Tuesday, 21 March 2017

ब्राह्मणः

ब्राह्मणः लिङ्गम् पुं०। ब्राह्मणो विप्रस्य प्रजापतेर्वा अपत्यम्। ब्रह्म वेदस्तमधीते वा सः। इति भरतः॥ ब्रह्मन्+अण् ब्राह्मोऽजातौ। ६। ४। १७२। इति नाटिलोपः।) तत्पर्य्यायः। द्विजातिः २ अग्रजन्मा ३। भूदेवः ४ बाडवः ५ विप्रः ६। इत्यमरः॥ २। ७। ४॥ द्विजः ७ सूत्र कण्ठः ८ ज्येष्ठवर्णः ९ अग्रजातकः १० द्विजन्मा ११ वक्रजः १२ मैत्रः १३ वेदवासः १ नयः १५ गुरुः १६। इति शब्दरत्नावली॥ ब्रह्मा १७ षट्कर्म्मा १८ द्विजोत्तमः १९। इति राजनिघण्टुः॥*॥ अयं सर्ववर्णश्रेष्ठः। ब्रह्मणो सुखाज्ज्ाातः। प्लक्षद्वीपे तस्य संज्ञा हंसः। शाल्मलद्वीपे श्रुतिधरः। कुशद्वीपे कुशलः। क्रौञ्चद्वीपे श्रुतिधरः। कुशद्वीपे गुरुः। शाकद्वीपे ऋतव्रतः। पुष्करद्वीपे सर्वे एकवर्णाः। अस्य शास्त्रनिरूपितधर्म्मास्त्रयः अध्ययनं यजनं दानञ्च। जीविकास्त्स्रिः अध्यापनं याजनं प्रतिग्रहश्च। अयमाश्रमचतुष्टयवान् भवति। यथा। ब्रह्मचारी गृहस्थः वानप्रस्थः सन्नयासी च। क्षत्रियवैश्ययोस्तु क्रमश एकैकपादहीनत्वमिति बोध्यम्। इति श्रीभागवतम्॥*॥ ब्राह्मणीक्षत्रिया वैश्यासु ब्राह्मणाज्ज्ाातो ब्राह्मणः। यथा- ब्राह्मण्यां ब्राह्मणाज्ज्ाातो ब्राह्मणः स्यान्न संशयः। क्षत्रियायां तथैव स्याद्वैश्यायामपि चैव हि॥ इति महाभारते अनुशासने। ४७। २८॥ तस्य लक्षणं यथा- जात्या कुलेन वृत्त्ोन स्वाध्यायेन श्रुतेन च। एभिर्युक्तो हि यस्तिष्ठेन्नित्यं स द्बिज उच्यते॥ इति वह्निपुराणम्॥ अपि च। न क्रुध्येन्न प्रहृष्येञ्च मानितोऽमानितश्च यः। सर्वभूतेष्वभयदस्तं देवा ब्राह्मणं विदुः॥ अहेेरिव गणाद्भीतः लौहित्यान्नारकादिव। कुणपादिव च स्त्रीभ्यस्तं देवा ब्राह्मणं विदुः॥ येन केनचिदाच्छन्नो येन केनचिदाशितः। यत्र क्वचन शायी च तं देवा ब्राह्मणं विदुः॥ विमुक्तं सर्वसङ्गेभ्यो मुनिमाकाशवत् स्थितम्। अम्बमेकचरं शान्तं तं देवा ब्राह्मणं विदुः॥ जीवितं यस्य धर्म्मार्थं धर्म्मो रत्यर्थमेव च। अहोरात्राश्च पुण्यार्थं तं देवा ब्राह्मणं विदुः॥ निराशिषमनारम्भं निर्नमस्कारमस्तुतिम्। अक्षीणं क्षीणकर्म्माणं तं देवा ब्राह्मणं विदुः॥ इति महाभारते मोक्षधर्म्मः॥*॥ अपि च। विशाखयूप उवाच। विप्रस्य लक्षणं ब्रूहि त्वद्भक्तिः का च तत्कृता। यतस्तावानुग्रहेण वाग्वाणाः ब्राह्मणाः कृताः॥ कल्किरुवाक्ष। वेदा मामीश्वरं प्राहुरव्यक्तं व्यक्तिमत् परम्। ते वेदा ब्राह्मणमुखे नाना धर्म्माः प्रकाशिताः॥ यो धर्म्मो ब्राह्मणानां हि सा भक्तिर्मम पुष्कला। तयाहं तोषितः श्रीशः संभवामि युगे युगे॥ ऊर्द्धन्तु त्रिवृतं सूत्रं सधवानिर्म्मितं शनैः। तन्तुत्रयमधोवृत्तं यज्ञसूत्रं विदुर्बुधः॥ त्रिगुणं तद्ग्रन्थियुक्तं वेदप्रवरसस्मितम्। शिरोधरान्नाभिमध्यात् पृष्ठार्द्धपरिमाणकम्। यजुर्विदां नाभिसितं सामगानामयं विधिः। वामस्कन्धेन विधृतं यज्ञसूत्रं बलप्रदम्॥ मृदस्मचन्दनाद्यैस्तु धारयेत्तिलकं द्विजः। भाले त्रिपुण्ड्रं कर्म्माङ्गं केशपर्यन्तमुज्ज्वलम्॥ पुण्ड्रमङ्गगुलिमानन्तु त्रिपुण्ड्रं तत्रिधाकृतम्। ब्रह्मविष्णुशिवावासं दर्शनात् पापनाशनम्॥ ब्राह्मणानां करे स्वर्गा वाचो वेदाः करे हरिः। गात्र्ो तीर्थानि यागाश्च नाडीषु प्रकृतिस्त्रिवृत्॥ सावित्री कण्ठकुहरा हृदयं ब्रह्मसङ्गतम्। तेषां स्तनान्तरे धर्म्मः पृष्ठे धर्म्मः प्रकीर्त्तितः॥ भूदेवा ब्राह्मणा राजन्! पूज्या वन्द्यांः सदुक्तिभिः। चातुराश्रम्यकुशला मम धर्म्मप्रवर्त्तकाः॥ बालाश्चापि ज्ञानवृद्धास्तपोवृद्धा मम प्रियाः। तेषां वचः पालयितुमवताराः कृता मया॥ महाभाग्यं ब्राह्मणानां सर्वपापप्रणाशनम्। कलिदोषहरं श्रुत्वा मुच्यते सर्वतो भयात्॥ इति कल्किपुराणे ४ अध्यायः॥*॥ अपि च। कर्म्मणा ब्राह्मणो जातः करोति ब्रह्मभावनाम्। स्वधर्म्मनिरतः शुद्धस्तस्माद्ब्राह्मण उच्यते॥ इति ब्रह्मवैवर्त्त्ो गणेशखण्डे ३५ अध्यायः॥*॥ अपि च। जातकर्म्मादिभिर्यस्तु संस्कारैः संस्कृतः शुचिः। वेदाध्ययनसम्पन्नः षट्सु कर्म्मस्ववस्थितः॥ शौचाचारपरो नित्यं विधसाशी गुरुप्रियः। नित्यव्रतो सत्यरतः स वै ब्राह्मण उच्यते॥ सत्यं दानमथोऽद्रोह आनृशंस्यं कृपा घृणा। तपश्च दृश्यते यत्र स ब्राह्मण इति स्मृतः॥*॥ तस्य धर्म्मो यथा- ब्राह्मणस्य तु यो धर्म्मस्तं ते वक्ष्यामि केवलम्। दममेव महाराज! धर्म्ममाहुः पुरातनम्॥ स्वाध्यायाभ्यसनञ्चैव तत्र कर्म्म समाप्यते। तञ्चेद्वित्तमुपागच्छेद्वर्त्तमानं स्वकर्म्मणि॥ अकुर्वाणं विकर्म्माणि श्रान्तं प्रज्ञानतर्पितम्। कुर्वीतोपेत्य सन्तानमथ दद्याद्यजेत च। संविभज्यापि भोक्तव्यं धनं सद्भिरितीष्यते। परिनिष्ठितकार्यस्तु स्वाध्यायेनैव ब्राह्मणः॥ कुर्य्यादन्यन्न वा कुर्य्यान्मैत्रो ब्राह्मण उच्यते। इति पाद्मे स्वर्गखण्डे २६ अध्यायः॥*॥ तस्य माहात्म्यादि यथा- सर्वेषामेव वर्णानां ब्राह्मणः परमो गुरुः। तस्मै दानानि देयानि भक्तिश्रद्धासमन्वितैः॥ सर्वदेवाग्रजो विप्रः प्रत्यक्षत्रिदशो भुवि। स तारयति दातारं दुस्तरे विश्वसागरे॥ हरिशर्म्मोवाच। सर्ववर्णगुरुर्विप्रस्त्वया प्रोक्तः सुरोत्तम!। तेषां मध्ये च कः श्रेष्ठः कस्मै दानं प्रदीयते॥ ब्रह्मोवाच। सर्वेऽपि ब्राह्मणाः श्रेष्ठाः पूजनीयाः सदैव हि। अविद्या वा सविद्या वा नात्र कार्य्या विचारणा॥ स्तेयादिदोषलिप्ता ये ब्राह्मणा ब्राह्मणोतक्तम!। आत्मभ्यो द्वेषिणस्तेऽपि परेभ्यो न कदाचन॥ अनाचारा द्विजाः पू्ज्या न च शूद्रा जितन्द्रियाः। अभक्ष्यभक्षका गावः कोलाः सुमतयो न च॥ माहात्म्यं भूमिदेवानां विशेषादुच्यते मया। तव स्नेहाद्विजश्रेष्ठ! निशामय समाहितः॥ क्षत्रियाणाञ्च वैश्यानां शूद्राणां गुरवो द्विजाः। अन्योन्यं गुरवो ज्ञेयाः पूजनीयाश्च भूसुर!॥ ब्राह्मणं प्रणमेद्यस्तु विष्णुबुद्ध्या नरोत्तमः। ब्राह्मणं पुत्राश्च कीर्त्तिश्च सम्पत्तिस्तस्य वर्द्धते॥ न च नौीति द्विजं यस्तु मूढधीर्मानवो भुवि। सुदर्शनेन तच्छीर्षं हन्तुमिच्छति केशवः॥ पुष्पादिहस्तब्राह्मणस्य प्रणामनिषेधो यथा- पुष्पहस्तं पयोहस्तं देवहस्तञ्च भूसुर!। न नमेद्ब्राह्मणं प्राज्ञस्तैलाभ्यङ्गितविग्रहम्॥ जलस्यं देववेश्ममस्थ ध्यानमज्ज्ाितचेतसम्। देवपूजाञ्च कुर्वन्तं न नमेद्ब्राह्मणं बुधः॥ बहिष्क्रियां प्रकुर्वन्तं भुञ्जानञ्च द्विजोत्तम!। तथा सामानि गायन्तं न नमेद्ब्राह्मणं बुधः॥ ब्राह्मणा यत्र तिष्ठन्ति बहवो द्विजसत्तमः। प्रत्येकन्तु नमस्कारस्तव कार्य्यो न धीमता॥ कृताभिवादनं विप्रं भक्त्या यो नाभिवादयेत्। च चाण्डालसमो ज्ञेयो नाभिवाद्यः कदापि च॥ कृतप्रणामं तनयं नमेतां पितरौ न च। कृतप्रणामाः सर्वेऽपि नमस्कार्य्या द्विजैर्द्विजैाः॥ कृतदोषान् द्विजान् गाश्च न द्विषन्ति विचक्षणाः। द्विषन्ति वापि माहेन तेषां रुष्टः सदा हरिः॥ याचकान् ब्राह्मणान् यस्तु कोपदृष्ट्या प्रपश्यति। सूचीप्रक्षेपणं तस्य नेत्रयोः कुरुते यमः॥ विप्रनिर्भर्त्सनं मूढा येन वक्त्र्ोण कुर्वते। तस्मिन् वक्त्र्ो यमस्तप्तं लौहपिण्डं ददाति वै॥ ब्राह्मणो यद्गृहे भुङ्क्ते तद्गृहे केशवः स्वयम्। देवताः सकला एव पितरश्च मुरर्षयः॥ तस्य पादोदकादिमाहात्मम् यथा- विप्रपादोदकं यस्तु कणमात्रं वहेद्बुधः। देहस्थं पातकं तस्य सर्वमेवाशु नश्यति॥ कोटिब्रह्माण्डमध्येषु सन्ति तीर्थानि यानि वै। तीर्थानि तानि सर्वाणि वसन्ति द्विजपादयोः॥ विप्रपादोदकैर्नित्यं सिक्तं स्यादे्यस्य मस्तकम्। स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः॥ सर्वपापानि घोराणि ब्रह्महत्यादिकानि च। सद्य एव विनश्यन्ति विप्रपादाम्बुधारणात्॥ क्षयाद्या व्याधयः सर्वे परमक्लेशदायकाः। गच्छन्ति विलयं सद्यो विप्रपादम्बुभक्षणात्॥ क्षयाद्या व्याधयः सर्वे परमक्लेशदायकाः। गच्छन्ति विलयं सद्यो विप्रपादाम्बुभक्षणात्॥ पित्रर्थं यानि तोयानि दीयन्ते विप्रपादयोः। तैस्तृप्ताः पितरः स्वर्गे तिष्ठन्त्याचन्द्रतारकम्॥ प्रक्षाल्य विप्रचरणौ दूर्वाभिर्योऽर्च्चयेद्बुधः। तेनार्च्चितो जगत्स्वामी विष्णुः सर्न्वसुरोत्तमः॥ विप्राणां पादनिर्म्माल्यं यो मर्त्यः शिरसा वहेत्। सत्यं सत्यमहं वच्मि तस्य मुक्तिर्हि शाश्वती॥ तस्य प्रदक्षिणफलम्। विप्रं प्रदक्षिणीकृत्य वन्दते यो नरोत्तमः। प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा॥ तस्य पादसेचनफलम्। यो दद्यात् फलताम्बूलं विप्राणां पादसेचने। इह लोके सुखं तस्य परलोके ततोऽधिकम्॥ पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम्। मोक्षार्थी लभते मोक्षं विप्रपादस्य सेचनात्॥ रोगी रोगात् प्रमुच्येत पापी मुच्येत पातकात्। मुच्येत बन्धनाद्वद्धो विप्राणां पादसेचनात्॥ अनपत्याश्च या नार्य्यो मृतापत्याश्च याः स्त्रियः। बह्वपत्या जीववत्साः स्युर्विप्रपादसेचनात्॥ इति पाद्मे क्रियायोगसारे २० अध्यायः॥ तस्य सन्ध्याया अकरणे दोषो यथा- नोपतिष्टति यः पूर्बां नोपास्ते यस्तु पश्चिमाम्। स शूद्रवद्बहिः कार्यः सर्वस्माद्बिजकर्म्मणः॥ तस्य सन्ध्याकरणफलं यथा- यावज्ज्ाीवनपर्यन्तं यस्त्रिसन्ध्यं करोति च। स च सूर्यसमो विप्रस्तेजसा तपसा सदा॥ तत्पादपद्मरजसा सद्यः पूता वसुन्धरा। जीवन्मुक्तः स तेजस्वी सन्ध्यापूतो हि यो द्विजः॥ तीर्थानि च पवित्राणि तस्य संस्पर्शमात्रतः। ततः पापानि यान्त्येव वैनतेयादिवोरगाः॥ सन्ध्याया अकरणे दोषो यथा- न गृह्णन्ति सुरास्तेषां पितरः पिण्डतर्पणम्। स्वेच्छया च द्विजजातेश्च त्रिसन्ध्यरहितस्य च॥ तस्य निन्दितकर्म्माणि यथा- न गृह्णन्ति सुरास्तेषां पितरः पिण्डतर्पणम्। स्वेच्छया च द्विजातेश्च त्रिसन्ध्यरहितस्य च॥ तस्य निन्दितकर्म्माणि यथा- विष्णुमन्त्रविहीनश्च त्रिसन्ध्यरहितो द्विजः। एकादशीविहीनश्च विषहीनो यथोरगः॥ हरेर्नैवेद्यभोजी न धावको वृषवाहकः। शूद्रान्नभोजी विप्रश्च विषहीनो यथोरगः॥ शवदाही च शूद्राणां यो विप्रो वृषलीपतिः। शूद्राणां सूपकारी च शूद्रयाजी च यो द्विजः। असिजीवी मसीजीवी विषहीनो यथोरगः॥ यो विप्रोऽवीरान्नभोजी ऋतुस्नातान्नभोजकः। भगजीवी वार्द्धुषिको विषहीनो यथोरगः। यः कन्याविक्रयी विप्रो यो हरेर्नामविक्रयी। यो विद्याविक्रयी विप्रो यो हरेर्नामविक्रयी। यो विद्याविक्रयी विप्रो विषहीनो यथोरगः॥ सूर्य्योदये च द्विर्भोजी मत्स्यभोजी च यो द्बिजः। शिलापूजादिरहितो विषहीनो यथोरगः॥ इति ब्रह्मवैवर्त्त्ो प्रकृतिखण्डे २१ अध्यायः॥*॥ अपि च। यदि शूद्रां व्रजेद्बिप्रो वृषलीपतिरेव सः। स स्वष्टो विप्रजातेश्च चाण्डालात् सोऽधमः स्मृतः॥ विष्ठासमश्च तत्पिण्डो मूत्रं तस्य च तर्पणम्। तत्पितृणां सुराणाञ्च पूजने तत्समं सति॥ कोटिजन्मार्जितं पुण्यं सन्ध्यार्च्चातपसार्जितम्। द्बिजस्य वृषलोभोगान्नश्यत्येव न संशयः॥ ब्राह्मणञ्च सुरापीतो विडभोजी वृषलीपतिः। हरिदासभोजी च कुम्भीपाकं व्रजेद्ध्रुवम्॥ अपि च। करोत्यशुद्धां सन्ध्याञ्च सन्ध्यां धा न करोति यः। त्रिसन्ध्यं वर्जयेद्यो वा सन्ध्याहीनश्च स द्विजः॥ नारायणक्षेत्रादितीर्थे तस्य प्रतिग्रहदोषो यथा। तत्र नारायणक्षेत्र्ो कुरुक्षेत्र्ो हरेः पदे। वाराणस्यां वदर्य्याञ्च गङ्गासागरसङ्गमे॥ पुष्करे भास्करक्षेत्र्ो प्रभासे रासमण्डले॥ हरद्बािरे च केदारे सोमे वदरपाचने॥ सरस्वतीनदीतीरे पुण्ये वृन्दावने वने। गोदावर्य्याञ्च कौशिक्यां त्रिवेण्याञ्च हिमालये॥ एतेष्वन्येषु यो दानं प्रतिगृह्माति कामतः। स च तीर्थप्रतिग्राही कुम्भीपाकं प्रयाति च॥ पारभािषिकमहापातकिब्राह्मणा। यथा- शूद्रसप्तोद्रिक्तयाजी ग्रामयाजीति कीर्त्तितः। देवोपजीवजीवी च देवलश्च प्रकीर्त्तितः॥ शूद्रपाकोपजीवी यः सूपकारः प्रकीर्त्तितः। रुन्ध्यापूजाविहीनश्च प्रमत्तः पतितः स्मृतः॥ एते महापातकिनः कुम्भीपाकं प्रयान्ति ते॥ इति ब्रह्मवैवर्त्त्ो प्रकृतिखण्डे २७ अध्यायः॥*॥ विप्राणामाशीर्वचनं पूर्णस्वस्त्ययनं यथा- आशीषं कर्त्तुमर्हन्ति प्रसन्नमनसा शिशुम्। पूर्णस्वस्त्ययनं सद्यो विप्राशीर्वचनं ध्रुवम्॥ इति ब्रह्मवैवर्त्त्ो श्रीकृष्णजन्मखण्डे १३ अध्यायः॥ ब्राह्मणस्य स्वधर्म्मो यथा- ब्राह्मणस्य स्वधर्म्मश्च त्रिसन्ध्यमर्च्चनं हरेः। तत्पादोदकनैवेद्यभक्षणञ्च सुधाधिकम्॥ अन्नं विष्ठा जलं मूत्रमनिवेद्यं हरेर्नृप!।़ भवन्ति शूकराः सर्वे ब्राह्मणा यदि भुञ्जते॥ आजीवं भुञ्जते विप्रा एकादश्यां न भुञ्जते। कृष्णजन्मदिने चैव शिवरात्रौ सुनिश्चितम्॥ तथा रामनवम्याञ्च यत्नतः पुण्यवासरे। ब्राह्मणानां स्वधर्म्मश्च कथितो ब्रह्मणा नृप!॥ इति ब्रह्मवैवर्त्त्ो श्रीकृष्णजन्मखण्डे ५९ अध्यायः॥ गृहस्थब्राह्मणनियमा यथा- वेदं वेदौ तथा वेदानधीत्य तु समाहितः। तदर्थमभिगम्याथ तत्र स्नायाद्बिजोत्तमः॥ गुरवे तु धनं दत्त्वा स्नायीत तदनुज्ञया। चीर्णव्रतोऽथ मुक्तात्मा ह्यशक्तः स्नातुमर्हति॥ वैणवीन्धारयेद्यष्टिमन्तर्वासमथोत्तरम्। यज्ञोपवीतद्बितयं सोदकञ्च कमण्डलुम्॥ छत्रञ्चोष्णीषममलं पादुके चाप्युपानहौ। रौक्ये च कुण्डले धार्य्ये कृत्तकेशनखः शुचिः॥ स्वाध्याये नित्ययुक्तः स्याद्बहिर्माल्यं न धारयेत्। अन्यत्र काञ्चनाद्विप्रो न रक्तां बिभृयात् स्रजम्॥ शुल्काम्बरधरो नित्यं स्रग्गन्धः प्रियदर्शनः। न जीर्णमलवद्वासा भवेच्च विभवे सति॥ न रक्तमुल्वणञ्चास्य घृतं वासो न कुण्डिकाम्। नोपानहौ स्रजं वाथ पादुके च प्रयोजयेत्॥ उपवीतमलङ्कारं कुम्भान् कृष्णाजिनानि च। नापसव्यं परीदध्याद्वासो न विकृतं वसेत्॥ आहरेद्बिधिबद्धीमान् सदृशामात्मनः शुभाम्। रूपलक्षणसंयुक्तां योनिदोषविवर्ज्ज्ािताम्॥ अमातृगोत्रप्रभवामसमानार्षगोत्रजाम्। आहरेद्ब्राह्मणो भार्य्या शीलशौचसमन्विताम्॥ ऋतुकालाभिगामी स्याद्यावत् पुत्रोऽभिजायते। वर्जयेत् प्रतिषिद्धानि प्रयत्नेन दिनानि तु॥ षष्ठ्यष्टमी पञ्चदशी द्वादशी च चतुर्द्दशी। ब्रह्मचारी भवेन्नित्यं तद्बज्ज्ान्मत्रयाहनि॥ आदधीतावसथ्यागि्न ंजुहुयाज्ज्ाातवेदसम्। व्रतानि स्नातको नित्यं पावनानि च पालयेत्॥ वेदोदितं स्वकं कर्म्म नित्यं कुर्य्यादतन्द्रितः। अकुर्वाणः पतत्याशु नरकानतिभीषणान्॥ अभ्यसेत् प्रयतो नित्यं वेदं यज्ञान्न हापयेत्। कुर्य्याद्गृह्याणि कर्म्माणि सन्घध्योपासनमेव च॥ सख्यं समाधिकैः कुर्य्यादुपेयादीश्वरं सदा। दैवतान्यपि गच्छेत्तु कुर्य्याद्भार्य्याभिपोषणम्॥ न धर्म्मं ख्यापयेद्विद्बान् न पापं गूहयेदपि। कुर्वीतात्महितं नित्यं सर्वभूतानुकम्पकः॥ वयसः कर्म्मणोऽर्थस्य श्रुतस्याभिजनस्य च। देशवाग्बुद्धिसारूप्यमाचरन् विचरेत् सदा॥ श्रुतिस्मृत्युदितं सम्यक् साधुभिर्यश्च सेवितः। तमातरन्निषेवेत नेहेतान्यत्र कर्हिचित्॥ येनास्य पितरो याता येन याताः पितामहाः। येन याति सतां मार्गं तेन गच्छंस्तरिष्यति॥ नित्यं स्वाध्यायशीलः स्यान्नित्यं यज्ञोपवीतिमान्। सत्यवादी जितक्रोधो ब्रह्मभूयाय कल्प्यते॥ सन्ध्यास्नानरतो नित्यं ब्रह्मयज्ञपरायणः। अनसूयुर्मृदुर्दान्तो गृहस्थः प्रत्यवर्द्धत॥ वीतरागभयक्रोधो लोभमोहविवर्ज्ज्ाितः।़ सावित्री जापनिरतः श्रद्धावान् मुच्यते गृही मातापित्रोर्हिते युक्तो गोब्राह्मणहिते रतः। दाता यज्ञो देवभक्तो ब्रह्मलोके महीयते॥ त्रिवर्गसेवी सततं देवतानाञ्च पूजनम्। कुर्य्यादहरहर्न्नित्यं नमस्येत् प्रयतः सुरान्॥ विभागशीलः सततं क्षमायुक्तो दयात्मकः। गृहस्थस्तु समायुक्तो न गृहे न गृही भवेत्॥ क्षमा दया च विज्ञानं सत्यञ्चैव दमः शमः। अध्यात्मं नित्यता ज्ञानमेतद्ब्राह्मणलक्षणम्॥ एतस्मान्न प्रमाद्येत विशेषेण द्बिजोत्तमः। यथाशक्ति चरन् कर्म्म निन्दितानि विवर्जयेत्॥ विधूय मोहकलिलं लब्ध्वा योगमनुत्तमम्। गृहस्थो मुच्यते बन्धान्नात्र कार्य्या विचारणा॥ विगर्हातिक्रमक्षेपहिंसाबन्धवधात्मनाम्। अन्यमन्युसमुत्थानां दोषाणां वर्जनं क्षमा॥ स्वदुःखेष्विव कारुण्यं परदुःखेषु सौहृदात्। दया यन्मुनयः प्राहुः साक्षाद्धर्म्मस्य साधनम्॥ चतुर्द्दशानां विद्यानां धारणं हि यथार्थतः। विज्ञानमितरं विद्याद्येन धर्म्मो विवर्द्धते॥ अधीत्य विधिवद्विद्यामर्थञ्चैवोपलभ्य तु। धर्म्मकार्य्यान्निवृत्तश्चेन्न तद्विज्ञानमिष्यते॥ सत्येन लोकं जयति सत्यन्तत् परमं पदम्। यथा भूतप्रसादस्तु सत्यमाहुर्मनीषिणः॥ दमः शरीरावनतिः शमः प्रज्ञा प्रसादजः। अध्यात्ममक्षरं विद्याद्यत्र गत्वा न शोचति॥ यया स देवो भगवान् विद्यते यत्र विद्यते। साक्षादेव महादेव! तज्ज्ञानमिति कीर्त्तितम्॥ तन्निष्ठस्तत्परो विद्बान्नित्यमक्रोधेनः शुचिः। महायज्ञपरो विप्रो लभते तदनुत्तमम्॥ धर्म्मस्यायतनं यत्नाच्छरीरं परिपालयेत्। न हि देहं विना रुद्र! पुरुषैर्विद्यते परः॥ नित्यं धर्म्मार्थकामेषु युञ्जीत नियतो द्बिजः। न धर्म्मवर्जितं काममर्थं वा मनसा स्मरेत्॥ सीदन्नपि स्वधर्म्मेण नत्वधर्म्मं समाचरेत्। धर्म्मो हि भगवान्देवो गतिः सर्वेषु जन्तुषु। भूतानां प्रियकारी स्यान्न परद्रोहकर्म्मधीः॥ न वेददेवतानिन्दा कुर्य्यात्त्ौश्च न सम्बदेत्। यस्त्विमं नियतो विप्रो धर्म्माध्यायं पठेत् शुचिः। अध्यापयेच्छ्रावयेद्वा ब्रह्मलोके महीयते॥ इति कौर्म्म उपविभागे १४ अध्यायः॥ अपि च। सूत उवाच। आनृशंस्यं क्षमा सत्यमहिंसा दममार्द्दवम्। ध्यानं प्रसादो माधुर्यमार्ज्ज्ावं शौचमेव च॥ इज्या दानं तपः सत्यं स्वाध्यायो ह्यात्मनिग्रहः। व्रतोपवासौ मौनञ्च स्नानं पैशुन्यवर्जनम्॥ एभिर्युक्तो मुनिश्रेष्ठा यः सदा वर्त्तते द्विजः। हुत्वा तु पावकं सर्वं परं ब्रह्माधिगच्छति॥ अविद्यो वा सविद्यो वा निरगि्नः सागि्नकोऽपि वा। यो विप्रस्तपसा युक्तः स परं स्वर्गमाप्नुयात्॥ सर्वेषामुत्तमं श्रेष्ठं विमुक्तिफलदायकम्॥ ब्राह्मणस्य तपो वक्ष्ये तन्मे निगदतः शृणु। सायं प्रातश्च यः सन्ध्यामुपास्ते स्कन्नमानसः॥ जपन् हि पावनीं देवीं गायत्रीं वेदमातरम्। तपसा भावितो देव्या ब्राह्मणः पूतकिल्विषः॥ न सीदेत् प्रतिगृह्नन् स त्वयि पृथ्वीं ससागराम्। द्वे सन्ध्ये ह्युपतिष्ठेत गायत्रीं प्रयतः शुचिः॥ यस्तस्य दुष्कृतं नास्ति पूर्बतः परतोऽपि वा। यज्ञदानरतो विद्वान् साङ्गवेदस्य पाठकः॥ गायत्रीध्यानपूतस्य कलां नार्हन्ति षोडशीम्। एवं किल्विषयुक्तस्तु विनिर्दहति पातकम्॥ उभे सन्ध्ये ह्युपासीत तस्मान्नित्यं द्विजोत्तमः॥ तस्य देहापवित्रत्वं यथा- यथा देहापवित्रत्वं विप्रादीनां यतो भवेत्। देवेर्षे! शृणु तत्सर्वं नराणामानुपूर्बिकम्॥ जातके मृतकेऽस्नाते जलौकाभिः क्षते तथा। अपवित्रो द्विजातीनां देहः सन्ध्यादिकर्म्मसु॥ अपूततनुरुत्सर्गे नरो मूत्रपुरीषयोः। अस्पृश्यस्पर्शने चैव ब्रह्मयज्ञजपादिषु॥ रक्तपाते नखशृङ्गदन्तखड़्गादिभिः क्षते। विप्रादेरशुचिः कायः शस्त्रास्त्र्ौः कण्टकादिभिः॥ भुक्तहस्ताननो च्छिष्टेऽपवित्रः कृतमैथुने। शयने ब्राह्मणादीनां शरीरं क्षुरकर्म्मणि॥ ज्वरादिभिश्चतुःषष्टिरोगैर्युक्ते द्विजन्मनाम्। वपुरप्रयतं पूजादानहोमजपादिषु॥ धूमोद्गारे वमौ श्राद्धपतितान्नादिभोजनैः। तथा च रेतःस्खलने मर्त्यदेहापवित्रता॥ अपवित्रं द्विजातीनां वपुः स्याद्राहुदर्शने। गर्हितदानग्रहणे पतिते पातकादिभिः॥ अशौचान्तेन शुद्धिः स्याज्ज्ाातके मृतके द्विज!॥ सर्ववर्णाश्रमादीनां तनोः सन्द्यादिकर्म्मसु॥ इति पाद्मोत्तरखण्डे १०९ अध्यायः॥ अथ श्राद्धीयब्राह्मणनिर्णयः। मान्धातोवाच। कीदृशेभ्यः प्रदातव्यं भवेच्छ्राद्धं महामुने!। द्बिजेभ्यः किं गुणिभ्यो वा तन्मे व्याख्यातुमर्हसि। नारद उवाच। ब्राह्मणान्न परीक्षेरन्नान्यवर्णास्त्रयो नृप!। दैवे कर्म्मणि पित्र्ो च न्याय्यमाहुः परीक्षणम्॥ देवताः पूजयन्तीह दैवेनैव हि तेजसा। उपेये तस्माद्भावेभ्यः सर्वेभ्यो दापयेन्नरः॥ श्रा॥ त्वथ महाराज! परीक्षेद्ब्राह्मणं बुधः। कुलशीलवयोरूपैर्विद्ययाभिजनेन च॥ तेषामन्ये पङ्क्तिदूषास्तथान्ये पङ्क्तिपावनाः। अपाङ्क्तेयास्तु ये राजन्! कीर्त्तयष्यामि तान् शृणु॥ अपाङ्क्तेया यथा- कितवो भ्रूणहा यक्ष्मी पशुपालो निराकृतिः। ग्रामप्रेष्यो वार्द्धुषिको गायनः सर्वविक्रयी॥ अगारदाही गरदः कुण्डाशी सोमविक्रयी। सामुद्रिको राजदूतस्तैलिकः कूटकारकः॥ पित्रा विवदमानश्च यस्य चोपपतिर्गृहे। अभिशस्तस्तथा स्तेनः शिल्पं यश्चोपजीवति॥ पर्वकारश्च सूची च मित्रध्रुक् पारदारिकः। अव्रतानामुपाध्यायः काण्डपृष्ठस्तथैव च॥ श्वभिश्च यः पारिक्रामेदयः शुना दष्ट एव च। परिवित्तिस्तुयश्च स्याद्दुश्चर्म्मा गुरुतल्पगः॥ कुशीलवो देवलको नक्षर्त्र्ौयश्च जीवति। ईदृशा ब्राह्मणा ये च अपाङ्क्तेयास्तु ते मताः॥ रक्षांसि गच्छते हव्यं यदेषान्तु प्रदीयते। श्राद्ध मुक्त्वा महाराज! दुश्चर्म्मा गुरुतल्पगः॥ श्राद्धं नाशयते तस्य पितरोऽपि न भुञ्जते। सोमविक्रयिणे दत्तं विष्ठातुल्यं भवेन्नृप!॥ भिषजे शोणितसमं नष्टं देवलके तथा। अप्रतिष्ठं बार्द्धषिके निष्फलं परिकीर्त्तितम्॥ बहुबाणिजके दत्तं नेह नामुत्र तद्भवेत्। भस्मनीव हुतं हव्यं तथा पौनर्भवे द्विजे॥ ये तु धर्म्मव्यपेतेषु चरित्रापगतेषु च। हव्यं कव्यं प्रयच्छन्ति तेषां तत्प्राय नश्यति॥ ज्ञानपूर्बन्तु ये तेभ्यः प्रयच्छन्त्यल्पबुद्धयः। पुरीषं भुञ्जते तस्य पितरः प्रेत्य निश्चितम्॥ एतान् विद्धि महावाहो! अपाङ्क्तेयान् द्विजाधमान्। शूद्राणामुपदेशन्तु ये कुर्वन्त्यल्पबुद्धयः॥ षष्टिं काणः शतं खञ्जः श्वित्री यावत् प्रपश्यति। पङ्क्त्यां समुपविष्टायां तावद्दूषयते नृप!॥ यद्वेष्टितशिरा भुङ्क्ते यद्भुङ्क्ते दक्षिणामुखः। सोपानत्कश्च यद्भुङ्क्ते सर्वं विद्यात्तदासुरम्॥ असूयते च यद्दत्तं यच्च श्रद्धादिवर्जितम्। सर्वं तदसुरेन्द्राय ब्रह्मा भागमकल्प्यत्॥ श्वानश्च पङ्क्तिदूषाश्च नावेक्षेरन् कथञ्चन। तस्मात् परिवृते दद्यात्तिलांश्चान्न्ो विकीरयेत्॥ तिलैर्विरहितं श्राद्धं कृतं क्रोधवशेन च। यातुधानाः पिशाचाश्च विप्रलुम्पन्ति तद्धविः॥ अपाङ्क्तेयो यतः पङ्क्त्यां भुञ्जानो ननु पश्यति। तावत् फलाद्भ्रंशयति दातारं तस्य वालिशम्॥ पङ्क्तिपावना यथा- इमे हि मनुजश्रेष्ठ! विज्ञेयाः पङ्क्तिपावनाः। विद्यावेदव्रतस्नाताः ब्राह्मणाः सर्व एव हि॥ सदाचारपराश्चैव विज्ञेयाः पङ्क्तिपावनाः। मातापित्रोर्यश्च वश्यः श्रोत्रियो दशपूरुषः॥ ऋतुकालाभिगामी च धर्म्मपत्नीषु यः सदा। वेदविद्याव्रतस्नातो विप्रः पङ्क्तिं पुनात्युत॥ अथर्वशिरसोऽध्येता ब्रह्मचारी यतव्रतः। सत्रवादी धर्म्मशीलः स्वकर्म्मनिरतश्च यः॥ ये च पुण्येषु तीर्थेषु अभिषेककृतश्रमाः। मखेषु च समस्तेषु भवन्त्यवभृतप्लुतः॥ अक्रोधना ह्यचपलाः क्षान्ता दान्ता जितेन्द्रियाः। सर्वभूतहिता ये च श्राद्धष्वेतान्निमन्त्रयेत्॥ एतेषु दत्तमक्षय्यमेते वै पङ्क्तिपावनाः। यतयो मोक्षधर्म्मज्ञा योगाः सुचरतिव्रताः॥ ये चेतिहासं प्रयताः श्रावयन्ति द्विजोत्तमान्। ये च भाष्यविदः केचित् ये च व्याकरणे रताः॥ अधीयते पुराणं ये धर्म्मशास्त्राणि चाप्युत। अधीत्य च यथान्यायं विधिवत्तस्य कारिणः॥ उपपन्नो गुरुकुले सत्यवादी सहस्रदः। अग्न्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च॥ यावदेते प्रपश्यन्ति पङ्क्त्यां तावत् पुनन्ति च। ततो हि पावनात् पङ्क्त्या उच्यन्ते पङ्क्तिपावनाः॥ अनृत्विगनुपाध्यायः स चेदग्रासनं व्रजेत्। ऋत्विग्भिरननुज्ञातः पङ्क्त्या हरति दुष्कृतम्॥ अथ चेद्बेदवित् सर्वैः पङ्क्तिदोषैर्विवर्जितः। न च स्यात् पतितो राजन्! पङ्क्तिपावन उच्यते॥ तस्मात् सर्वप्रयत्नेन परीक्ष्यामन्त्रयेद्विजान्। स्वकर्म्मनिरतान् शान्तान् कुले जातान् बहुश्रुतान्॥ यस्य मित्रप्रधानानि श्राद्धघानि च हवींषि च। न प्रीणाति पितन् देवान् स्वर्गञ्च न सा गच्छति॥ ब्राह्मणो ह्यनधीयानस्तृणादिरिव शाम्यति। तस्मिन् श्राद्धं न दातव्यं न हि भस्मनि हूयते॥ ऋषीणां समये नित्यं ये चरन्ति महीपते!। निश्चिताः सर्वधर्म्मज्ञास्तान् देवा ब्राह्मणान् विदुः॥ स्वाध्यायनिष्ठानिरता ज्ञाननिष्ठास्तथैव च। तपोनिष्ठाश्च बोद्धव्याः कर्म्मनिष्ठाश्च पार्थिव!॥ कव्यानि ज्ञाननिष्ठेभ्यः प्रतिष्ठाप्यानि भूमिप!। तत्र ये ब्राह्मणान् केचिन्न निन्दन्ति हि ते वराः॥ ये तु निन्दन्ति जल्पेषु न तान् श्रा॥षु योजयेत्। ब्राह्मणा निन्दिता राजन्! हन्युस्ते पुरुषं सदा॥ वैखानसानां वचनमृषीणां श्रूयते नृप!। दूरादेव निरीक्षेत ब्राह्मणान् वेदपारगान्॥ प्रियो वा यदि वा द्बेष्यस्तेषां न श्राद्धमावपेत्॥ इति पाद्मे स्वर्गखण्डे श्राद्धपात्रनिर्णयो नाम ३५ अध्यायः॥ आततायिब्राह्मणवधे दोषाभावो यथा- आत्मानं हन्तुमायान्तमपि वेदान्तपारगम्। न दोषो हनने तस्य न तेन ब्रह्महा भवेत्॥ प्रायश्चित्तं हिंसकानां न वेदेषु निरूपितम्। वधे समुचिते तेषामित्याह कमलोद्भवः॥ इति ब्रह्मवैवर्त्त्ो गणपतिखण्डे २५ अध्यायः॥ व्युत्पत्तिः क्ली। मन्त्र्ोतरवेदभागः। आशङ्कोपन्यास तन्निरसनपूर्बकं तल्लक्षणमाह ऋग्वेदभाष्योपद्घातप्रकरणे यथा। "तत्र ब्राह्मणस्य लक्षणं नास्ति। कुतः? वेदभागानामियत्तानवधारणेन ब्राह्मणभागेष्वन्यभागेषु च लक्षणस्याव्याप्त्यतिव्याप्त्योः शोधयितुमशक्यत्वाते्। पूर्बोक्तमन्त्रभाग एकः। भागान्तराणि च कानिचित् पूर्बैरुदाहर्त्तुं संगृहीतानि। "हेतुर्निर्वचनं निन्दा प्रशंसा संशयो विधिः। परक्रिया पुराकल्पो व्यवधारणकल्पना॥"इति। तेन ह्यन्नं क्रियते इति हेतुः १। तद्दध्नोदधित्वमिति निर्वचनम् २। अमेध्या वै माषाः इति निन्दा ३ वायुर्वै क्षेपिष्ठादेवतेति प्रशंसैा ४। तद्वयचिकित्सजुहवानी माहौषामिति संशयः ५। यजमानेन सम्मितौदुम्भरी भवतीति विधिः ६। माषानेव मह्यं पचन्तीति परकृतिः ७ पुरा ब्राह्मणा अभैषुरिति पुराकल्पः ८। यावतोऽश्वान् प्रतिगृह्णीयात्तावतो वारुणांश्चतुष्कपाला न्निर्वपेदिति विशेषावधारणकल्पना ९। एव मन्यदपि उदाहार्यम्॥ न च हेत्वादीनामन्यतमं ब्राह्मणमिति लक्षणम्। मन्त्र्ोष्वपि हेत्वादिसद्भावात्। इन्दवोवामुशन्तिहीति हेतुः। उदानिषुर्महीरिति तस्मादुदकमुच्यते इति निर्वचनम्। मोघमन्नं विन्दते अप्रचेताः इति निन्दा। अगिर््नमूर्द्धादिवः इति प्रशंसा। अघः स्विदासीदुपरिस्विदासीति संशयः वसन्ताय कपिञ्जलानालभत इति विधिः सहस्रमयुतादददितिपरकृतिः। यज्ञेन यज्ञमयजन्त देवा इति पुराकल्पः। अवलम्बः करणबहुलं ब्राह्मणमिति चेत् न इत्यददा इत्ययजथा इत्यपच इति ब्राह्मणो गायेदित्यस्मिन् ब्राह्मणेन गातव्ये मन्त्र्ोऽतिव्याप्तेः । अवलम्बः आहेत्यनेन वाक्येनोपनिबद्धं ब्राह्मणमिति चेन्न राजाचिद्यं भगं भक्षीत्याह यो वा रक्षाः शुचिरस्मीत्याह इत्यन्योर्मन्त्रयोरतिव्याप्तेः आख्यायिकारूपं ब्राह्मणमिति चेन्न यमयमीसंवादसूक्तादावतिव्याप्तेः तस्मान्नास्ति ब्राह्मणस्य लक्षणमिति प्राप्ते ब्रूमः मन्त्रब्राह्मणरूपौ द्बावेव वेदभागौ इत्यङ्गीकारात् मन्त्रलक्षणस्य पूर्बमभिहितत्वैादवशिष्टो वेदभागो ब्राह्मणमित्येतल्लक्षणं भविष्यति। तदेतल्लक्षणद्वयं जैमिनिः सूत्रयामास तच्चोदकेषु मन्त्राख्याशेषे ब्राह्मणशब्द इत्यादि॥ विष्णुः। यथा। महाभारते। १३। १४९। ८४। "ब्रह्मविद्ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः॥" शिवः। यथा। तत्र्ौव। १३। १७। १३३। गभस्तिब्रह्मकृद्ब्रह्मा ब्रह्मविद् ब्राह्मणो गतिः॥" ब्रह्मजानातीति व्युत्पत्त्या परब्रह्मयेत्तरि। त्रि॥ प्रविशतु पृष्ठम् चर्चा पठतु स्रोतसं दर्शयतु इतिहासं दर्शयतु  गच्छतु अन्विष्यतु सुचलनम् मुख्यपृष्ठम् समुदाय द्वारकम् सद्य घटना नवतमानि परिवर्तनानि अविशिष्ट पृष्ठ सहायम् उपकरणपेटिका केभ्यः पृष्ठेभ्यः सम्बद्धम् पृष्ठ-सम्बन्धितानि परिवर्तनानि विशिष्ट-पृष्ठाणि मुद्रणीय पाठान्तरम् स्थिरबन्धनम् एतत् पृष्ठस्य अन्तिमपरिवर्तनं २ जनुवरि २०११ दिवसे २३:४६ वादने कृतम् एतत्पृष्ठं १५० वारं दृष्टम् अस्ति

No comments:

Post a Comment