते दैव यथेष्टकारिणे ॥ १,११३.१६ ॥ माता यदि भवेल्लक्ष्मीः पिता साक्षाज्जनार्दनः । कुबुद्धौ प्रतिपत्तिश्चैत्तस्मिन्दण्डः पतेत्सदा ॥ १,११३.१७ ॥ येनयेन यथा यद्वत्पुरा कर्म सुनिश्चितम् । तत्तदेवान्तरा भुङ्क्ते स्वयमाहितमात्मना ॥ १,११३.१८ ॥ आत्मना विहितं दुः खमात्मना विहितं सखम् । गर्भशय्यामुपादाय भुङ्क्ते वै पौर्वदैहिकम् ॥ १,११३.१९ ॥ न चान्तरिक्षे न समुद्रमध्ये न पर्वतानां विवरप्रवेशे । न मातृमूर्ध्नि प्रधृतस्तथाङ्के त्यक्तुं क्षमः कर्म कृतं नरो हि ॥ १,११३.२० ॥ दुगस्त्रिकूटः परिखा समुद्रो रक्षांसि योधाः परमा च वृत्तिः । शास्त्रञ्च वै तूशनसा प्रदिष्टं स रावणः कालवशाद्विनष्टः ॥ १,११३.२१ ॥ यस्मिन्वयसि यत्काले यद्दिवा यच्च वा निशि । यन्मुहूर्ते क्षणे वापि तत्तथा न तदन्यथा ॥ १,११३.२२ ॥ गच्छन्ति चान्तरिक्षे वा प्रविशन्ति महीतले । धारयन्ति दिशः सर्वा नादत्तमुपलभ्यते ॥ १,११३.२३ ॥ पुराधीता च या विद्या पुरा दत्तञ्च यद्धनम् । पुरा कृतानि कर्माणि ह्यग्रे धावन्ति धावतः ॥ १,११३.२४ ॥ कर्माण्यत्र प्रधानानि सम्यगृक्षे शुभग्रहे । वसिष्ठकृतलग्नापि जानकी दुः खभाजनम् ॥ १,११३.२५ ॥ स्थूलजङ्घो यदा रामः शब्दगामी च लक्ष्मणः । घनकेशी यदा सीता त्रयस्ते दुः खभाजनम् ॥ १,११३.२६ ॥ न पितुः कर्मणा पुत्रः पिता वा पुत्रकर्मणा । स्वयं कृतेन गच्छन्ति स्वयं बद्धाः स्वकर्मणा ॥ १,११३.२७ ॥ कर्मजन्यशरीरेषु रोगाः शरीरमानसाः । शरा इव पतन्तीह विमुक्ता दृढधन्विभिः ॥ १,११३.२८ ॥ अन्यथा शास्त्रगार्भिण्या धिया धीरोर्ऽथमीहते । स्वामिवत्प्राक्कृतं कर्म विदधाति तदन्यथा ॥ १,११३.२९ ॥ बालो युवा च वृद्धश्च यः करोति शुभाशुभम् । तस्यान्तस्यामवस्थायां भुङ्क्ते जन्मनिजन्मनि ॥ १,११३.३० ॥ अनीक्षमाणोऽपि नरो विदेशस्थोऽपि मानवः । स्वकर्मपातवातेन नीयते यत्र तत्फलम् ॥ १,११३.३१ ॥ प्राप्तव्यमर्थं लभते मनुष्यो देवोऽपि तं वारयितुं न शक्तः । अतो न शोचामि न विस्मयो मे ललाटलेखा न पुनः प्रयाति (यदस्मदीयं न तु तत्परेषाम् ॥ १,११३.३२ ॥ सर्पः कूपे गजः स्कन्धे बिल आखुश्च धावति । नरः शीघ्रतरादेव कर्मणः कः पलायते ॥ १,११३.३३ ॥ नाल्पा भवति सद्विद्या दीयमानापि वर्धते । कूपस्थमिव पानीयं भवत्येव बहूदकम् ॥ १,११३.३४ ॥ येर्ऽथा धर्मेण ते सत्या येऽधर्मेण गताः श्रियः । धर्मार्थो च महांल्लोके तत्स्मृत्वा ह्यर्थकारणात् ॥ १,११३.३५ ॥ अन्नार्थो यानि दुः खानि करोति कृपणो जनः । तान्येव यदि धर्मार्थो न भूयः क्लेशभाजनम् ॥ १,११३.३६ ॥ सर्वेषामेव शौचानामन्नशौचं विशिष्यते । योऽन्नार्थैः शुचिः शौचान्न मृदा वारिणा शुचिः ॥ १,११३.३७ ॥ सत्यं शौचं मनः शौचं शौचमिन्द्रियनिग्रहः । सर्वभूते दया शौचं जलशौचञ्च पञ्चमम् ॥ १,११३.३८ ॥ यस्य सत्यञ्च शौचञ्च तस्य स्वर्गो न दुर्लभः । सत्यं हि वचनं यस्य सोऽश्वमेधाद्विशिष्यते ॥ १,११३.३९ ॥ मृत्तिकानां सहस्रेण चोदकानां शतेन हि । न शुध्यति दुराचारो भावोपहतचेतनः ॥ १,११३.४० ॥ यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् । विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥ १,११३.४१ ॥ न प्रहृष्यति संमानैर्नावमानैः प्रकुप्यति । न क्रुद्धः परुषं ब्रूयादेतत्साधोस्तु लक्षणम् ॥ १,११३.४२ ॥ दरिद्रस्य मनुष्यस्य प्राज्ञस्य मधुरस्य च । काले श्रुत्वा हितं वाक्यं न कश्चित्परितुष्यति ॥ १,११३.४३ ॥ न मन्त्रबलवीर्येण प्रज्ञया पौरुषेण च । अलभ्यं लभ्यते मर्त्यैस्तत्र का परिवेदना ॥ १,११३.४४ ॥ अयाचितो मया लब्धो पुनर्मत्प्रेषणाद्गतः । यत्रागतस्तत्र गतस्तत्र का परिवेदना ॥ १,११३.४५ ॥ एकवृक्षे सदा रात्रौ नानापक्षिसमागमः । प्रभातेऽन्यदिशो यान्ति का तत्र परिवेदना ॥ १,११३.४६ ॥ एकसार्थप्रयाताना सर्वेषान्तत्र गामिनाम् । यस्त्वेकस्त्वरितो याति का तत्र परिवेदना ॥ १,११३.४७ ॥ अव्यक्तादीनि भूतानि व्यक्तमध्यानि शौनक । अव्यक्तनिधनान्येनव का तत्र परिवेदना ॥ १,११३.४८ ॥ नाप्राप्तकालो म्रियते विद्धः शरशतैरपि । कुशाग्रेण तु संस्पृष्टं प्राप्तकालो न जीवति ॥ १,११३.४९ ॥ लब्धव्यान्येव लभते गन्तव्यान्येव गच्छति । प्राप्तव्यान्येव प्राप्नाति दुः खानि च सुखानि च ॥ १,११३.५० ॥ तत्तत्प्राप्नोति पुरुषः कि प्रलापैः करिष्यति । आचोद्यमानानि यथा पुष्पाणि च फलानि च । स्वकालं नातिवर्तन्ते तथा कर्म पुराकृतम् ॥ १,११३.५१ ॥ शीलं कुलं नैव न चैव विद्या ज्ञानं गुणा नैव न बीजशुद्धिः । भाग्यानि पूर्वं तपसार्जितानि काले फलन्त्यस्य यथैव वृक्षाः ॥ १,११३.५२ ॥ तत्र मृत्युर्यत्र हन्ता तत्र श्रीर्यत्र सम्पदः । तत्र तत्र स्वयं याति प्रेर्यमाणः स्वकर्मभिः ॥ १,११३.५३ ॥ भूतपूर्वं कृतं कर्म कर्तारमनुतिष्ठति । यथा धेनुसहस्रेषु वत्सो विन्दन्ति मातरम् ॥ १,११३.५४ ॥ एवं पूर्वकृतं कर्म कर्तारमनुतिष्ठाति । सुकृतं भुङ्क्ष्व चात्मीयं मूढ किं परितप्यसे ॥ १,११३.५५ ॥ यथा पूर्वकृतं कर्म शुभं वा यदि वाशुभम् । तथा जन्मान्तरे तद्वै कर्ता रमनुगच्छति ॥ १,११३.५६ ॥ नीचः सर्षपमात्राणि परच्छिद्राणि पश्यति । आत्मनो बलिवमात्राणि पश्यन्नपि न पश्यति ॥ १,११३.५७ ॥ रागद्वेषादियुक्तानां न सुखं कुत्रचिद्द्विज । विचार्य खलु पश्यामि तत्सुखं यत्र निर्वृतिः ॥ १,११३.५८ ॥ यत्र स्नेहो भयं तत्र स्नेहो दुः खस्य भाजनम् । स्नेहमूलानि दुः खानि तस्मिस्त्यक्ते महत्सुखम् ॥ १,११३.५९ ॥ शरीरमेवायतनं दुः खस्य च सुखस्य च । जीवितञ्च शरीरञ्च जात्यैव सह जायते ॥ १,११३.६० ॥ सर्वं परवशं दुः खं सर्व मात्मवशं सुखम् । एतद्विद्यात्समासेन लक्षणं सुखदुः खयोः ॥ १,११३.६१ ॥ सुखस्यानन्तरं दुः खं दुः खस्यानन्तरं सुखम् । शुखं दुः खं मनुष्याणां चक्रवत्परिवर्तते ॥ १,११३.६२ ॥ यद्गतं तदतिक्रान्तं यदि स्यात्तच्च दूरतः । वर्तमानेन वर्तेत न स शोकेन बाध्यते ॥ १,११३.६३ ॥ इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे बृहदृ नीतिसारे त्रयोशोत्तरशततमोऽध्यायः सम्भाषणम् Last edited २ years ago by NehalDaveND विकिस्रोतः भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 3.0 इत्यत्र उल्लेखो भवति । गोपनीयताउत्पीठम्
No comments:
Post a Comment