Saturday, 4 November 2017

संस्कृत सुभाषितानि

प्रमुखा विकल्पसूचिः उद्घाट्यताम् विकिशब्दकोशः अन्विष्यताम् ३ सम्पाद्यताम्अवलोकनेन अलम् । संस्कृत सुभाषितानि - ०१ अधमा धनमिच्छन्ति धनं मानं च मध्यमाः । उत्तमा मानमिच्छन्ति मानो हि महताम् धनम् ॥ यस्य षष्ठी चतुर्थी विहस्य च विहाय च सम्पाद्यताम् अहं कथं द्वितीया स्यात द्वितीया स्यामहं कथं अकृत्यं मन्यते कृत्यमगम्यं मन्यते सुगम् । अभक्ष्यम् मन्यते भक्ष्यम् स्त्रीवाक्यप्रेरितो नरः ॥१९॥ अकृत्वा परसन्तापं अगत्वा खलमन्दिरम् । साधोर्मार्गमनुत्सृज्य यत्स्वल्पमपि तद् बहु ॥२७॥ अग़ाधजलसञ्चारी गर्वम् नायाति रोहितः । अङ्गुष्टोदकमात्रेण शफरी फप्र्हरायते ॥१२॥ अग्रतः संस्कृतं मेऽस्तु पुरतो मेऽस्तु संस्कृतम् । संस्कृतं हृदये मेऽस्तु विश्वमध्येऽस्तु संस्कृतम् ॥३७॥ अङ्गारा अञ्जलिस्था हि दाहयन्ति करद्वयम् । अहो दुर्मनसां वैरं वामदक्षिणयोः समम् ॥४५॥ अजरामरवत् प्राज्ञो विद्यामर्थञ्च साधयेत् । गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥२२॥ अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥३२॥ अञ्जलिस्थानि पुष्पाणि वासयन्ति करद्वय.म् । अहो सुमनसां प्रीतिर्वामदक्षिणयोः समा ॥४४॥ अतिकुपिताऽपि सुजना योगेन मृदूभवन्ति न तु नीचाः । हेम्नः कठिनस्यापि द्रवणोपायोऽस्ति न तृणानाम् ॥४७॥ अतितीक्ष्णेन खड्गेन वरं जिंव्हा द्विधा कृता । न तु मानं परित्यज्य यच्छ यच्छेति भाषितम् ॥२४॥ अतितृष्णा न कर्तव्या तृष्णां नैव परित्यजेत् । शनैः शनैश्च भोक्तव्यं स्वयं वित्तमुपार्जितम् ॥१८॥ अतिपरिचयादवज्ञा सन्ततगमनादनादरो भवति । मलये भिल्लपुरन्ध्री चन्दनतरुकाष्ठमिन्धनं कुरुते ॥२१॥ अतिलोभात्कुबेरोऽपि दरिद्रो निश्चितं भवेत् । मितव्ययात् दरिद्रोऽपि निश्चितं धनवान् भवेत् ॥१६॥ अत्तुं वाञ्चति वाहनं गणपतेराखुं क्षुधार्तः फणी तं च क्रौंचपतेः शिखी च गिरिजासिंहोऽपि नागाननम् । गौरी जह्नुसुतामसूयति कलानाथं कपालानलः निर्विण्णः स पपौ कुटुम्बकलहादीशोऽपि हालाहलम् ॥४९॥ अधनाद्हि निवर्तन्ते ज्ञातयः सुहृदो जनाः । अपुष्पादफलाद्वृक्षात् यथा सर्वे पतत्रिणः ॥४०॥ अधमा धनमिच्छन्ति धनं मानं च मध्यमाः । उत्तमा मानमिच्छन्ति मानो हि महताम् धनम् ॥९॥ अधिगत्य गुरोर्ज्ञानं छात्रेभ्यो वितरन्ति ये । विद्यावात्सल्यनिधयः शिक्षका मम दैवतम् ॥१॥ अनाचारेण मालिन्यम् अत्याचारेण मूर्खता । विचाराचारयोर्योगः स सदाचार उच्यते ॥३४॥ अनुदिनमनुतापेनास्म्यहं राम तप्तः परमकरुणमोहं छिन्धि मायासमेतम् । इदमतिचपलं मे मानसं दुर्निवारम् भवति च बहुखेदस्त्वां विना धाव शीघ्रम् ॥४६॥ अन्नदानं परं दानं विद्यादानमतः परम् । अन्नेन क्षणिका त्रुप्तिर्यावज्जीवं च विद्यया ॥१३॥ अन्नं वस्त्रं निवासश्च ज्ञानमारोग्यमेव च । विज्ञानं राष्ट्रनिष्ठा च सन्मार्गश्चाष्टमो मतः ॥१५॥ अपारे काव्यसंसारे कविरेकः प्रजापतिः । यथास्यै रोचते विश्वं तथा वै परिवर्तते ॥३९॥ अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते । जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ॥१०॥ अपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरम् । सदा लोकहिते युक्ता रत्नदीपा इवोत्तमाः ॥७॥ अब्धेः क्षारं जलं पीत्वा वर्षन्ति मधुरं भुविम् । परोपकारे निरताः कथं मेघा न सज्जनाः ॥६॥ अभिवादनशीलस्य नित्यं वृद्धोपसेविनः । चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलम् ॥५०॥ अभीप्सितार्थसिध्यर्थं पूजितो यः सुरासुरैः । सर्वविघ्नहरस्तस्मै श्रीगणाधिपतये नमः ॥३३॥ अम्बा यस्य उमादेवी जनको यस्य शङ्करः । विद्या ददाति सर्वेभ्यः स नः पातु गजाननः ॥५१॥ अयं निजः परो वेऽति गणना लघुचेतसाम् ॥ उदारचरितानां तु वसुधैव कुटुम्बकम् ॥२३॥ अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च । वश्यश्च पुत्रोऽर्थकारी च विद्या षड् जीवलोकस्य सुखानि राजन् ॥१७॥ अर्थनाशं मनस्तापं गृहे दुश्चरितानि च । वञ्चनं चापमानं च मतिमान्न प्रकाशयेत् ॥३५॥ अर्थेन तु विहीनस्य पुरुषस्याल्पमेधसः । क्रियाः सर्वा विनश्यन्ति ग्रीष्मे कुसरितो यथा ॥३६॥ अलसस्य कुतो विद्या अविद्यस्य कुतो धनम् । अधनस्य कुतो मित्रं अमित्रस्य कुतः सुखम् ॥३॥ अल्पकार्यकराः सन्ति ये नरा बहुभाषिणः । शरत्कालिनमेघास्ते नूनं गर्जन्ति केवलम् ॥१४॥ अविश्रामं वहेद्भारं शीतोष्णं न च विन्दति । ससन्तोषस्तथा नित्यं त्रीणि शिक्षेत गर्दभात् ॥२०॥ अव्याकरणमधीतं भिन्नद्रोण्यतरङ्गिणीतरणम् । भेशजमपथ्यसहितं त्रयमिदं कृतं न कृतम् ॥३०॥ अशनं मे वसनं मे जाया मे बन्धुवर्गो मे । इति मे मे कुर्वाणं कालवृको हन्ति पुरुषाजम् ॥२८॥ अश्वं नैव गजं नैव व्याघ्रं नैव च नैव च । अजापुत्रं बलिं दद्यात् देवो दुर्बलघातकः ॥११॥ अश्वस्य भूषणं वेगो मत्तं स्याद् गजभूषणम् । चातुर्यम् भूषणं नार्या उद्योगो नरभूषणम् ॥२॥ अष्टादशपुराणानां सारं व्यासेन कीर्तितम् । परोपकारः पुण्याय पापाय परपीडनम् ॥८॥ अष्टादशपुराणेषु व्यासस्य वचनद्वयम् । परोपकारः पुण्याय पापाय परपीडनम् ॥४॥ असितगिरिसमं स्यात् कज्जलं सिन्धु पात्रम् सुरतरुवरशाखा लेखनी पत्रमुर्वी । लिखति यदि गृहीत्वा शारदा सर्वकालम् तदपि तव गुणानामीश पारं न याति ॥३८॥ अस्थिरं जीवितं लोके अस्थिरे धनयौवने । अस्थिराः पुत्रदाराश्च धर्मः कीर्तिद्र्वयं स्थिरं ॥५२॥ अस्माकं बदरीचक्रं युष्माकं बदरीतरुः । बादरायणसम्बन्धात् यूयं यूयं वयं वयम् ॥४१॥ अस्यां सखे बधिरलोकनिवासभूमौ किं कूजितेन किल कोकिल कोमलेन । एते हि दैवहतकास्तदभिन्नवर्णम् त्वां काकमेव कलयन्ति कलानभिज्ञाः ॥४८॥ अहञ्च त्वञ्च राजेन्द्र लोकनाथावुभावपि । बहुव्रीहिरहं राजन् षष्ठी तत्पुरुषो भवान् ॥२९॥ अहं नमामि वरदां ज्ञानदां त्वां सरस्वतीम् । प्रयच्छ विमलां बुद्धिं प्रसन्ना भव सर्वदा ॥५॥ अहम्पूरुषो भारतीयोऽस्मि नूनं न धैर्यङ्कदाचित्त्यजेयं विपत्सु । स्वकर्तव्यनिष्ठां न वा विस्मरेयं यतिष्ये स्वराष्त्रस्य कल्याणहेतोः ॥४२॥ अहम्भारती स्त्री स्वयं शक्तिरूपा मयि श्रीश्च दुर्गा तथा शारदा च । त्यजेयं कदाचिन्न शीलाभिमानम् विरोद्धुं तु सिद्धाहमन्याय्यरूहीः ॥४३॥ अहं स्वर्णं न मे दुःखमग्निदाहे न ताडने । एतत्तु मे महादुःखं गुञ्जया तोलयन्ति माम् ॥३१॥ अहो किमपि चित्राणि चरित्राणि महात्मनाम् । लक्ष्मीस्तृणाय मन्यन्ते तद्भरेण नमन्त्यपि ॥२६॥ अहो दुर्जनसंसर्गात् मानहानिः पदे पदे । पावको लोहसङ्गेन मुद्गरैरभिताड्यते ॥२५॥ आ सम्पाद्यताम् आकाशात् पतितं तोयं यथा गच्छति सागरम् । सर्वदेवनमस्कारः केशवं प्रतिगच्छति ॥१॥ आचारः परमो धर्मः आचारः परमं तपः । आचारः परमं ज्ञानमाचारात् किं न साध्यते ॥३॥ आततायिनमायान्तमपि वेदान्तपारगम् । जिघांसन्तं जिघांसीयात् न तेन ब्रह्महा भवेत् ॥१४॥ आत्मनः परितोषाय कवेः काव्यं तथापि तत् । स्वामिनो देहलीदीपसममन्योपकारकम् ॥८॥ आत्मनः मुखदोषेण बध्यन्ते शुकसारिकाः । बकास्तत्र न बध्यन्ते मौनं सर्वाथसाधनम् ॥९॥ आत्मपक्षं परित्यज्य परपक्षेषु यो रतः । स परैर्हन्यते मूढः नीलवर्णशृगालवत् ॥१२॥ आत्मार्थम् जीवलोके च को न जीवति मानवः । परं परोपकाराय यो जीवति स जीवति ॥२॥ आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः । क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम् ॥१०॥ आदौ देवकिदेवगर्भजननं गोपीगृहे वर्धनम् । मायापुतनजीवितापहरणं गोवर्धनोद्धारणम् ॥ कंसच्छेदनकौरवादिहननं कुन्तीतनूजावनम् । एतद्भागवतं पुराणकथितं श्रीकृष्णलीलामृतम् ॥१६॥ आदौ रामतपोवनाभिगमनं हत्वा मृगं काञ्चनम् । वैदेहीहरणं जटायुमरणं सुग्रीवसम्भाषणम् ॥ वालीनिर्दलनं समुद्रतरणं लङ्कापुरीदाहनम् । पश्चाद्रावण कुम्भकर्णहननं एतद्हि रामायणम् ॥१५॥ आदौ श्रीभरताख्यभूपतिकुले भक्तोत्तमाः पाण्डवाः । तेषामन्धसुताः शतः कपटिका दुर्भ्रातरः कौरवाः ॥ बन्धुद्वेशकरं हि कौरवकुलं भेजे रणे दुर्गतिम् । गीता तारयति स्म कृष्णभजकान्नेतन्महाभारतम् ॥१७॥ आपदि मित्रपरीक्षा शूरपरीक्षा रणाङ्गणे भवति । विनये वंशपरीक्षा शीलपरीक्षा धनक्षये भवति ॥११॥ आपद्गतं हससि किं द्रविणान्ध मूढ । लक्ष्मीस्थिरा न भवतीति किमत्र चित्रम् ॥ एतान् प्रपश्यसि घटां जलयन्त्रचक्रे । रिक्ता भवन्ति भरिता भरिताश्च रिक्ताः ॥६॥ आयुषः क्षण एकोऽपि सर्वरत्नैर्न लभ्यते । नीयते स वृथा येन प्रमादः सुमहानहो ॥४॥ आशा नाम महुष्याणां काचिदाश्चर्यशृङ्खला । यया बद्धा प्रधावन्ति मुक्तास्तिष्ठन्ति पङ्गुवत् ॥७॥ आशुशब्दस्य अन्तेन कलायाः प्रथमेन च । विहगो यो भवेत्तस्य वर्णम् शीघ्रं निवेदय ॥१३॥ आस्ते भग आसीनस्य ऊध्र्वस्तिष्ठति तिष्ठतः । शेते निपद्यमानस्य चराति चरतो भगः ॥५॥ इ-ई सम्पाद्यताम् इच्छेयेत् विपुलां मैत्रीं त्रीणि तत्र न कारयेत् । वाग्वादमर्थसम्बन्धं तस्याः स्त्रीपरिभाषणम् ॥१॥ ईक्षणं द्विगुणं प्रोक्तं भाषणस्येति वेधसा । अक्षिणि द्वे मनुष्याणां जिंव्हा त्वेकैव निर्मिता ॥२॥ उ-ऊ सम्पाद्यताम् उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः । न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥३॥ उत्तमो नातिवक्ता स्यात् अधमो बहु भाषते । न काञ्चने ध्वनिस्तादृक् यादृक् कांस्ये प्रजायते ॥४॥ उपकारोऽपि नीचानां अपकारो हि जायते । पयःपानं भुजङ्गानां केवलं विषवर्धनम् ॥५॥ उत्साहो बलवानार्य नास्त्युत्साहात् परं बलम् । सोत्साहस्य च लोकेषु न किञ्चिदपि दुर्लभम् ॥६॥ उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये । पयःपानं भुजङ्गानां केवलं विषवर्धनम् ॥७॥ उत्तमा आत्मनः ख्याताः पितुः ख्याताश्च मध्यमाः । अधमा मातुलात् ख्याताः श्वशुराच्चाधमाधमाः ॥८॥ उदारस्य तृणं वित्तं शूरस्य मरणं तृणम् । विरक्तस्य तृणं भार्या निःस्पृहस्य तृणं जगत् ॥९॥ ऋ सम्पाद्यताम् ऋग्वेदोऽथ यजुर्वेदो सामवेदो ह्यथर्वणः । चत्वारः सन्ति ते वेदाः मान्याः सर्वत्र पूजिताः ॥१९॥ ऋणशेषोऽग्निशेषश्च शत्रुशेषस्तथैव च । पुनः पुनः प्रवर्धन्ते तस्माच्छेषं न रक्षयेत् ॥२०॥ ए-ऐ सम्पाद्यताम् एक एव तपः कुर्यात् द्वौ स्वाध्यायपरौ हितौ । त्रयोऽधिका वा क्रीडायां प्रवासेऽपि च ते मताः ॥१०॥ एकः स्वादु न भुञ्जीत नैकः सप्तेषु जागृयात् । एको न गच्छेदध्वानं नैकश्चार्थान् विचिन्तयेत् ॥११॥ एकचक्रो रथो यन्ता विकलो विषमा हयाः । आक्रामत्येव तेजस्वी तथाप्यर्को नभस्तलम् ॥१२॥ एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना । वासितं तद्वनं सर्वम् सुपुत्रेण कुलं यथा ॥१३॥ एको हि दोषो गुणसन्निपाते निमज्जतीन्दोरिति यो बभाषे । नूनं न दृष्टं कविनापि तेन दारिद्र्यदोषो गुणराशिनाशी ॥१४॥ एते सत्पुरुषा परार्थघटकाः स्वार्थान् परित्यज्य ये । सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये ॥ तेऽमी मानवराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे ॥१५॥ एको ना विंशतिः स्त्रीणां स्नानार्थम् शरयूं गताः । विंशतिः पुनरायाता एको व्याघ्रेण भक्षितः ॥१६॥ ऐक्यं बलं समाजस्य तदभावे स दुर्बलः । तस्मादैक्यं प्रशंसन्ति दृढं राष्ट्रहितैषिणः ॥१७॥ क सम्पाद्यताम् कथं गुरूनहं संख्ये द्रोणं च मधुसूदन । इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥३६॥ कन्या वरयते रूपं माता वित्तं पिता श्रुतं । बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जनाः ॥१५॥ कमलासनकमलेक्षणकमलारिकिरीटकमलभृद्वाहैः । नुतपदकमला कमला स्तुतपदकमला करोतु मे कमलम् ॥३९॥ कमले कमला शेते हरः शेते हिमालये । क्षीराब्धौ च हरिः शेते मन्ये मत्कुणशङ्कया ॥९॥ कमले कमलोत्पत्तिः श्रूयते न तु दृष्यते । बाले तव मुखाम्भोजे कथमिन्दीवरद्वयम् ॥३५॥ कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती । करमूले तु गोविन्दः प्रभाते करदर्शनम् ॥२८॥ करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् । वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि ॥१६॥ करोति शोभामलके स्त्रियाः को । दृष्या न कान्ता विधिना च कोक्ता ॥ अङ्गे तु कस्मिन् दहनं पुरारेः । सिन्दूरबिन्दुः विधवाललाटे ॥४०॥ करोति स्वमुखेनैव बहुधान्यस्य खण्डनम् । नमः पतनशीलाय मुसलाय खलाय च ॥३१॥ कर्तव्यमाचरन् कार्यमकर्तव्यमनाचरन् । तिष्ठति प्रकृताचारे स वै आर्य इति स्मृतः ॥४६॥ कल्पद्रुमः कल्पितमेव सूते । सा कामधुक् कामितमेव दोग्धि ॥ चिन्तामणिश्चिन्तितमेव दत्ते । सतां तु सङ्गः सकलं प्रसूते ॥३०॥ कवयः किं न पश्यन्ति किं न भक्षन्ति वायसाः । मद्यपाः किं न जल्पन्ति किं न कुर्वन्ति योषितः ॥३३॥ कविः करोति काव्यानि रसं जानाति पण्डितः । तरुः सृजति पुष्पाणि मरुद्वहति सौरभम् ॥११॥ कश्यपोऽत्रिर्भरद्वाजो विश्वामित्रोऽथ गौतमः । वामदेवो वसिष्ठश्च मुनयः सप्त विश्रुताः ॥५॥ कं सञ्जधान कृष्णः का शीतलवाहिनी गङ्गा । के दारपोषणरताः कं बलवन्तं न बाधते शीतम् ॥१९॥ कस्तूरी जायते कस्मात् को हन्ति करिणां शतम् । किं कुर्यात् कातरो युद्धे मृगात् सिंहः पलायते ॥१४॥ कस्यचित् किमपि नो हरणीयम् । मर्मवाक्यमपि नोच्चरणीयम् । श्रीपतेः पदयुगं स्मरणीयम् । लीलया भवजलं तरणीयम् ॥२३॥ काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः । वसन्तसमये प्राप्ते काकः काकः पिकः पिकः ॥३॥ काकः पद्मवने रतिं न कुरुते हंसो न कूपोदके । मूर्खः पण्डितसङ्गमे न रमते दासो न सिंहासने । दुष्टः सज्जनसङ्गमं न सहते नीचं जनं सेवते । या यस्य प्रकृतिः स्वभावनियता केनापि न त्यज्यते ॥७॥ काके शौचं द्यूतकारे च सत्यम् । सर्पे शान्तिः स्त्रीषु कामोपशान्तिः ॥ क्लीबे धैर्यम् मद्यपे तत्त्वचिन्ता । भूपे सख्यं केन दृष्टं श्रुतं वा ॥३४॥ काचं मणिं काञ्चनमेकसूत्रे । मुग्धा निबध्नन्ति किमत्र चित्रम् । विचारवान् पाणिनिरेकसूत्रे । श्वानं युवानं मघवानमाह ॥२६॥ का पाण्डुपत्नी गृहभूषणं किम् । को रामशत्रुः किमगस्तिजन्म ॥ को सूर्यपुत्रो विपरीतपृच्छा । कुन्ती सुतो रावणकुम्भकर्णः ॥१३॥ कार्या च महदाकाङ्क्षा क्षुद्राकाङ्क्षा कदापि न । यथाकाङ्क्षा तथा सिद्धिर्निरीहो नाश्नुते महत् ॥१२॥ कार्याथीर् भजते लोकः यावत्कार्यम् न सिध्यति । उत्तीर्णे च परे पारे नौकाया किं प्रयोजनम् ॥२॥ कालो वा कारणं राज्ञः राजा वा कालकारणं । इति ते संशयो मा भूत् राजा कालस्य कारणम् ॥३७॥ काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् । व्यसनेन तु मूर्खाणां निद्रया कलहेन वा ॥४५॥ काव्येषु नाटकं रम्यं तत्र रम्यं शकुन्तला । तत्रापि च चतूर्थोऽङ्को तत्र श्लोकचतुष्टयम् ॥२१॥ किं तया क्रियते धेन्वा या न सूते न दुग्धदा । कोऽर्थः पुत्रेण जातेन यो न विद्वान्न भक्तिमान् ॥३८॥ किन्तु मद्यं स्वभावेन यथैवान्नं तथा स्मृतम् । अयुक्तियुक्तं रोगाय युक्तियुक्तं यथा स्मृतम् ॥३२॥ किमप्यस्तु स्वभावेन सुन्दरं वाप्यसुन्दरम् । यदेव रोचते यस्मै भवेत्तत्तस्य सुन्दरम् ॥२२॥ किं वाससेति तत्र विचारणीयम् वासः प्रधानं खलु योग्यतायै । पीताम्बरं वीक्ष्य ददौ स्वकन्यां दिगम्बरं वीक्ष्य विषं समुद्रः ॥४२॥ किसलयानि कुतः कुसुमानि वा । क्व च फलानि तथा नववीरुधाम् ॥ अयमकारणकारुणिको न चेत् । वितरतीह पयांसि पयोधरः ॥२९॥ कुलीनता सदाराध्या सुप्रतिष्ठां यदीच्छसि । आत्मवैभवलाभार्थम् गुणवान् शीलवान् भव ॥१०॥ कुलीनैः सह सम्पर्कं सज्जनैः सह मित्रतां । ज्ञातिभिश्च सह मेलं कुर्वाणो न विनश्यति ॥४४॥ केचिदज्ञानतो नष्टाः केचिन्नष्टाः प्रमादतः । केचित् ज्ञानावलोकेन केचिद्दुष्टैस्तु नाषिताः ॥२५॥ केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वलाः न स्नानं न विलोपनं न कुसुमं नालङ्कृता मूर्धजाः । वाण्येका समलङ्करोति पुरुषं या संस्कृतार्धायते क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ॥४३॥ के शवं पतितं दृष्ट्वा पाण्डवा हर्शनिर्भराः । रुदन्ति कौरवाः सर्वे भो भो के शव के शव ॥१७॥ कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सुविद्यानां कः परः प्रियवादिनम् ॥२४॥ को न याति वशं लोके मुखे पिण्डेन पूरितः । मृदङ्गो मुखलेपेन करोति मधुरध्वनिम् ॥६॥ कौशिकेन स किल क्षितीश्वरः राममध्वरविघातशान्तये । काकपक्षधरमेत्य याचितस्तेजसां हि न वयः समीक्ष्यते ॥२७॥ क्वचित् काणो भवेत्साधुः क्वचित् गानी पतिव्रता । विरलदन्तो क्वचिन्मूर्खो खल्वाटो निर्धनः क्वचित् ॥२०॥ क्वचित् दुष्टः क्वचित् तुष्टः । दुष्टस्तुष्टः क्वचित् क्वचित् ॥ अव्यवस्थितचित्तानां । प्रसादोऽपि भयङ्करः ॥१८॥ क्षमा बलमशक्तानां शाक्तानां भूषणं क्षमा । क्षमा वशीकृते लोके क्षमया किं न सिध्यति ॥१॥ क्षमा शस्त्रं करे यस्य दुर्जनः किं करिष्यति । अतृणे पतितो वह्निः स्वयमेवोपशाम्यति ॥८॥ क्षुत्क्षामोऽपि जराकृशोऽपि शिथिलप्रायोऽपि कष्टां दशाम् । आपन्नोऽपि विपन्नदीधितिरपि प्राणेषु गच्छत्स्वपि ॥ मत्तेभेन्द्रविभिन्नकुम्भकवलग्रासैकबद्धस्पृहः । किं जीर्णं तृणमत्ति मानमहतामग्रेसरः केसरी ॥४१॥ क्षुद्रो हि समये प्राप्ते बलिष्ठमपि रक्षति । प्राज्ञा यूयं विजानीत मा मा निन्दत कञ्चन ॥४॥ ख सम्पाद्यताम् खद्योतो द्योतते तावत् यावत् न उद्यते शशिः । उदिते तु सह्स्रांशे न खद्योतो न चन्द्रमाः ॥३॥ खलः करोति दुर्वृत्तं नूनं फलति साधुषु । दशाननोऽहरत् सीतां बन्धनं तु महोदधेः ॥१॥ खिन्नं चापि सुभाषितेन रमते स्वीयं मनः सर्वदा । श्रुत्वान्यस्य सुभाषितं खलु मनः श्रोतुं पुनर्वाञ्छति ॥ अज्ञान् ज्ञानवतोऽप्यनेन हि वशीकर्तुं समर्थो भवेत् । कर्तव्यो हि सुभाषितस्य मनुजैरावश्यकः सङ्ग्रहः ॥२॥ ग सम्पाद्यताम् गच्छन् गगग्नमागेर्ण नित्यं लोकान् प्रकाशयन् । वर्धयन् चेतनान् सर्वान् प्रदीपो राजते रविः ॥४॥ गणयन्ति न ये सूर्यं वृष्टिं शीतं च कर्षकाः । यतन्ते धान्यलाभाय तैः साकं हि वसाम्यहम् ॥६॥ गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत् । वर्तमानेन कालेन वर्तयन्ति विचक्षणाः ॥५॥ गर्जति शरदि न वर्षति वर्षति वर्षासु निःस्वनो मेघः । नीचो वदति न कुरुते वदति न साधुः करोत्येव ॥११॥ गर्जसि मेघ न यच्छसि तोयं चातकपक्षी व्याकुलितोऽहम् । दैवादिह यदि दक्षिणवातः क्व त्वं क्वाहं क्व च जलपातः ॥१०॥ गर्वाय परपीडायै दुर्जनस्य धनं बलम् । सज्जनस्य तु दानाय रक्षणाय च ते सदा ॥१८॥ गवीशपत्रो नगजापहारी कुमारतातः शशिखण्डमौलिः । लङ्केशसम्पूजितपादपद्मः पायादनादिः परमेश्वरो नः ॥१७॥ गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभयत्र मज्जतः । राजहंस तव सैव शुक्लता चीयते न च न चापचीयते ॥१३॥ गुणाः कुर्वन्ति दूतत्त्वं दूरेऽपि वसतां सताम् । केतकीगन्धमाघ्राय स्वयमायान्ति षट्पदाः ॥९॥ गुणैरुत्तुङ्गता याति नोत्तुङ्गेनासनेन वै । प्रासादशिखरस्थोऽपि काको न गरुडायते ॥८॥ गुणेष्वनादरं भ्रातः पूर्णश्रीरपि मा कृथाः । सम्पूर्णोऽपि घटः कूपे गुणछेदात्पतत्यधः ॥१५॥ गुरुर्बन्धुरबन्धूनां गुरुश्चक्षुरचक्षुषाम् । गुरुः पिता च माता च सर्वेषां न्यायवर्तिनाम् ॥७॥ गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुः साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः ॥१४॥ गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा । अथ वा विद्यया विद्या चतूर्थो नोपलभ्यते ॥१२॥ गौरवं प्राप्यते दानान्नतु वित्तस्य सञ्चयात् । स्थितिरुच्चैः पयोदानां पयोधीनामधस्थितिः ॥१६॥ घ सम्पाद्यताम् घटं भिन्द्यात् पटं छिन्द्यात् कुर्याद्रासभरोहणम् । येन केन प्रकारेण प्रसिद्धः पुरुषो भवेत् ॥१९॥ घृष्टं घृष्टं पुनरपि पुनश्चन्दनं चारुगन्धम् । छिन्नं छिन्नं पुनरपि पुनः स्वादु चैवेक्षुकाण्डम् ॥ दग्धं दग्धं पुनरपि पुनः काञ्चनं कान्तवर्णम् प्राणान्तेऽपि हि प्रकृतिविकृतिर्जायते नोत्तमानाम् ॥२०॥ च सम्पाद्यताम् चतुरः सखि मे भर्ता यल्लिखति तद परो न वाचयति । तस्मादप्यधिकं मे स्वयमपि लिखितं स्वयं न वाचयति ॥३॥ चन्दनं शीतलं लोके चन्दनादपि चन्द्रमाः । चन्द्रचन्दनयोर्मध्ये शीतला साधुसङ्गतिः ॥१॥ चलत्येकेन पादेन तिष्ठत्येकेन पण्डितः । नासमीक्ष्यापरं स्थानं पूर्वमायातनं त्यजेत् ॥५॥ चातक धूमसमूहं दृष्ट्वा मा धाव वारिधरबुद्ध्या । इह हि भविष्यति भवतो नयनयुगादेव वारिणं पूरः ॥९॥ चिता चिन्ता समाप्रोक्ता बिन्दुमात्रं विशेषता । सजीवं दहते चिन्ता निर्जीवं दहते चिता ॥८॥ चितां प्रज्वलितां दृष्ट्वा वैद्यो विस्मयमागतः । नाहं गतो न मे भ्राता कस्येतद् हस्तलाघवम् ॥२॥ चित्ते प्रसन्ने भुवनं प्रसन्नं चित्ते विषण्णे भुवनं विषण्णम् । अतोऽभिलाषो यदि ते सुखे स्याच्चित्तप्रसादे प्रथमं यतस्व ॥४॥ चित्ते भ्रान्तिर्जायते मद्यपानात् भ्रान्ते चित्ते पापचर्यामुपैति । पापं कृत्वा दुर्गतिं याति मूढास्तस्मान्मद्यं नैव पेयं न पेयम् ॥७॥ चिन्तनीया हि विपदामादावेव प्रतिक्रिया । न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे ॥६॥ छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे । फलान्यपि परार्थाय वृक्षाः सत्पुरुषा इव ॥१०॥ ज सम्पाद्यताम् जन्मदाता अन्नदाता विद्यादाता तथैव च । कन्यादाता भयत्राता पञ्चैते पितरः स्मृताः ॥१५॥ जनैर्जनहितार्थाय जनानामेव निर्मितं । लोकतन्त्रं भारतस्य वसुधायां विराजते ॥१२॥ जीवनं स्वं परार्थाय नित्यं यच्छत मानवाः । इति सन्देशमाख्यातुं समुद्रं यान्ति निम्नगाः ॥११॥ जीविते यस्य जीवन्ति लोके मित्राणि बान्धवाः । सफलं जीवितं तस्य को न स्वार्थाय जीवति ॥१३॥ ज्येष्ठत्वं जन्मना नैव गुणैर्ज्येष्ठत्वमुच्यते । गुणात् गुरुत्वमायाति दुग्धं दधि घृतं क्रमात् ॥१४॥ त सम्पाद्यताम् तदेवास्यं परं मित्रं यत्र सङ्क्रमति द्वयं । दृष्टे सुखं च दुःखं च प्रतिच्छायेव दर्पणे ॥२॥ ताडिताः पीडिता ये स्युस्तान्ममेत्यभ्युदीरयेत् । स साधुरवगन्तव्यस्तत्र द्रष्टव्य ईश्वरः ॥७॥ तातेन कथितं पुत्र पत्रं लिख ममाज्ञया । नतेन लिखितं पत्रं पितुराज्ञा म लङ्घिता ॥४॥ तिलवत्स्निग्धं मनोऽस्तु वाण्यां गुडवन्माधुर्यम् तिलगुडलड्डुकवत् सम्बन्धे अस्तु सुवृत्तत्वम् । अस्तु विचारे शुभसङ्क्रमणं मङ्गलाय यशसे कल्याणी सङ्क्रान्तिरस्तु वः सदाहमाशंसे ॥१०॥ तुष्टोऽपि राजा यदि सेवकेभ्यः भाग्यात्परं नैव ददाति किञ्चित् । अहर्निशं वर्षति वारिवाहास्तथापि पत्रत्रितयः पलाशः ॥९॥ तृणं खादिति केदारे जलं पिबति पल्वले । दुग्धं यच्छति लोकेभ्यो धेनुर्नो जननी प्रिया ॥१॥ तृणादपि लघुस्तूलं तूलादपि च याचकः । वायुना किं न नीतोऽसौ मामयं प्रार्थयेदिति ॥८॥ ते यान्ति तीर्थेषु बुधाः ये शम्भोदूर्रवर्तिनः । यस्य गौरीश्वरश्चित्ते तीर्थं भोज परं हि सः ॥५॥ त्यजन्ति मित्राणि धनैर्विहीनं पुत्राश्च दाराश्च सुहृज्जनाश्च । तमर्थवन्तं पुनराश्रयन्ति अर्थो हि लोके मनुषस्य बन्धुः ॥६॥ त्याग एक गुणः श्लाघ्यः किमन्यैर्गुणराषिभिः । त्यागाज्जगति पूज्यन्ते पशुपाषाणपादपाः ॥३॥ द सम्पाद्यताम् दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा । पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥३॥ ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति । भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम् ॥२२॥ दधि मधुरं मधु मधुरं द्राक्षा मधुरा सुधापि मधुरैव । तस्य तदेव हि मधुरं यस्य मनो यत्र संलग्नम् ॥१॥ दरिद्रता धीरतया विराजते कुरूपता शीलगुणेन राजते । कुभोजनं चोष्णतया विराजते कुवस्त्रता शुभ्रतया विराजते ॥५॥ दर्शने स्पर्शणे वापि श्रवणे भाषणेऽपि वा । यत्र द्रवत्यन्तरङ्गं स स्नेह इति कथ्यते ॥२१॥ दातव्यं भोक्तव्यं धनविषये सञ्चयो न कर्तव्यः । पश्येह मधुकरीणां सञ्चितार्थम् हरन्त्यन्ये ॥८॥ दातव्यमिति यद्दानं दीयतेऽनुपकारिणे । देशे काले च पात्रे च तद्दानं सात्विकं स्मृतम् ॥२०॥ दाता क्षमी गुणग्राही स्वामी दुःखेन लभ्यते । शुचिर्दक्षोऽनुरक्तश्च जाने भृत्योऽपि दुर्लभः ॥९॥ दातुर्याचकयोर्भेदः कराभ्यामेव दर्शितः । एकस्य गच्छतोऽधस्तादुपर्यन्यस्य तिष्ठताम् ॥२४॥ दानेन तुल्यं सुहृदास्ति नान्यो लोभाच्च नान्योऽस्ति रिपुः पृथिव्याम् । विभूषणं शीलसमं न चान्यत् सन्तोषतुल्यं धनमस्ति नान्यत् ॥४॥ दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भ्वति ॥१६॥ दारिद्र्यान्मरणाद्वा मरणं मे रोचते न दारिद्र्यं । अल्पक्लेशं मरणं दारिद्र्यं त्वनन्तकं दुःखम् ॥२३॥ दिवसेनैव तत्कुर्याद् येन रात्रौ सुखं वसेत् । पूर्वे वयसि तत्कुर्याद् येन वृद्धः सुखी भवेत् ॥१८॥ दुन्दुभिस्तु नितरामचेतनस्तन्मुखादपि धनं धनं धनम् । इत्थमेव निनादः प्रवर्तते किं पुनर्यदि भवेत्सचेतनः ॥१२॥ दुर्जनदूषितमनसां पुंसाम् सुजनेऽपि नास्ति विश्वासः । दुग्धेन दग्धवदनस्तक्रं फूत्कृत्य पामरः पिबति ॥१०॥ दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोऽपि सन् । मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥१७॥ दुर्जनः प्रियवादीति नैतद्विश्वासकारणम् । मधु तिष्ठति जिव्हाग्रे हृदये तु हलाहलम् ॥६॥ दुर्जनेन समं वैरं प्रीतिं चापि न कारयेत् । उष्णो दहति चाङ्गारः शीतः कृष्णायते करम् ॥७॥ दुर्जनैः सह वासो हि ध्रुवं नाशाय कल्पते । काकस्य सहवासेन हंसो नष्टो वृथा पुरा ॥१३॥ देशाटनं राजसभाप्रवेशो व्यापारिविद्वज्जनसङ्गतिश्च । सर्वेषु शास्त्रेष्ववलोकनं च चातुर्यमूलानि भवन्ति पञ्च ॥१९॥ दैवमवेति संचिन्त्य स्वोद्योगं न नरस्त्यजेत् । अनुद्यमेन कस्तैलं तिलेभ्यः प्राप्तुमर्हति ॥११॥ द्राक्षा म्लानमुखी जाता शर्करा चाश्मताङ्गता । सुभाशितरसस्याग्रे सुधा भीता दिवङ्गता ॥२॥ द्वन्द्वो द्विगुरपि चाहं मद्गेहे नित्यमव्ययी भावः । तत्पुरुष कर्म धारय येनाहं स्यां बहुव्रीहिः ॥१५॥ द्वाविमौ पुरुषौ लोके सुर्यमण्दलभेदिनौ । परिव्राट् योगयुक्तश्च रणस्याभिमुखे हतः ॥१४॥ ध सम्पाद्यताम् धनमलब्धं काङ्क्षेत लब्धं रक्षेदवेक्षणात् । रक्षितं वर्धयेत् सम्यक् वृद्धं तीर्थेषु निक्षिपेत् ॥२५॥ धवलयति समग्रं चन्द्रमा जीवलोकं किमिति निजकलङ्कं नात्मसंस्थं प्रमार्ष्टि । भवति विदितमेतद् प्रायशः सज्जनानां परहितनिरतानामादरो नात्मकार्ये ॥२६॥ धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः । धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥२७॥ न सम्पाद्यताम् न कश्चित् कस्यचित् मित्रं न कश्चित् कस्यचित् रिपुः । कारणेनैव जायन्ते मित्राणि रिपवोऽपि वा ॥६॥ नक्रः स्वस्थानमासाद्य राजेन्द्रमपि कर्षति । स एव प्रच्युतः स्थानाच्छुनापि परिभूयते ॥१६॥ नक्षत्रभूषणं चन्द्रो नारीणां भूषणं पतिः । पृथिवीभूषणं राजा विद्या सर्वस्य भूषणं ॥४२॥ न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते । गृहं तु गृहिणीहीनं कान्तारादतिरिच्यति ॥२१॥ न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारि । व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम् ॥१३॥ न तेन स्थविरो भवति येनास्य पलितं शिरः । स वै युवाप्यधीयानो देवास्तं स्थविरं विदुः ॥३८॥ न दुर्जनः सज्जनतामुपैति बहुप्रकारैरपि सेव्यमानः । भूयोपि सिक्तः पयसा घृतेन न निम्बवृक्षः मधुरत्वमेति ॥१४॥ न देवो विद्यते काष्ठे न पाषाणे न मृन्मये । भावे हि विद्यते देवस्तस्माद्भावो हि कारणम् ॥२२॥ न धैर्येण विना लक्ष्मीर्न शौर्येण विना जयः । न ज्ञानेन विना मोक्षो न दानेन विना यशः ॥१॥ न पण्डिताः साहसिका भवन्ति श्रुत्वापि ते सन्तुलयन्ति तत्त्वम् । तत्त्वं समादाय समाचरन्ति स्वार्थं प्रकुर्वन्ति परस्य चार्थम्॥३०॥ न भीतो मरणादस्मि केवलं दूषितं यशः । विशुद्धस्य हि मे मृत्युः पुत्रजन्मसमं किल ॥२५॥ न भूतपूर्वम् न कदापि वार्ता हेम्नः कुरङ्गो न कदापि दृष्टः । तथापि तृष्णा रघुनन्दनस्य विनाशकाले विपरीतबुद्धिः ॥८॥ न भूप्रदानं न सुवर्णदानं न गोप्रदानं न तथान्नदानम् । यथा वदन्तीह महाप्रदानं सर्वेषु दानेष्वभयप्रदानम् ॥२९॥ नमन्ति फलिता वृक्षा नमन्ति च बुधा जनाः । शुष्ककाष्ठानि मूर्खाश्च भिद्यन्ते न नमन्ति च ॥१५॥ नमस्ते शारदे देवी काश्मीरपुरवासिनि । त्वामहं प्रार्थये देवि विद्यादानं च देहि मे ॥ १७॥ नमस्ते शारदे देवी वीणा पुस्तकधारिणि । विद्यारम्भं करिष्यामि प्रसन्ना भव सर्वदा ॥१२॥ नमस्ते सर्वदेवानां वरदासि हरेः प्रिया । या गतिस्त्वत्प्रसन्नानां सा मे स्यात्तव दर्शनात् ॥१०॥ नमो दीपशिखे तुभ्यमन्धकारं निरस्यसि । प्रयच्छसि धनं स्वास्थ्यं कल्याणाय च जायसे ॥२६॥ नरनारीसमुत्पन्ना सा स्त्री देहविवर्जिता । अमुखी कुरुते शब्दं जातमात्रा विनश्यति ॥२०॥ नरपतिहितकर्ता द्वेष्यतां याति लोके जनपदहितकर्ता त्यज्यते पार्थिवेन । इति महति विरोधे विद्यमाने समाने नृपतिजनपदानां दुर्लभः कार्यकर्ता ॥३३॥ नरस्याभरणं रूपं रूपस्याभरणं गुणः । गुणस्याभरणं ज्ञानं ज्ञानस्याभरणं क्षमा ॥५॥ नरो हि मलिनैर्वस्त्रैः यत्र क्वापि निषीदति । तथा चलितशीलस्तु शेषं शीलं न रक्षति ॥४॥ नवं पुरातनं वापि लेखं पश्यन्ति पण्डिताः । सारमासाद्य तुष्यन्ति निःसारं च त्यजन्ति ते ॥११॥ न वित्तं दर्शयेत्प्राज्ञः कस्यचित्स्वल्पमप्यहो । मुनेरपि यतस्तस्य दर्शनाच्चलते मनः ॥२८॥ न विद्यया नैव कुलेन गौरवं जनानुरागो धनिकेषु सर्वदा । कपालिना मौलिधृतापि जाह्नवी प्रयाति रत्नाकरमेव सर्वदा ॥२३॥ न व्याधिर्न विषं नापत्तथा नाधिश्च भूतले । खेदाय स्वशरीरस्थं मौख्र्यमेकं यथा नृणाम् ॥३७॥ न हि कश्चित् विजानाति किं कस्य श्वो भविश्यति । अतः श्वः करणीयानि कुर्यादद्यैव बुद्धिमान् ॥३॥ न हि ज्ञानसमं लोके पवित्रं चान्यसाधनं । विज्ञानं सर्वलोकानामुत्कर्षाय स्मृतं खलु ॥१९॥ न हि प्राणात् प्रियतरं लोके किञ्चन विद्यते । तस्मात् दयां नरः कुर्यात् यथात्मनि तथा परे ॥९॥ नागो भाति मदेन कं जलरुहैर्नित्योत्सवैर्मन्दिरं शीलेनैव नरो जवेन तुरगः पूर्णेन्दुना शर्वरी । वाणी व्याकरणेन हंसमिथुनैर्वापी सभा पण्दितैः सत्पुत्रेण कुलो बुधेन वसुधा कीत्र्या च लोकत्रयम् ॥७॥ नानाधर्मनिगूढतत्त्वनिचिता यत्संस्कृती राजते सेयं भारतभूर्नितान्तरुचिरा मातैव नः सर्वदा । तस्या उन्नतिहेतवे हि भवतां ज्ञानं तथा मे बलम् सम्पन्ना बलशालिनी विजयताम् मे मातृभूः सर्वदा ॥३२॥ नाभिषेको न संस्कारः सिंहस्य क्रियते वने । विक्रमार्जितसत्त्वस्य स्वयमेव मृगेन्द्रता ॥२७॥ नमः सर्वविदे तस्मै व्यासाय कविवेधसे । चक्रे पुण्यं सरस्वत्या यो वर्षमिव भारतम् ॥४४॥ नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रनेत्र । येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः ॥४३॥ नायं प्रयाति विकृतिं विरसो न यः स्यात् न क्षीयते बहुजनैर्नितरां निपीतः । जाड्यं निहन्ति रुचिमेति करोति तृप्तिं नूनं सुभाशितरसोऽन्यरसातिशायी ॥३४॥ नारिकेलसमाकारा दृश्यन्तेऽपि हि सज्जनाः । अन्ये बदरिकाकारा बहिरेव मनोहराः ॥२॥ निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु लक्ष्मीः स्थिरा भवतु गच्छतु वा यथेष्टम् । अद्यैव वा मरणमस्तु युगान्तरे वा न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥२४॥ निर्गुणेश्वपि सत्त्वेषु दयां कुर्वन्ति साधवः । न हि संहरते ज्योत्स्नां चन्द्रश्चाण्डालवेश्मनः ॥३९॥ नृपस्य वर्णाश्रमपालनं यत्स एव धर्मो मनुना प्रणीतः निर्वासिताप्येवमतस्त्वयाहं तपस्विसामान्यमवेक्षणीया । तथेति तस्या प्रतिगृह्य वाचं रामानुजे दृष्टिपथं व्यतीते सा मुक्तकण्ठं व्यसनातिभाराच्चक्रन्द विग्ना कुररीव भूयः ॥४१॥ निवृत्तो यस्तु मद्येभ्यः जितात्मा बुद्धिपूर्वकः । विकारैः स्पृश्यते जातु न स शारीरमानसैः ॥३५॥ निःस्वो वष्टि शतं शती दशशतं लक्षं सहस्राधिपः लक्षेशः क्षितिपालतां क्षितिपतिः चक्रेशतां वाञ्छति । चक्रेषः पुनरिन्द्रतां सुरपतिः ब्राह्मं पदं वाञ्छति ब्रह्मा शैवपदं शिवो हरिपदं चाशावधिं को गतः ॥३६॥ नृत्यं मयूराः कुसुमानि वृक्षाः दर्भानुपात्तान्विजहुर्हरिण्यः । तस्याः प्रपन्ने समदुःखभावमत्यन्तमासीद्रुदितं वनेऽपि ॥४०॥ निर्विषेणापि सर्पेण कर्तव्या महती फणा । विषमस्तु न चाप्यस्तु फटाटोपो भयङ्करः ॥१८॥ नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । नचैनं क्लेदयत्यापो न शोषयति मारुतः ॥३१॥ प सम्पाद्यताम् पक्षिणां बलमाकाशो मत्स्यानामुदकं बलम् । दुर्बलस्य बलं राजा बालानां रोदनं बलम् ॥८॥ पङ्गो धन्यस्त्वमसि न गृहं यासि योऽर्थी परेषाम् धन्योऽन्ध त्वं धनमवदतां नेक्षसे यन्मुखानि । श्लाघ्यो मूक त्वमसि कृपणं स्तौषि नार्थाशया यः स्तोतव्यस्त्वं बधिर गिरं यः खलानां न शृणोसि ॥२१॥ पञ्चैते देवतरवः मन्दारः पारिजातकः । सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥२४॥ पराधिकारचर्चाम् यः कुर्यात् स्वामिहितेच्छया । स निषीदति चीत्कारात् गर्दभस्ताडितो यथा ॥२०॥ परान्नं प्राप्य दुर्बुद्धे मा प्राणेषु दयां कुरु । दुर्लभानि परान्नानि प्राणा जन्मनि जन्मनि ॥१२॥ परित्राणाय साधूनां विनाशाय च दुश्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥१॥ परिश्रमो मिताहारः भेषजे सुलभे मम नित्यं ते सेवमानस्य व्याधिर्भ्यो नास्ति मे भयम् । धनिकस्तु तदाकण्र्य स्वायत्तं भेषजद्वयं सेवनीयं तदेवेति निश्चित्य गृहमागतः ॥१८॥ परोपकारकरणं नूनं हस्तस्य भूषणम् । पूज्येषु च नमस्कारः उत्तराङ्गस्य भूषणम् ॥२॥ परोपकारशून्यस्य धिङ् मनुष्यस्य जीवनम् । यावन्तः पशवस्तेशां चर्माप्युपकरोति हि ॥७॥ परोपदेशे पाण्दित्यं सर्वेषां सुकरं नृणाम् । विस्मरन्तीह शिष्टत्त्वं स्वकार्ये समुपस्थिते ॥१०॥ पलाशमुकुलभ्रान्त्या शुकतुण्डे पतत्यलिः । सोऽपि जम्बूफलभ्रान्त्या तमलिं धर्तुमिच्छति ॥२९॥ पश्चाद्बर्हं वहति विपुलं चित्रितं दीप्तिमन्तम् काले काले व्यजनमिव तं विस्तृतं यः करोति । शीर्षे कान्तं वहति तरलं पिच्छकानां कलापं कोऽयं पक्षी रुचिरवदनो नर्तने च प्रवीणः ॥२८॥ पादपानां भयं वातात् पद्मानां शिशिराद्भयम् । पर्वतानां भयं वज्रात् साधूनां दुर्जनाद्भयम् ॥४॥ पानीयं पातुमिच्छामि त्वत्तः कमललोचने । यदि दास्यसि नेच्छामि न दास्यसि पिबाम्यहम् ॥१3॥ पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटम् नानाख्यानककेसरं हरिकथासम्बोधनाबोधितम् । लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा भूयाद्भारतपङ्कजं कलिमलप्रध्वंसि नः श्रेयसे ॥३१॥ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयम् व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम् । अद्वैतामृतवर्षिणीं भगवतीमष्टादशाध्यायिनीं अम्ब त्वामनुसन्दधामि भगवद्गीते भवद्वेषिणीम् ॥३२॥ पिण्डे पिण्डे मतिर्भिन्ना कुण्डे कुण्डे नवं पयः । जातौ जातौ नवाचाराः नवा वाणी मुखे मुखे ॥३७॥ पिनाकफणिबालेन्दुभस्ममन्दाकिनीयुता । पवर्गरचिता मूर्तिरपवर्गप्रदास्तु नः ॥३६॥ पिपीलिकार्जितं धान्यं मक्षिकासञ्चितं मधु । लुब्धेन सञ्चितं द्रव्यं समूलं हि विनश्यति ॥९॥ पिबन्ति नद्यः स्वयमेव नाम्भः स्वयं न खादन्ति फलानि वृक्षाः । नादन्ति स्वस्यं खलु वारिवाहाः परोपकाराय सतां विभूतयः ॥६॥ पुनर्वित्तं पुनर्मित्रं पुनर्भाया पुनर्मही । एतत् सर्वं पुनर्लभ्यं न शरीरं पुनः पुनः ॥३४॥ पुरा कवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठितकालिदासः । अद्यापि तत्तुल्य कवेरभावात् अनामिका सार्थवती बभूव ॥३०॥ पुस्तकस्था तु या विद्या परहस्तगतं धनं । कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् ॥१७॥ पुस्तकेषु च नाधीतं नाधीतं गुरुसन्निधौ । न शोभते सभामध्ये हंसमध्ये बको यथा ॥१६॥ पुष्पेऽस्ति गन्धो मधुरो नारिकेले जलं तथा । परमेशस्य सा लीला यतः स सर्वशक्तिमान् ॥२२॥ पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितं । मूढैः पाषाणखण्डेषु रत्नं संज्ञा विधीयते ॥११॥ पोषयन्ति पयो दत्त्वा यथा वत्सान् तथा जनान् । नित्यं समानया प्रीत्या धेनवो मातरो नृणाम् ॥३॥ प्रथमवयसि पीतं तोयमल्पं स्मरन्तः शिरसि निहितभारा नारिकेला नराणाम् । ददति जलमनल्पास्वादमाजीवितान्तं न हि कृतमुपकारं साधवो विस्मरन्ति ॥२७॥ प्रथमे नार्जिता विद्या द्वीतीये नार्जितं धनं । तृतीये नार्जितं पुण्यं चतूर्थे किं करिष्यति ॥५॥ प्रमदा मदिरा लक्ष्मीः विज्ञेया त्रिविधा सुरा । दृष्ट्वैवोन्मादयत्येका पीता चान्यातिसञ्चयात् ॥३३॥ प्रलये पवनाघातैः प्रचलन्ति नगा अपि । कृच्छेऽपि न चलत्येव धीराणां निश्चला मतिः ॥१५॥ प्राणनाशेऽपि कुर्वीत परेषां मानवो हितम् । दिशः सुगन्धयत्येव वह्नौ क्षिप्तोऽपि चन्दनः ॥१९॥ प्राणभूतञ्च यत्तत्त्वं सारभूतं तथैव च । संस्कृतौ भारतस्यास्य तन्मे यच्छतु संस्कृतम् ॥२५॥ प्राणां त्यजति देशार्थम् पण्दितानां सहायकः । य आचरति कल्याणं लोके मानं स विन्दति ॥२६॥ प्रारभ्यते न खलु विघ्नभयेन नीचैः प्राभ्य विघ्नविहता विरमन्ति मध्याः । विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः प्रारब्धमुत्तमजना न परित्यजन्ति ॥१४॥ प्रारम्भगुर्वी क्षयिणी क्रमेन गुर्वी पुरा वृद्धिमती च पश्चात् । दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्रिः खलसज्जनानाम् ॥२३॥ प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः । तस्मात् तदेव वक्तव्यं वचने किं दरिद्रता ॥३५॥ फ सम्पाद्यताम् फणिनो बहवः सन्ति भेकभक्षणतत्पराः । एक एव हि शेषोऽयं धरणीधरणक्षमः ॥१॥ फलं स्वेच्छालभ्यं प्रतिदिनमखेदं क्षितिरुहां पयः स्थाने स्थाने शिशिरमधुरं पुण्यसरितां । मृदुस्पर्शा शय्या सुललितलतापल्लवमयी सहन्ते सन्तापं तदपि धनिनां द्वारि कृपणाः ॥२॥ ब सम्पाद्यताम् बहुभिर्न विरोद्धव्यं दुर्जनैः सज्जनैरपि । स्फुरन्तमपि नागेन्द्रं भक्षयन्ति पिपीलिकाः ॥४॥ बालस्यापि रवेः पादाः पतन्त्युपरि भूभृतां । तेजसा सह जातानां वयः कुत्रोपयुज्यते ॥५॥ बालो वा यदि वा वृद्धो युवा वा गृहमागतः । तस्य पूजा विधातव्या सर्वस्याभ्यागतो गुरुः ॥३॥ बुभुक्षितः किं न करोति पापं क्षीणा नरा निष्करुणा भवन्ति । आख्याहि भद्रे प्रियदर्शनस्य न गंगदत्तः पुनरेति कूपं ॥६॥ ब्रह्मन्नध्ययनस्य नैष समयस्तूष्णीं बहिः स्थीयतां स्वल्पं जल्प बृहस्पते जडमते, नैषा सभा वज्रिणः । वीणां संहर नारद स्तुतिकथालापैरलं तुम्बुरो सीतारल्लकभल्लभग्नहृदयः स्वस्थो न लंकेश्वरः ॥७॥ भ सम्पाद्यताम् भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती । तस्यां हि काव्यं मधुरं तस्मादपि सुभाषितम् ॥८॥ भासस्य कालिदासस्य भवभूतेश्च विश्रुता । बाणशूद्रकहर्षाणां काव्यभाषास्ति संस्कृतम् ॥१३॥ भीतेभ्यश्चाभयं देयं व्याधितेभ्यस्तथौषधम् । देया विद्यार्थिने विद्या देयमन्नं क्षुधातुरे ॥९॥ भीष्मद्रोणतटा जयद्रथजला गान्धारनीलोत्पला शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला । अश्वत्थामविकर्णघोरमकरा दुर्योधनावर्तिनी सोत्तीर्णा खलु पाण्डवैर्रणनदी कैवर्तकः केशवः ॥१४॥ भोजनान्ते च किं पेयं जयन्तः कस्य वै सुतः । कथं विष्णुपदं प्रोक्तं तक्रं शक्रस्य दुर्लभम् ॥१०॥ भोजनान्ते पिबेत् तक्रं दिनान्ते च पिबेत् पयः । निशान्ते च पिबेत् वारि किं वैद्येन प्रयोजनं ॥१५॥ भो दारिद्र्य नमस्तुभ्यं सिद्धोऽहं त्वत्प्रसादतः । पश्याम्यहं जगत्सर्वं न मां पश्यति कश्चन ॥१२॥ भ्रमन् वनान्ते नवमंजरीषु न षट्पदो गन्धफलीमजिघ्रत् । सा किं न रम्या स च किं न रन्ता बलीयसी केवलमीश्वरेच्छा ॥११॥ म सम्पाद्यताम् मणिना वलयं वलयेन मणिः मणिना वलयेन विभाति करः । पयसा कमलं कमलेन पयः पयसा कमलेन विभाति सरः ॥८॥ मनो मधुकरो मेघो मद्यपो मत्कुणो मरुत् । मा मदो मर्कटो मत्स्यो मकारा दश चंचलाः ॥२॥ मयूरो विहगो रम्यः आनन्दयति मानवान् । पृष्ठे सरस्वती तस्य उपविष्टेति मन्यते ॥५॥ मर्कटस्य सुरापानं तस्य वृश्चिकदंशनम् । तन्मध्ये भूतसंचारो यद्वा तद्वा भविष्यति ॥१०॥ मलिनैरलकैरेतैः शुक्लत्वं प्रकटीकृतम् । तद्रोषादिव निर्याता वदनाद्रदनावलिः ॥१५॥ महाजनस्य संसर्गः कस्य नोन्नतिकारकः । पद्मपत्रस्थितं तोयं धत्ते मुक्ताफलश्रियम् ॥१२॥ महानुभावसंसर्गः कस्य नोन्नतिकारकः । रत्याम्बु जाह्नवीसंगात त्रिदशैरपि वन्द्यते ॥१३॥ माता मित्रं पिता चेति स्वभावात् त्रितयं हितं । कार्यकारणतश्चान्ये भवन्ति हितबुद्धयः ॥१॥ मात्रा समं नास्ति शरीरपोषणं चिन्तासमं नास्ति शरीरशोषणं । मित्रं विना नास्ति शरीर तोषणं विद्यां विना नास्ति शरीरभूषणं ॥३॥ मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः । यत्क्रौंचमिथुनादेकमवधीः काममोहितम् ॥१४॥ मारात्परः शूरतरो न कश्चित् पराभवः स्त्रीहरणान्न चान्यः । तथापि नाब्धिं प्रविवेश रामो बबन्ध सेतुं विजयी सहिष्णुः ॥१७॥ मुखं पद्मदलाकारं वाणी चन्दनशीतला । हृदयं क्रोधसंरक्तं त्रिविधं धूर्तलक्षणम् ॥४॥ मूकं करोति वाचालं पंगुं लंघयते गिरिम् । यत्कृपा तमहं वन्दे परमानन्दमाधवम् ॥७॥ मूर्खस्य पंच चिह्नानि गर्वो दुर्वचनं तथा । क्रोधश्च दृढवादश्च परवाक्येष्वनादरः ॥६॥ मृगमीनसज्जनानां तृणजलसन्तोषविहितवृत्तीनाम् । लुब्धकधीवरपिशुनः निष्कारणवैरणो जगति ॥९॥ मृगा मृगैः संगमुपव्रजन्ति गावश्च गोभिस्तुरगास्तुरंगैः । मूर्खाश्च मूर्खैः सुधयः सुधीभिः समानशीलव्यसनेषु सख्यं ॥११॥ मृदुरित्यवजानन्ति तीक्ष्ण इत्युद्विजन्ति च । तीक्ष्णकाले भवेत्तीक्ष्णो मृदुकाले मृदुर्भवेत् ॥१६॥ मौनान्मूर्खः प्रवचनपटुर्वातुलो जल्पको वा क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः । धृष्टः पाश्र्वे वसति नियतं दूरतश्चाप्रगल्भः सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥१८॥ य सम्पाद्यताम् यत्र रामकथागानं तत्रास्ते हनुमान् यथा । संस्कृतध्ययनं यत्र तत्र संस्कृतिदर्शनम् ॥२१॥ यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः । यत्र तास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः ॥३०॥ यत्र नास्ति दधिमन्थनघोषः तत्र नो लघुलघुनि शिशुनि । यत्र नास्ति गुरुगौरवपूजा तानि किं बत गृहाणि वनानि ॥३१॥ यथा देशस्तथा भाषा यथा राजा तथा प्रजा । यथा भूमिस्तथा तोयं यथा बीजस्तथांकुरः ॥१॥ यथा काष्ठं च काष्ठं च समेयातां महोदधौ । समेत्य च व्यपेयातां तद्वत्भूतसमागमः ॥१३॥ यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत् । एवं पुरुषकारेण विना दैवं न सिध्यति ॥१७॥ यथैकेन न हस्तेन तालिका सम्प्रपद्यते । तथोद्यमपरित्यक्तं कर्म नोत्पादयेत् फलम् ॥१५॥ यद् यद् विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोऽंशसम्भवम् ॥२७॥ यदि वा याति गोविन्दो मथुरातः पुनः सखी । राधाया नयनद्वन्द्वे राधानामविपर्ययः ॥२९॥ यदेवोपनतं दुःखात् सुखं तद्रसवत्तरम् । निर्वाणाय तरुच्छाया तप्तस्य हि विशेषतः ॥२२॥ यः पठति लिखति पश्यति परिपृच्छति पण्डितानुपाश्रयति । तस्य दिवाकरकिरणैर्नलिनीदलमिव विकासते बुद्धिः ॥३॥ यः पूतनामारणलब्धकीर्तिः काकोदरो येन विनीतदर्पः । यशोदयालंकृतमूर्तिरव्यात् पतिर्यदूनामथवा रघूणाम् ॥२८॥ ययोरैव समं वित्तं ययोरैव समं कुलम् । तयोमैर्त्रिर्विवाहश्च न तु पुष्टविपुष्टयोः ॥२६॥ यः समुत्पतितं क्रोधं क्षमयैव निरस्यति । यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ॥२३॥ यस्यास्ति वित्तं स वरः कुलीनः स पण्डितः स श्रुतवान् गुणज्ञः । स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ते ॥१४॥ यस्मिन् देशे न संमानो न प्रीतिर्न च बान्धवाः । न च विद्यागमः कश्चित् न तत्र दिवसं वसेत् ॥८॥ यस्तु संचरते देशान् सेवते यस्तु पण्डितान् । तस्य विस्तारिता बुधिस्तैलबिन्दुरिवाम्भसि ॥५॥ यस्य कस्य तरोर्मूलं येन केनापि मिश्रितम् । यस्मै कस्मै प्रदातव्यं यद्वा तद्वा भविष्यति ॥११॥ यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् । लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ॥२॥ यस्य षष्ठी चतुर्थी च विहस्य च विहाय च । अहं कथं द्वितीया स्यात् द्वितीया स्यामहं कथम् ॥२०॥ या कुन्देन्दु तुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना । या ब्रह्माच्युतशंकरप्रभृतिभिर्देवैः सदा वन्दिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥४॥ याचते कार्यकाले यः स किं भृत्यो स किं सुहृद् । भृत्यात्सम्भावयेत् यस्तु कार्यकाले स किं प्रभुः ॥१८॥ यां चिन्तयामि सततं मयि सा विरक्ता साप्यन्यमिच्छति जनं स जनोऽन्यसक्तः । अस्मत्कृते च परितुष्यति काचिदन्या धिक् तां च तं च मदनं च इमां च मां च ॥२५॥ युधिष्ठिरो कस्य पुत्रो गंगा वहति कीदृशी । हंसस्य शोभा का वास्ति धर्मस्य त्वरिता गतिः ॥१२॥ येन केन प्रकारेण यस्य कस्यापि देहिनः । संतोषं जनयेत् प्राज्ञस्तदेवेश्वरपूजनम् ॥९॥ ये नाम केचिदिह प्रथयन्यवज्ञाम् जानन्तु ते किमपि तान्प्रति नैष यत्नः । उत्पस्यते सति मम कोऽपि समानधर्मा कालो ह्ययं निरवधिर्विपुला च पृथ्वी ॥१९॥ येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः । ते मर्त्यलोके भुविभारभूता मनुष्यरूपेण मृगाश्चरन्ति ॥१०॥ योगक्षेमाय राष्ट्रस्य सभ्यतायाश्च संस्कृतेः । नैवान्यो विद्यते पन्था लोकसंघटनं विना ॥२४॥ यो धृवाणि परित्यज्य अधृवाणि निषेवते । धृवाणि तस्य नश्यन्ति अधृवं नष्टमेव च ॥१६॥ यो न संचरते देशान् सेवते यो न पण्डीतान् । तस्य संकुचिता बुधिर्धृतबिन्दुरिवाम्भसि ॥६॥ यौवनं धनसंपत्तिः प्रभुत्त्वमविवेकिता । एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ॥७॥ र सम्पाद्यताम् रजकश्चर्मकारश्च नटो वरुड एव च । कैवर्तभेदभिल्लाश्च सप्तैते चान्त्यजाः स्मृताः ॥९॥ रत्नैर्महाहैर्स्तुतुषुर्न देवाः न भेजिरे भीमविषेण भीतिम् । सुधां विना न प्रययुर्विरामं न निश्चिदार्थाद्विरमन्ति धीराः ॥३॥ रथस्यैकं चक्रं भुजगयामिता सप्ततुरगाः निरालम्बो मार्गश्चरणविकलः सारथिरपि । रविर्यात्यन्तं प्रतिदिनमपारस्य नभसः क्रियासिधिः सत्त्वे भवति महतां नोपकरणे ॥८॥ रात्रिर्गमिष्यति भविष्यति सुप्रभातं भास्वानुदेष्यति हसिष्यति पंकजश्रीः । इत्थं विचिन्तयति कोषगते द्विरेफे हा हन्त हन्त नलिनीं गज उज्जहार ॥४॥ रात्रौ जानु दिवा भानु कृशानुः सन्ध्ययोद्र्वयोः । पश्य शीतं मया नीतं जानुभानुकृशानुभिः ॥६॥ रामाद्याचय मेदिनीं धनपतेर्बीजं बलाल्लांगलम् प्रेतेशान्महिषं तवास्ति वृषभः फालं त्रिशूलादपि । शक्ताहं तव चान्नदानकरणे स्कन्दोऽपि गोरक्षणे खिन्नाहं तव याचनात् कुरु कृषिं भिक्षाटनं मा कृथाः ॥११॥ रामाभिषेके मदविह्वलायाः हस्ताच्च्युतो हेमघटस्तरुण्याः । सोपानमासाद्य करोति शब्दं ठा ठं ठ ठं ठं ठ ठ ठं ठ ठं ठः ॥१२॥ रामायणम् महाकाव्यम् महाभारतमेव च । उभे च विश्वविख्याते संस्कृतस्य महानिधी ॥७॥ राष्ट्रध्वजो राष्ट्रभाषा राष्ट्रगीतं तथैव च । एतानि मानचिह्नानि सर्वदा हृदि धार्यताम् ॥२॥ रूपयौवनसम्पन्ना विशालकुलसम्भवाः । विद्याहीना न शोभन्ते निर्गन्धाः किंशुका यथा ॥१॥ रे रे चातक सावधानमनसा मित्र क्षणं श्रूयताम् अम्भोदा बहवो वसन्ति गगने सर्वेपि नैकादृशाः । केचिद्वृष्टीभिरार्दयन्ति धरणीं गर्जन्ति केचिद्वृथा यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ॥५॥ रे रे रासभ वस्त्रभारवहनात्कुग्रासमश्नासि किं राजाश्वावसथं प्रयाहि चणकाभ्यूषान् सुखं भक्षय । सर्वान् पृच्छवतो हयानिति वदन्त्यत्राधिकारे स्थिता राजा तैरुप्दिष्टमेव मनुते सत्यं तटस्थाः परे ॥१०॥ ल सम्पाद्यताम् लक्ष्मीः कौस्तुभपारिजातकसुराधन्वन्तरीचन्द्रमाः गावः कामदुहः सुरेश्वरगजो रम्भादि देवांगनाः । अश्वः सप्तमुखः विषं हरिधनु शंखोऽमृतं चाम्बुधेः रत्नानीह चतुर्दशं प्रतिदिनं कुर्वन्तु वो मंगलम् ॥१६॥ लब्ध्वा तीक्ष्णं रवेस्तेजः शान्तं शीतकरो वहन् । सर्वान् सन्तोषयन् सोमः ओषधीशो विराजते ॥१३॥ लक्ष्मीवन्तो न जानन्ति प्रायेण परवेदनाः । शेषे धराभराक्रान्ते शेते नारायणः सुखम् ॥२०॥ लाघवं कर्मसामथ्र्यं स्थैर्यम् क्लेशसहिष्णुता । दोषक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते ॥१९॥ लालने बहवो दोषास्ताडने बहवो गुणाः । अतश्छात्रश्च पुत्रश्च ताडयेन्न तु लालयेत् ॥१७॥ लालयेत् पंचवर्षाणि दशवर्षाणि ताडयेत् । प्राप्ते तु षोडशे वर्षे पुत्रे मित्रवदाचरेत् ॥१४॥ लोभमूलानि पापानि संकटानि तथैव च । लोभात्प्रवर्तते वैरं अतिलोभात्विनश्यति ॥१५॥ लोभाविष्टो नरो वित्तम् वीक्ष्यते न तु संकटम् । दुग्धं पश्यति मार्जारी न तथा लगुडाहतिम् ॥१८॥ व सम्पाद्यताम् वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ । निर्विघ्नं कुरु मे देव शुभकार्येषु सर्वदा ॥१६॥ वज्रादपि कठोराणि मृदूनि कुसुमादपि । लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ॥२०॥ वदनं प्रसादसदनं सदयं हृदयं सुधामुचो वाचः । करणं परोपकरणं येषं केषां न ते वन्द्याः ॥१५॥ वनानि दहतो वह्नेः सखा भवति मारुतः । स एव दीपनाशाय कृशे कस्यास्ति सौहृदम् ॥२४॥ वन्दे सरस्वतीं देवीं उत्तमाङ्गेन सर्वदा । मुखेन तां प्रशंसामि हस्ताभ्यां पूजयामि च ॥५॥ वरं दरिद्रः श्रुतिशास्त्रपारगो न चापि मूर्खो बहुरत्नसंयुतः । सुलोचना जीर्णपटापि शोभते न नेत्रहीना कनकैरलङ्कृता ॥११॥ वरं पर्वतदुगेर्षु भ्रान्तं वनचरैः सह । न मूर्खजनसंसर्गः सुरेन्द्रभुवनेष्वपि ॥२६॥ वरं बालो वरं वृद्धो न तु मूर्खोत्तमः खलु । मूर्खभृत्यस्य संसर्गात् सर्वं कार्यं विनश्यति ॥१३॥ वरं बुद्धिर्न सा विद्या विद्यया बुद्धिरुत्तमा । बुद्धिहीना विनश्यन्ति यथा ते सिंहकारकाः ॥२९॥ वरं भृत्यविहीनस्य जीवनं श्रमपूरितं । मूर्खभृत्यस्य संसर्गात् सर्वं कार्यं विनश्यति ॥१२॥ वरमेको गुणी पुत्रो न तु मूर्खशतान्यपि । एकश्चन्द्रस्तमो हन्ति न तु तारागणोऽपि च ॥२५॥ वरं वनं वरं भैक्ष्यं वरं भारोपजीवनं । पुंसां विवेकहीनानां सेवया न धनार्जनम् ॥१९॥ वसन्ति कानने वृक्षाः फलपुष्पैश्च भूषिताः । आम्रं विना परं चित्तं कोकिलस्य न तुष्यति ॥२८॥ वसन्त्यरण्येषु चरन्ति दुर्वां पिबन्ति तोयानि वने स्थितानि । तथापि निघ्नन्ति मृगान् नरा वृथा को लोकमाराधयितुं समर्थः ॥८॥ वसुदेवसुतं देवं कंसचाणूरमर्दनम् । देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥१७॥ वह्निस्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणात् मेरुः स्वल्पशिलायते मृगपतिः सद्यः कुरङ्गायते । व्यालो माल्यगुणायते विषारसः पीयूशवस्र्हायते यस्याङ्गेऽखिललोकवल्लभतमं शीलं समुन्मीलति ॥४०॥ वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥३६॥ वातोल्लासितकल्लोल धिक् ते सागरगर्जनम् । यस्य तीरे तृषाक्रान्तः पान्थः पृच्छति वापिकम् ॥३३॥ वाल्मीकिगिरिसम्भूता रामसागरगामिनी । पुनातु भुवनं पुण्या रामायणमहानदी ॥१८॥ वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि । तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥३२॥ विराटनगरे राजन् कीचकादुपकीचकम् । अत्र क्रियापदं गुप्तं मर्यादा दशवार्शिकि ॥३९॥ विलक्षणः शब्दकोषः विद्यते तव भारति । व्ययेन वर्धते नित्यं क्षयं गच्छति सञ्चयात् ॥३०॥ विश्वाभिरामगुणगौरवगुम्फितानाम् रोषोऽपि निर्मलधियां रमणीय एव । लोकप्रियैः परिमलैः परिपूरितस्य काश्मीरजस्य कटुतापि नितान्तरम्या ॥३८॥ वृक्षाग्रवासी न च पक्षिराजः त्रिनेत्रधारी न च शूलपाणिः । त्वग्वस्त्रधारी न च सिद्धयोगी जलं च बिभ्रन्न घटो न मेघः ॥३५॥ व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे । ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः ॥३४॥ व्रजत्यधोऽधो यात्युचैर्नरः स्वैरेव कर्मभिः । खनितेव हि कूपस्य प्रासादस्येव कारकः ॥३७॥ श-स-ष सम्पाद्यताम् संस्कृतं देवभाषास्ति वेदभाषास्ति संस्कृतम् । प्राचीनज्ञानभाषा च संस्कृतं भद्रमण्डनम् ॥३५॥ सच्छिद्रनिकटे वासो न कर्तव्यः कदाचन । घटी पिबति पानीयं ताड्यते झल्लरी यथा ॥४६॥ स जातो येन जातेन याति वंशः समुन्नतिम् । परिवर्तिनि संसारे मृतः को वा न जायते ॥१३॥ सज्जनस्य हृदयं नवनीतं यद्वदन्ति कवयस्तदलीकं । अन्यदेहविलसत्परितापात् सज्जनो द्रवति नो नवनीतम् ॥२३॥ सत्यं ब्रूयात् प्रियं ब्रूयत् न ब्रूयात् सत्यमप्रियं । प्रियं च नानृतं ब्रूयात् एष धर्मः सनातनः ॥४०॥ सत्यानुसारिणी लक्ष्मीः कीर्तिस्त्यागानुसारिणी । अभ्याससारिणी विद्या बुद्धिः कर्मानुसारिणी ॥१७॥ सदयं हृदयं यस्य भाषितं सत्यभूषितम् । देहः परहिते यस्य कलिस्तस्य करोति किम् ॥३॥ सदाचारेण सर्वेषां शुद्धं भवति मानसम् । निर्मलं च विशुद्धं च मानसं देवमन्दिरम् ॥१॥ सन्तप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते । स्वात्यां सागरशुक्तिमध्यपतितं सन्मौक्तिकं ज्ञायते प्रायेणोत्तममध्यमाधमदशा संसर्गतो जायते ॥२२॥ सन्तोषामृततृप्तानां यत्सुखं शान्तचेतसाम् । कुतस्तद्धनलुब्धानां एतश्चेतश्च धावताम् ॥४३॥ सप्तैतानि न पूर्यन्ते पूर्यमाणान्यनेकशः । स्वामी पयोधिरुदरं कृपणोऽग्निर्यमो गृहम् ॥२८॥ समुद्रवसने देवि पर्वतावलिभूषिते । विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥१०॥ सम्पदो महतामेव महतामेव चापदः । वर्धते क्षीयते चन्द्रो न तु तारागणः क्वचित् ॥१६॥ सम्पूर्णकुम्भो न करोति शब्दम् अर्धो घटो घोषमुपैति नूनम् । विद्वान् कुलीनो न करोति गर्वम् मूढास्तु जल्पन्ति गुणैर्विहीनाः ॥१४॥ सरस्वति नमस्तुभ्यं वरदे कामरूपिणी । विश्वरूपे विशालाक्षी विद्यां देहि शुभङ्करी ॥४८॥ सरस्वतीं नमस्यामि चेतनानां हृदि स्थिताम् । मतिदां वरदां शुद्धां वीणाहस्तवरप्रदाम् ॥३३॥ सर्पदुर्जनयोर्मध्ये वरं सर्पो न दुर्जनः । सर्पो दशति कालेन दुर्जनस्तु पदे पदे ॥४४॥ सर्पराज नमामि त्वां क्रूरमप्युपकारकम् । क्षेत्रं रक्षसि चास्माकं शुद्धस्त्वं सुन्दरस्तथा ॥४९॥ सर्पा: पिबन्ति पवनं न च दुर्बलास्ते शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति । कन्दैः फलैर्मुनिवराः क्षपयन्ति कालाम् सन्तोष एव पुरुषस्य परं निधानम् ॥३४॥ सर्वत्र देशे गुणवान् शोभते प्रेरितो नरः । मणिः शीर्शे गले बाहौ यत्र कुत्रापि शोभते ॥१९॥ सर्वथा सन्त्यजेद्वादं न कञ्चिन्मर्मणि स्पृशेत् । सर्वान् परित्यजेदर्थान् स्वाध्यायस्य विरोधिनः ॥११॥ सर्वे यत्र विनेतारः सर्वे पण्डितमानिनः । सर्वे महत्त्वमिच्छन्ति राष्ट्रं तदवसीदति ॥८॥ सहसा विदधीत न क्रियां अविवेकः परमापदां पदम् । वृणुते हि विमृश्यकारिणं गुणलुब्धा स्वयमेव सम्पदा ॥४७॥ संहितैकपदे नित्या नित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥४५॥ साक्षराः विपरीताश्चेद्राक्षसा एव केवलम् । सरसो विपरीतश्चेत्सरसत्त्वं न मुञ्चति ॥३८॥ सारङ्गाः सुहृदो गृहं गिरिगुहा शान्तिः प्रिया गेहिनी वृत्तिर्वन्यफलैर्निवसनं श्रेष्ठं तरूणां त्वचः । तद्ध्यानामृतपूरमग्नमनसां येषामियं निवृतिः तेषामिन्दुकलावतंसयमिनां मोक्षेऽपि नो न स्पृहा ॥२५॥ साहित्य सङ्गीतकलाविहीनः साक्षात् पशुः पुच्छविषाणहीनः । तृणं न खादन्नपि जीवमानस्तद्भागधेयं परमं पषूणाम् ॥३२॥ सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु । प्रकृतिरियं सत्त्ववतां तेजसां हि न वयः समीक्ष्यते ॥३१॥ सुकुलजन्म विभूतिरनेकधा प्रियसमागमसौख्यपरम्पराः । बुधजने गुरुता विमलं यशः भवति पुण्यतरोः फलमीदृशम् ॥६॥ सुन्दरोऽपि सुशीलोऽपि कुलीनोऽपि महाधनः । न शोभते विना विद्यां विद्या सर्वस्य भूषणम् ॥७॥ सुभाषितरसास्वादः सज्जनैः सह सङ्गतिः । सेवा विवेकिभूपस्य दुःखनिर्मूलनं त्रयम् ॥२॥ सुभाषितेन गीतेन युवतीनां च लीलया । यस्य न द्रवते चित्तं स वै मुक्तोऽथवा पशुः ॥३०॥ सुलभाः पुरुषा लोके सततं प्रियवादिनः । अप्रियस्य च शब्दस्य वक्ता श्रोता च दुर्लभः ॥२७॥ सुखं हि दुःखान्यनुभूय शोभते घनान्धकारेश्विव दीपदर्शनम् । सुखात्तु यो याति नरो दरिद्रतां धृतः शरीरेण मृतः स जीवति ॥२४॥ सुखस्यानन्तरं दुःखम् दुःखस्यानन्तरं सुखम् । न नित्यं लभते दुःखं न नित्यं लभते सुखम् ॥४॥ सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु । साधुष्वपि च पापेषु पण्डिताः समदर्शनाः ॥३६॥ सूतो वा सूतपुत्रो वा यो वा को वा भवाम्यहम् । दैवायत्तं कुले जन्म मदायत्तं तु पौरुषम् ॥२९॥ सूर्यं भर्तारमुत्सृज्य पर्वतं मारुतं गिरिम् । स्वजातिं मूषिका प्राप्ता स्वभावो दुरतिक्रमः ॥१२॥ सेवितव्यो महावृक्षः फलच्छायासमान्वितः । यदि दैवात् फलं नास्ति छाया केन निवार्यते ॥१८॥ सौवर्णानि सरोजानि निर्मातुं सन्ति शिल्पिनः । तत्र सौरभनिर्माणे चतुरश्चतुराननः ॥१५॥ स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः । इति विज्ञाय मतिमान् स्वस्थानं न परित्यजेत् ॥५॥ स्नेहं दयां च सौख्यं च यदि वा जानकीमपि । आराधनाय लोकस्य मुञ्चतो नास्ति मे व्यथा ॥४१॥ स्नेहं दयां च सौख्यं च यदि वा जीवनमपि । उद्धारणाय नारीणां मुञ्चतो नास्ति मे व्यथा ॥४२॥ स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा । सुतप्तमपि पानीयं पुनर्गच्छति शीतताम् ॥९॥ स्वयं पञ्चमुखः पुत्रौ गजाननषडाननौ । दिगम्बरः कथं जीवेत् अन्नपूर्णा न चेद्गृहे ॥२०॥ स्वयं महेषः श्वशुरः नगेशः सखः धनेशः तनयो गणेशः । तथापि भीक्षाटनमेव शम्भोः बलीयसी केवलमीश्वरेच्छा ॥२१॥ स्वस्ति श्रीभोजराजन् त्वमखिलभुवने धार्मिकः सत्यवक्ता पित्रा ते सङ्गृहीता नवनवतिमिता रत्नकोट्यो मदीयाः । तास्त्वं देहीति राजन् सकलबुधजनैर्ज्ञायते सत्यमेतद् नो वा जानन्ति यत्तन्मम कृतिमपि नो देहि लक्षं ततो मे ॥२६॥ स्वातन्त्र्यो हि मनुष्याणामधिकारो स्वभावजः । तमहं प्रार्थये नित्यं लोकमान्यवचस्त्विदम् ॥३९॥ स्वायत्तमेकान्तहितं विधात्रा विनिर्मितं छादनमज्ञतायाः । विशेषतः सर्वविदां समाजे विभूषणं मौनमपण्डितानाम् ॥३७॥ वाह्य सूत्राणि सम्पाद्यताम् अदभुत संस्कृत श्लोक, सूक्तियां एवं सुभाषित (हिंदी और अंग्रेजी में अर्थ सहित) Subhashitani - Wise sayings in sanskrit सुभाषितानि नामकं ब्लागम् इन्डोपेडिया सूक्तय: सुभाषितानि (PDF) इण्डलिनक्स-स्थले सुभाषितानि विकिपेडिया सुभाषितानि संस्कृतम् (Blog) सम्भाषणम् Last edited ४ months ago by an anonymous user विकिशब्दकोशः भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 3.0 इत्यत्र उल्लेखो भवति । गोपनीयताउत्पीठम्

No comments:

Post a Comment