Friday, 8 September 2017

आत्मज्ञानं शमश्चैव पर्याप्तं तत्परायणम् 

Click to see this page in various languages Devanagari | Roman | Gujarati | Tamil | Telugu | Punjabi | Bengali | Kannada | Oriya | Malayalam ||१२ महाभारते शान्तिपर्वम् || राजधर्मपर्व १ वैशम्पायन उवाच|| कृतोदकास्ते सुहृदां सर्वेषां पाण्डुनन्दनाः | विदुरो धृतराष्ट्रश्च सर्वाश्च भरतस्त्रियः ||१|| तत्र ते सुमहात्मानो न्यवसन्कुरुनन्दनाः | शौचं निवर्तयिष्यन्तो मासमेकं बहिः पुरात् ||२|| कृतोदकं तु राजानं धर्मात्मानं युधिष्ठिरम् | अभिजग्मुर्महात्मानः सिद्धा ब्रह्मर्षिसत्तमाः ||३|| द्वैपायनो नारदश्च देवलश्च महानृषिः | देवस्थानश्च कण्वश्च तेषां शिष्याश्च सत्तमाः ||४|| अन्ये च वेदविद्वांसः कृतप्रज्ञा द्विजातयः | गृहस्थाः स्नातकाः सर्वे ददृशुः कुरुसत्तमम् ||५|| अभिगम्य महात्मानः पूजिताश्च यथाविधि | आसनेषु महार्हेषु विविशुस्ते महर्षयः ||६|| प्रतिगृह्य ततः पूजां तत्कालसदृशीं तदा | पर्युपासन्यथान्यायं परिवार्य युधिष्ठिरम् ||७|| पुण्ये भागीरथीतीरे शोकव्याकुलचेतसम् | आश्वासयन्तो राजानं विप्राः शतसहस्रशः ||८|| नारदस्त्वब्रवीत्काले धर्मात्मानं युधिष्ठिरम् | विचार्य मुनिभिः सार्धं तत्कालसदृशं वचः ||९|| भवतो बाहुवीर्येण प्रसादान्माधवस्य च | जितेयमवनिः कृत्स्ना धर्मेण च युधिष्ठिर ||१०|| दिष्ट्या मुक्ताः स्थ सङ्ग्रामादस्माल्लोकभयङ्करात् | क्षत्रधर्मरतश्चापि कच्चिन्मोदसि पाण्डव ||११|| कच्चिच्च निहतामित्रः प्रीणासि सुहृदो नृप | कच्चिच्छ्रियमिमां प्राप्य न त्वां शोकः प्रबाधते ||१२|| युधिष्ठिर उवाच|| विजितेयं मही कृत्स्ना कृष्णबाहुबलाश्रयात् | ब्राह्मणानां प्रसादेन भीमार्जुनबलेन च ||१३|| इदं तु मे महद्दुःखं वर्तते हृदि नित्यदा | कृत्वा ज्ञातिक्षयमिमं महान्तं लोभकारितम् ||१४|| सौभद्रं द्रौपदेयांश्च घातयित्वा प्रियान्सुतान् | जयोऽयमजयाकारो भगवन्प्रतिभाति मे ||१५|| किं नु वक्ष्यति वार्ष्णेयी वधूर्मे मधुसूदनम् | द्वारकावासिनी कृष्णमितः प्रतिगतं हरिम् ||१६|| द्रौपदी हतपुत्रेयं कृपणा हतबान्धवा | अस्मत्प्रियहिते युक्ता भूयः पीडयतीव माम् ||१७|| इदमन्यच्च भगवन्यत्त्वां वक्ष्यामि नारद | मन्त्रसंवरणेनास्मि कुन्त्या दुःखेन योजितः ||१८|| योऽसौ नागायुतबलो लोकेऽप्रतिरथो रणे | सिंहखेलगतिर्धीमान्घृणी दान्तो यतव्रतः ||१९|| आश्रयो धार्तराष्ट्राणां मानी तीक्ष्णपराक्रमः | अमर्षी नित्यसंरम्भी क्षेप्तास्माकं रणे रणे ||२०|| शीघ्रास्त्रश्चित्रयोधी च कृती चाद्भुतविक्रमः | गूढोत्पन्नः सुतः कुन्त्या भ्रातास्माकं च सोदरः ||२१|| तोयकर्मणि यं कुन्ती कथयामास सूर्यजम् | पुत्रं सर्वगुणोपेतमवकीर्णं जले पुरा ||२२|| यं सूतपुत्रं लोकोऽयं राधेयं चाप्यमन्यत | स ज्येष्ठपुत्रः कुन्त्या वै भ्रातास्माकं च मातृजः ||२३|| अजानता मया सङ्ख्ये राज्यलुब्धेन घातितः | तन्मे दहति गात्राणि तूलराशिमिवानलः ||२४|| न हि तं वेद पार्थोऽपि भ्रातरं श्वेतवाहनः | नाहं न भीमो न यमौ स त्वस्मान्वेद सुव्रतः ||२५|| गता किल पृथा तस्य सकाशमिति नः श्रुतम् | अस्माकं शमकामा वै त्वं च पुत्रो ममेत्यथ ||२६|| पृथाया न कृतः कामस्तेन चापि महात्मना | अतिपश्चादिदं मातर्यवोचदिति नः श्रुतम् ||२७|| न हि शक्ष्याम्यहं त्यक्तुं नृपं दुर्योधनं रणे | अनार्यं च नृशंसं च कृतघ्नं च हि मे भवेत् ||२८|| युधिष्ठिरेण सन्धिं च यदि कुर्यां मते तव | भीतो रणे श्वेतवाहादिति मां मंस्यते जनः ||२९|| सोऽहं निर्जित्य समरे विजयं सहकेशवम् | सन्धास्ये धर्मपुत्रेण पश्चादिति च सोऽब्रवीत् ||३०|| तमवोचत्किल पृथा पुनः पृथुलवक्षसम् | चतुर्णामभयं देहि कामं युध्यस्व फल्गुनम् ||३१|| सोऽब्रवीन्मातरं धीमान्वेपमानः कृताञ्जलिः | प्राप्तान्विषह्यांश्चतुरो न हनिष्यामि ते सुतान् ||३२|| पञ्चैव हि सुता मातर्भविष्यन्ति हि ते ध्रुवम् | सकर्णा वा हते पार्थे सार्जुना वा हते मयि ||३३|| तं पुत्रगृद्धिनी भूयो माता पुत्रमथाब्रवीत् | भ्रातॄणां स्वस्ति कुर्वीथा येषां स्वस्ति चिकीर्षसि ||३४|| तमेवमुक्त्वा तु पृथा विसृज्योपययौ गृहान् | सोऽर्जुनेन हतो वीरो भ्राता भ्रात्रा सहोदरः ||३५|| न चैव विवृतो मन्त्रः पृथायास्तस्य वा मुने | अथ शूरो महेष्वासः पार्थेनासौ निपातितः ||३६|| अहं त्वज्ञासिषं पश्चात्स्वसोदर्यं द्विजोत्तम | पूर्वजं भ्रातरं कर्णं पृथाया वचनात्प्रभो ||३७|| तेन मे दूयतेऽतीव हृदयं भ्रातृघातिनः | कर्णार्जुनसहायोऽहं जयेयमपि वासवम् ||३८|| सभायां क्लिश्यमानस्य धार्तराष्ट्रैर्दुरात्मभिः | सहसोत्पतितः क्रोधः कर्णं दृष्ट्वा प्रशाम्यति ||३९|| यदा ह्यस्य गिरो रूक्षाः शृणोमि कटुकोदयाः | सभायां गदतो द्यूते दुर्योधनहितैषिणः ||४०|| तदा नश्यति मे क्रोधः पादौ तस्य निरीक्ष्य ह | कुन्त्या हि सदृशौ पादौ कर्णस्येति मतिर्मम ||४१|| सादृश्यहेतुमन्विच्छन्पृथायास्तव चैव ह | कारणं नाधिगच्छामि कथञ्चिदपि चिन्तयन् ||४२|| कथं नु तस्य सङ्ग्रामे पृथिवी चक्रमग्रसत् | कथं च शप्तो भ्राता मे तत्त्वं वक्तुमिहार्हसि ||४३|| श्रोतुमिच्छामि भगवंस्त्वत्तः सर्वं यथातथम् | भवान्हि सर्वविद्विद्वाँल्लोके वेद कृताकृतम् ||४४|| २ वैशम्पायन उवाच|| स एवमुक्तस्तु मुनिर्नारदो वदतां वरः | कथयामास तत्सर्वं यथा शप्तः स सूतजः ||१|| एवमेतन्महाबाहो यथा वदसि भारत | न कर्णार्जुनयोः किञ्चिदविषह्यं भवेद्रणे ||२|| गुह्यमेतत्तु देवानां कथयिष्यामि ते नृप | तन्निबोध महाराज यथा वृत्तमिदं पुरा ||३|| क्षत्रं स्वर्गं कथं गच्छेच्छस्त्रपूतमिति प्रभो | सङ्घर्षजननस्तस्मात्कन्यागर्भो विनिर्मितः ||४|| स बालस्तेजसा युक्तः सूतपुत्रत्वमागतः | चकाराङ्गिरसां श्रेष्ठे धनुर्वेदं गुरौ तव ||५|| स बलं भीमसेनस्य फल्गुनस्य च लाघवम् | बुद्धिं च तव राजेन्द्र यमयोर्विनयं तथा ||६|| सख्यं च वासुदेवेन बाल्ये गाण्डिवधन्वनः | प्रजानामनुरागं च चिन्तयानो व्यदह्यत ||७|| स सख्यमगमद्बाल्ये राज्ञा दुर्योधनेन वै | युष्माभिर्नित्यसंद्विष्टो दैवाच्चापि स्वभावतः ||८|| विद्याधिकमथालक्ष्य धनुर्वेदे धनञ्जयम् | द्रोणं रहस्युपागम्य कर्णो वचनमब्रवीत् ||९|| ब्रह्मास्त्रं वेत्तुमिच्छामि सरहस्यनिवर्तनम् | अर्जुनेन समो युद्धे भवेयमिति मे मतिः ||१०|| समः पुत्रेषु च स्नेहः शिष्येषु च तव ध्रुवम् | त्वत्प्रसादान्न मां ब्रूयुरकृतास्त्रं विचक्षणाः ||११|| द्रोणस्तथोक्तः कर्णेन सापेक्षः फल्गुनं प्रति | दौरात्म्यं चापि कर्णस्य विदित्वा तमुवाच ह ||१२|| ब्रह्मास्त्रं ब्राह्मणो विद्याद्यथावच्चरितव्रतः | क्षत्रियो वा तपस्वी यो नान्यो विद्यात्कथञ्चन ||१३|| इत्युक्तोऽङ्गिरसां श्रेष्ठमामन्त्र्य प्रतिपूज्य च | जगाम सहसा रामं महेन्द्रं पर्वतं प्रति ||१४|| स तु राममुपागम्य शिरसाभिप्रणम्य च | ब्राह्मणो भार्गवोऽस्मीति गौरवेणाभ्यगच्छत ||१५|| रामस्तं प्रतिजग्राह पृष्ट्वा गोत्रादि सर्वशः | उष्यतां स्वागतं चेति प्रीतिमांश्चाभवद्भृशम् ||१६|| तत्र कर्णस्य वसतो महेन्द्रे पर्वतोत्तमे | गन्धर्वै राक्षसैर्यक्षैर्देवैश्चासीत्समागमः ||१७|| स तत्रेष्वस्त्रमकरोद्भृगुश्रेष्ठाद्यथाविधि | प्रियश्चाभवदत्यर्थं देवगन्धर्वरक्षसाम् ||१८|| स कदाचित्समुद्रान्ते विचरन्नाश्रमान्तिके | एकः खड्गधनुष्पाणिः परिचक्राम सूतजः ||१९|| सोऽग्निहोत्रप्रसक्तस्य कस्यचिद्ब्रह्मवादिनः | जघानाज्ञानतः पार्थ होमधेनुं यदृच्छया ||२०|| तदज्ञानकृतं मत्वा ब्राह्मणाय न्यवेदयत् | कर्णः प्रसादयंश्चैनमिदमित्यब्रवीद्वचः ||२१|| अबुद्धिपूर्वं भगवन्धेनुरेषा हता तव | मया तत्र प्रसादं मे कुरुष्वेति पुनः पुनः ||२२|| तं स विप्रोऽब्रवीत्क्रुद्धो वाचा निर्भर्त्सयन्निव | दुराचार वधार्हस्त्वं फलं प्राप्नुहि दुर्मते ||२३|| येन विस्पर्धसे नित्यं यदर्थं घटसेऽनिशम् | युध्यतस्तेन ते पाप भूमिश्चक्रं ग्रसिष्यति ||२४|| ततश्चक्रे महीग्रस्ते मूर्धानं ते विचेतसः | पातयिष्यति विक्रम्य शत्रुर्गच्छ नराधम ||२५|| यथेयं गौर्हता मूढ प्रमत्तेन त्वया मम | प्रमत्तस्यैवमेवान्यः शिरस्ते पातयिष्यति ||२६|| ततः प्रसादयामास पुनस्तं द्विजसत्तमम् | गोभिर्धनैश्च रत्नैश्च स चैनं पुनरब्रवीत् ||२७|| नेदं मद्व्याहृतं कुर्यात्सर्वलोकोऽपि वै मृषा | गच्छ वा तिष्ठ वा यद्वा कार्यं ते तत्समाचर ||२८|| इत्युक्तो ब्राह्मणेनाथ कर्णो दैन्यादधोमुखः | राममभ्यागमद्भीतस्तदेव मनसा स्मरन् ||२९|| ३ नारद उवाच|| कर्णस्य बाहुवीर्येण प्रश्रयेण दमेन च | तुतोष भृगुशार्दूलो गुरुशुश्रूषया तथा ||१|| तस्मै स विधिवत्कृत्स्नं ब्रह्मास्त्रं सनिवर्तनम् | प्रोवाचाखिलमव्यग्रं तपस्वी सुतपस्विने ||२|| विदितास्त्रस्ततः कर्णो रममाणोऽऽश्रमे भृगोः | चकार वै धनुर्वेदे यत्नमद्भुतविक्रमः ||३|| ततः कदाचिद्रामस्तु चरन्नाश्रममन्तिकात् | कर्णेन सहितो धीमानुपवासेन कर्शितः ||४|| सुष्वाप जामदग्न्यो वै विस्रम्भोत्पन्नसौहृदः | कर्णस्योत्सङ्ग आधाय शिरः क्लान्तमना गुरुः ||५|| अथ कृमिः श्लेष्ममयो मांसशोणितभोजनः | दारुणो दारुणस्पर्शः कर्णस्याभ्याशमागमत् ||६|| स तस्योरुमथासाद्य बिभेद रुधिराशनः | न चैनमशकत्क्षेप्तुं हन्तुं वापि गुरोर्भयात् ||७|| संदश्यमानोऽपि तथा कृमिणा तेन भारत | गुरुप्रबोधशङ्की च तमुपैक्षत सूतजः ||८|| कर्णस्तु वेदनां धैर्यादसह्यां विनिगृह्य ताम् | अकम्पन्नव्यथंश्चैव धारयामास भार्गवम् ||९|| यदा तु रुधिरेणाङ्गे परिस्पृष्टो भृगूद्वहः | तदाबुध्यत तेजस्वी सन्तप्तश्चेदमब्रवीत् ||१०|| अहोऽस्म्यशुचितां प्राप्तः किमिदं क्रियते त्वया | कथयस्व भयं त्यक्त्वा याथातथ्यमिदं मम ||११|| तस्य कर्णस्तदाचष्ट कृमिणा परिभक्षणम् | ददर्श रामस्तं चापि कृमिं सूकरसंनिभम् ||१२|| अष्टपादं तीक्ष्णदंष्ट्रं सूचीभिरिव संवृतम् | रोमभिः संनिरुद्धाङ्गमलर्कं नाम नामतः ||१३|| स दृष्टमात्रो रामेण कृमिः प्राणानवासृजत् | तस्मिन्नेवासृक्सङ्क्लिन्ने तदद्भुतमिवाभवत् ||१४|| ततोऽन्तरिक्षे ददृशे विश्वरूपः करालवान् | राक्षसो लोहितग्रीवः कृष्णाङ्गो मेघवाहनः ||१५|| स रामं प्राञ्जलिर्भूत्वा बभाषे पूर्णमानसः | स्वस्ति ते भृगुशार्दूल गमिष्यामि यथागतम् ||१६|| मोक्षितो नरकादस्मि भवता मुनिसत्तम | भद्रं च तेऽस्तु नन्दिश्च प्रियं मे भवता कृतम् ||१७|| तमुवाच महाबाहुर्जामदग्न्यः प्रतापवान् | कस्त्वं कस्माच्च नरकं प्रतिपन्नो ब्रवीहि तत् ||१८|| सोऽब्रवीदहमासं प्राग्गृत्सो नाम महासुरः | पुरा देवयुगे तात भृगोस्तुल्यवया इव ||१९|| सोऽहं भृगोः सुदयितां भार्यामपहरं बलात् | महर्षेरभिशापेन कृमिभूतोऽपतं भुवि ||२०|| अब्रवीत्तु स मां क्रोधात्तव पूर्वपितामहः | मूत्रश्लेष्माशनः पाप निरयं प्रतिपत्स्यसे ||२१|| शापस्यान्तो भवेद्ब्रह्मन्नित्येवं तमथाब्रुवम् | भविता भार्गवे राम इति मामब्रवीद्भृगुः ||२२|| सोऽहमेतां गतिं प्राप्तो यथा नकुशलं तथा | त्वया साधो समागम्य विमुक्तः पापयोनितः ||२३|| एवमुक्त्वा नमस्कृत्य ययौ रामं महासुरः | रामः कर्णं तु सक्रोधमिदं वचनमब्रवीत् ||२४|| अतिदुःखमिदं मूढ न जातु ब्राह्मणः सहेत् | क्षत्रियस्यैव ते धैर्यं कामया सत्यमुच्यताम् ||२५|| तमुवाच ततः कर्णः शापभीतः प्रसादयन् | ब्रह्मक्षत्रान्तरे सूतं जातं मां विद्धि भार्गव ||२६|| राधेयः कर्ण इति मां प्रवदन्ति जना भुवि | प्रसादं कुरु मे ब्रह्मन्नस्त्रलुब्धस्य भार्गव ||२७|| पिता गुरुर्न संदेहो वेदविद्याप्रदः प्रभुः | अतो भार्गव इत्युक्तं मया गोत्रं तवान्तिके ||२८|| तमुवाच भृगुश्रेष्ठः सरोषः प्रहसन्निव | भूमौ निपतितं दीनं वेपमानं कृताञ्जलिम् ||२९|| यस्मान्मिथ्योपचरितो अस्त्रलोभादिह त्वया | तस्मादेतद्धि ते मूढ ब्रह्मास्त्रं प्रतिभास्यति ||३०|| अन्यत्र वधकालात्ते सदृशेन समेयुषः | अब्राह्मणे न हि ब्रह्म ध्रुवं तिष्ठेत्कदाचन ||३१|| गच्छेदानीं न ते स्थानमनृतस्येह विद्यते | न त्वया सदृशो युद्धे भविता क्षत्रियो भुवि ||३२|| एवमुक्तस्तु रामेण न्यायेनोपजगाम सः | दुर्योधनमुपागम्य कृतास्त्रोऽस्मीति चाब्रवीत् ||३३|| ४ नारद उवाच|| कर्णस्तु समवाप्यैतदस्त्रं भार्गवनन्दनात् | दुर्योधनेन सहितो मुमुदे भरतर्षभ ||१|| ततः कदाचिद्राजानः समाजग्मुः स्वयंवरे | कलिङ्गविषये राजन्राज्ञश्चित्राङ्गदस्य च ||२|| श्रीमद्राजपुरं नाम नगरं तत्र भारत | राजानः शतशस्तत्र कन्यार्थं समुपागमन् ||३|| श्रुत्वा दुर्योधनस्तत्र समेतान्सर्वपार्थिवान् | रथेन काञ्चनाङ्गेन कर्णेन सहितो ययौ ||४|| ततः स्वयंवरे तस्मिन्सम्प्रवृत्ते महोत्सवे | समापेतुर्नृपतयः कन्यार्थे नृपसत्तम ||५|| शिशुपालो जरासन्धो भीष्मको वक्र एव च | कपोतरोमा नीलश्च रुक्मी च दृढविक्रमः ||६|| सृगालश्च महाराज स्त्रीराज्याधिपतिश्च यः | अशोकः शतधन्वा च भोजो वीरश्च नामतः ||७|| एते चान्ये च बहवो दक्षिणां दिशमाश्रिताः | म्लेच्छाचार्याश्च राजानः प्राच्योदीच्याश्च भारत ||८|| काञ्चनाङ्गदिनः सर्वे बद्धजाम्बूनदस्रजः | सर्वे भास्वरदेहाश्च व्याघ्रा इव मदोत्कटाः ||९|| ततः समुपविष्टेषु तेषु राजसु भारत | विवेश रङ्गं सा कन्या धात्रीवर्षधरान्विता ||१०|| ततः संश्राव्यमाणेषु राज्ञां नामसु भारत | अत्यक्रामद्धार्तराष्ट्रं सा कन्या वरवर्णिनी ||११|| दुर्योधनस्तु कौरव्यो नामर्षयत लङ्घनम् | प्रत्यषेधच्च तां कन्यामसत्कृत्य नराधिपान् ||१२|| स वीर्यमदमत्तत्वाद्भीष्मद्रोणावुपाश्रितः | रथमारोप्य तां कन्यामाजुहाव नराधिपान् ||१३|| तमन्वयाद्रथी खड्गी भद्धगोधाङ्गुलित्रवान् | कर्णः शस्त्रभृतां श्रेष्ठः पृष्ठतः पुरुषर्षभ ||१४|| ततो विमर्दः सुमहान्राज्ञामासीद्युधिष्ठिर | संनह्यतां तनुत्राणि रथान्योजयतामपि ||१५|| तेऽभ्यधावन्त सङ्क्रुद्धाः कर्णदुर्योधनावुभौ | शरवर्षाणि मुञ्चन्तो मेघाः पर्वतयोरिव ||१६|| कर्णस्तेषामापततामेकैकेन क्षुरेण ह | धनूंषि सशरावापान्यपातयत भूतले ||१७|| ततो विधनुषः कांश्चित्कांश्चिदुद्यतकार्मुकान् | कांश्चिदुद्वहतो बाणान्रथशक्तिगदास्तथा ||१८|| लाघवादाकुलीकृत्य कर्णः प्रहरतां वरः | हतसूतांश्च भूयिष्ठानवजिग्ये नराधिपान् ||१९|| ते स्वयं त्वरयन्तोऽश्वान्याहि याहीति वादिनः | व्यपेयुस्ते रणं हित्वा राजानो भग्नमानसाः ||२०|| दुर्योधनस्तु कर्णेन पाल्यमानोऽभ्ययात्तदा | हृष्टः कन्यामुपादाय नगरं नागसाह्वयम् ||२१|| ५ नारद उवाच|| आविष्कृतबलं कर्णं ज्ञात्वा राजा तु मागधः | आह्वयद्द्वैरथेनाजौ जरासन्धो महीपतिः ||१|| तयोः समभवद्युद्धं दिव्यास्त्रविदुषोर्द्वयोः | युधि नानाप्रहरणैरन्योन्यमभिवर्षतोः ||२|| क्षीणबाणौ विधनुषौ भग्नखड्गौ महीं गतौ | बाहुभिः समसज्जेतामुभावपि बलान्वितौ ||३|| बाहुकण्टकयुद्धेन तस्य कर्णोऽथ युध्यतः | बिभेद सन्धिं देहस्य जरया श्लेषितस्य ह ||४|| स विकारं शरीरस्य दृष्ट्वा नृपतिरात्मनः | प्रीतोऽस्मीत्यब्रवीत्कर्णं वैरमुत्सृज्य भारत ||५|| प्रीत्या ददौ स कर्णाय मालिनीं नगरीमथ | अङ्गेषु नरशार्दूल स राजासीत्सपत्नजित् ||६|| पालयामास चम्पां तु कर्णः परबलार्दनः | दुर्योधनस्यानुमते तवापि विदितं तथा ||७|| एवं शस्त्रप्रतापेन प्रथितः सोऽभवत्क्षितौ | त्वद्धितार्थं सुरेन्द्रेण भिक्षितो वर्मकुण्डले ||८|| स दिव्ये सहजे प्रादात्कुण्डले परमार्चिते | सहजं कवचं चैव मोहितो देवमायया ||९|| विमुक्तः कुण्डलाभ्यां च सहजेन च वर्मणा | निहतो विजयेनाजौ वासुदेवस्य पश्यतः ||१०|| ब्राह्मणस्याभिशापेन रामस्य च महात्मनः | कुन्त्याश्च वरदानेन मायया च शतक्रतोः ||११|| भीष्मावमानात्सङ्ख्यायां रथानामर्धकीर्तनात् | शल्यात्तेजोवधाच्चापि वासुदेवनयेन च ||१२|| रुद्रस्य देवराजस्य यमस्य वरुणस्य च | कुबेरद्रोणयोश्चैव कृपस्य च महात्मनः ||१३|| अस्त्राणि दिव्यान्यादाय युधि गाण्डीवधन्वना | हतो वैकर्तनः कर्णो दिवाकरसमद्युतिः ||१४|| एवं शप्तस्तव भ्राता बहुभिश्चापि वञ्चितः | न शोच्यः स नरव्याघ्रो युद्धे हि निधनं गतः ||१५|| ६ वैशम्पायन उवाच|| एतावदुक्त्वा देवर्षिर्विरराम स नारदः | युधिष्ठिरस्तु राजर्षिर्दध्यौ शोकपरिप्लुतः ||१|| तं दीनमनसं वीरमधोवदनमातुरम् | निःश्वसन्तं यथा नागं पर्यश्रुनयनं तथा ||२|| कुन्ती शोकपरीताङ्गी दुःखोपहतचेतना | अब्रवीन्मधुराभाषा काले वचनमर्थवत् ||३|| युधिष्ठिर महाबाहो नैनं शोचितुमर्हसि | जहि शोकं महाप्राज्ञ शृणु चेदं वचो मम ||४|| यतितः स मया पूर्वं भ्रात्र्यं ज्ञापयितुं तव | भास्करेण च देवेन पित्रा धर्मभृतां वर ||५|| यद्वाच्यं हितकामेन सुहृदा भूतिमिच्छता | तथा दिवाकरेणोक्तः स्वप्नान्ते मम चाग्रतः ||६|| न चैनमशकद्भानुरहं वा स्नेहकारणैः | पुरा प्रत्यनुनेतुं वा नेतुं वाप्येकतां त्वया ||७|| ततः कालपरीतः स वैरस्योद्धुक्षणे रतः | प्रतीपकारी युष्माकमिति चोपेक्षितो मया ||८|| इत्युक्तो धर्मराजस्तु मात्रा बाष्पाकुलेक्षणः | उवाच वाक्यं धर्मात्मा शोकव्याकुलचेतनः ||९|| भवत्या गूढमन्त्रत्वात्पीडितोऽस्मीत्युवाच ताम् | शशाप च महातेजाः सर्वलोकेषु च स्त्रियः ||१०|| न गुह्यं धारयिष्यन्तीत्यतिदुःखसमन्वितः ||१०|| स राजा पुत्रपौत्राणां सम्बन्धिसुहृदां तथा | स्मरन्नुद्विग्नहृदयो बभूवास्वस्थचेतनः ||११|| ततः शोकपरीतात्मा सधूम इव पावकः | निर्वेदमकरोद्धीमान्राजा सन्तापपीडितः ||१२|| ७ वैशम्पायन उवाच|| युधिष्ठिरस्तु धर्मात्मा शोकव्याकुलचेतनः | शुशोच दुःखसन्तप्तः स्मृत्वा कर्णं महारथम् ||१|| आविष्टो दुःखशोकाभ्यां निःश्वसंश्च पुनः पुनः | दृष्ट्वार्जुनमुवाचेदं वचनं शोककर्शितः ||२|| यद्भैक्षमाचरिष्याम वृष्ण्यन्धकपुरे वयम् | ज्ञातीन्निष्पुरुषान्कृत्वा नेमां प्राप्स्याम दुर्गतिम् ||३|| अमित्रा नः समृद्धार्था वृत्तार्थाः कुरवः किल | आत्मानमात्मना हत्वा किं धर्मफलमाप्नुमः ||४|| धिगस्तु क्षात्रमाचारं धिगस्तु बलमौरसम् | धिगस्त्वमर्षं येनेमामापदं गमिता वयम् ||५|| साधु क्षमा दमः शौचमवैरोध्यममत्सरः | अहिंसा सत्यवचनं नित्यानि वनचारिणाम् ||६|| वयं तु लोभान्मोहाच्च स्तम्भं मानं च संश्रिताः | इमामवस्थामापन्ना राज्यलेशबुभुक्षया ||७|| त्रैलोक्यस्यापि राज्येन नास्मान्कश्चित्प्रहर्षयेत् | बान्धवान्निहतान्दृष्ट्वा पृथिव्यामामिषैषिणः ||८|| ते वयं पृथिवीहेतोरवध्यान्पृथिवीसमान् | सम्परित्यज्य जीवामो हीनार्था हतबान्धवाः ||९|| आमिषे गृध्यमानानामशुनां नः शुनामिव | आमिषं चैव नो नष्टमामिषस्य च भोजिनः ||१०|| न पृथिव्या सकलया न सुवर्णस्य राशिभिः | न गवाश्वेन सर्वेण ते त्याज्या य इमे हताः ||११|| संयुक्ताः काममन्युभ्यां क्रोधामर्षसमन्विताः | मृत्युयानं समारुह्य गता वैवस्वतक्षयम् ||१२|| बहु कल्याणमिच्छन्त ईहन्ते पितरः सुतान् | तपसा ब्रह्मचर्येण वन्दनेन तितिक्षया ||१३|| उपवासैस्तथेज्याभिर्व्रतकौतुकमङ्गलैः | लभन्ते मातरो गर्भांस्तान्मासान्दश बिभ्रति ||१४|| यदि स्वस्ति प्रजायन्ते जाता जीवन्ति वा यदि | सम्भाविता जातबलास्ते दद्युर्यदि नः सुखम् ||१५|| इह चामुत्र चैवेति कृपणाः फलहेतुकाः ||१५|| तासामयं समारम्भो निवृत्तः केवलोऽफलः | यदासां निहताः पुत्रा युवानो मृष्टकुण्डलाः ||१६|| अभुक्त्वा पार्थिवान्भोगानृणान्यनवदाय च | पितृभ्यो देवताभ्यश्च गता वैवस्वतक्षयम् ||१७|| यदैषामङ्ग पितरौ जातौ काममयाविव | सञ्जातबलरूपेषु तदैव निहता नृपाः ||१८|| संयुक्ताः काममन्युभ्यां क्रोधहर्षासमञ्जसाः | न ते जन्मफलं किञ्चिद्भोक्तारो जातु कर्हिचित् ||१९|| पाञ्चालानां कुरूणां च हता एव हि येऽहताः | ते वयं त्वधमाँल्लोकान्प्रपद्येम स्वकर्मभिः ||२०|| वयमेवास्य लोकस्य विनाशे कारणं स्मृताः | धृतराष्ट्रस्य पुत्रेण निकृत्या प्रत्यपत्स्महि ||२१|| सदैव निकृतिप्रज्ञो द्वेष्टा मायोपजीवनः | मिथ्यावृत्तः स सततमस्मास्वनपकारिषु ||२२|| अंशकामा वयं ते च न चास्माभिर्न तैर्जितम् | न तैर्भुक्तेयमवनिर्न नार्यो गीतवादितम् ||२३|| नामात्यसमितौ कथ्यं न च श्रुतवतां श्रुतम् | न रत्नानि परार्ध्यानि न भूर्न द्रविणागमः ||२४|| ऋद्धिमस्मासु तां दृष्ट्वा विवर्णो हरिणः कृशः | धृतराष्ट्रस्य नृपतेः सौबलेन निवेदितः ||२५|| तं पिता पुत्रगृद्धित्वादनुमेनेऽनये स्थितम् | अनवेक्ष्यैव पितरं गाङ्गेयं विदुरं तथा ||२६|| असंशयं धृतराष्ट्रो यथैवाहं तथा गतः ||२६|| अनियम्याशुचिं लुब्धं पुत्रं कामवशानुगम् | पतितो यशसो दीप्ताद्घातयित्वा सहोदरान् ||२७|| इमौ वृद्धौ च शोकाग्नौ प्रक्षिप्य स सुयोधनः | अस्मत्प्रद्वेषसंयुक्तः पापबुद्धिः सदैव हि ||२८|| को हि बन्धुः कुलीनः संस्तथा ब्रूयात्सुहृज्जने | यथासावुक्तवान्क्षुद्रो युयुत्सुर्वृष्णिसंनिधौ ||२९|| आत्मनो हि वयं दोषाद्विनष्टाः शाश्वतीः समाः | प्रदहन्तो दिशः सर्वास्तेजसा भास्करा इव ||३०|| सोऽस्माकं वैरपुरुषो दुर्मन्त्रिप्रग्रहं गतः | दुर्योधनकृते ह्येतत्कुलं नो विनिपातितम् ||३१|| अवध्यानां वधं कृत्वा लोके प्राप्ताः स्म वाच्यताम् ||३१|| कुलस्यास्यान्तकरणं दुर्मतिं पापकारिणम् | राजा राष्ट्रेश्वरं कृत्वा धृतराष्ट्रोऽद्य शोचति ||३२|| हताः शूराः कृतं पापं विषयः स्वो विनाशितः | हत्वा नो विगतो मन्युः शोको मां रुन्धयत्ययम् ||३३|| धनञ्जय कृतं पापं कल्याणेनोपहन्यते | त्यागवांश्च पुनः पापं नालं कर्तुमिति श्रुतिः ||३४|| त्यागवाञ्जन्ममरणे नाप्नोतीति श्रुतिर्यदा | प्राप्तवर्त्मा कृतमतिर्ब्रह्म सम्पद्यते तदा ||३५|| स धनञ्जय निर्द्वंद्वो मुनिर्ज्ञानसमन्वितः | वनमामन्त्र्य वः सर्वान्गमिष्यामि परन्तप ||३६|| न हि कृत्स्नतमो धर्मः शक्यः प्राप्तुमिति श्रुतिः | परिग्रहवता तन्मे प्रत्यक्षमरिसूदन ||३७|| मया निसृष्टं पापं हि परिग्रहमभीप्सता | जन्मक्षयनिमित्तं च शक्यं प्राप्तुमिति श्रुतिः ||३८|| स परिग्रहमुत्सृज्य कृत्स्नं राज्यं तथैव च | गमिष्यामि विनिर्मुक्तो विशोको विज्वरस्तथा ||३९|| प्रशाधि त्वमिमामुर्वीं क्षेमां निहतकण्टकाम् | न ममार्थोऽस्ति राज्येन न भोगैर्वा कुरूत्तम ||४०|| एतावदुक्त्वा वचनं धर्मराजो युधिष्ठिरः | व्युपारमत्ततः पार्थः कनीयान्प्रत्यभाषत ||४१|| ८ वैशम्पायन उवाच|| अथार्जुन उवाचेदमधिक्षिप्त इवाक्षमी | अभिनीततरं वाक्यं दृढवादपराक्रमः ||१|| दर्शयन्नैन्द्रिरात्मानमुग्रमुग्रपराक्रमः | स्मयमानो महातेजाः सृक्किणी संलिहन्मुहुः ||२|| अहो दुःखमहो कृच्छ्रमहो वैक्लव्यमुत्तमम् | यत्कृत्वामानुषं कर्म त्यजेथाः श्रियमुत्तमाम् ||३|| शत्रून्हत्वा महीं लब्ध्वा स्वधर्मेणोपपादिताम् | हतामित्रः कथं सर्वं त्यजेथा बुद्धिलाघवात् ||४|| क्लीबस्य हि कुतो राज्यं दीर्घसूत्रस्य वा पुनः | किमर्थं च महीपालानवधीः क्रोधमूर्छितः ||५|| यो ह्याजिजीविषेद्भैक्ष्यं कर्मणा नैव केनचित् | समारम्भान्बुभूषेत हतस्वस्तिरकिञ्चनः ||६|| सर्वलोकेषु विख्यातो न पुत्रपशुसंहितः ||६|| कापालीं नृप पापिष्ठां वृत्तिमास्थाय जीवतः | सन्त्यज्य राज्यमृद्धं ते लोकोऽयं किं वदिष्यति ||७|| सर्वारम्भान्समुत्सृज्य हतस्वस्तिरकिञ्चनः | कस्मादाशंससे भैक्ष्यं चर्तुं प्राकृतवत्प्रभो ||८|| अस्मिन्राजकुले जातो जित्वा कृत्स्नां वसुन्धराम् | धर्मार्थावखिलौ हित्वा वनं मौढ्यात्प्रतिष्ठसे ||९|| यदीमानि हवींषीह विमथिष्यन्त्यसाधवः | भवता विप्रहीणानि प्राप्तं त्वामेव किल्बिषम् ||१०|| आकिञ्चन्यमनाशास्यमिति वै नहुषोऽब्रवीत् | कृत्या नृशंसा ह्यधने धिगस्त्वधनतामिह ||११|| अश्वस्तनमृषीणां हि विद्यते वेद तद्भवान् | यं त्विमं धर्ममित्याहुर्धनादेष प्रवर्तते ||१२|| धर्मं संहरते तस्य धनं हरति यस्य यः | ह्रियमाणे धने राजन्वयं कस्य क्षमेमहि ||१३|| अभिशस्तवत्प्रपश्यन्ति दरिद्रं पार्श्वतः स्थितम् | दारिद्र्यं पातकं लोके कस्तच्छंसितुमर्हति ||१४|| पतितः शोच्यते राजन्निर्धनश्चापि शोच्यते | विशेषं नाधिगच्छामि पतितस्याधनस्य च ||१५|| अर्थेभ्यो हि विवृद्धेभ्यः सम्भृतेभ्यस्ततस्ततः | क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः ||१६|| अर्धाद्धर्मश्च कामश्च स्वर्गश्चैव नराधिप | प्राणयात्रा हि लोकस्य विनार्थं न प्रसिध्यति ||१७|| अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः | व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ||१८|| यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः | यस्यार्थाः स पुमाँल्लोके यस्यार्थाः स च पण्डितः ||१९|| अधनेनार्थकामेन नार्थः शक्यो विवित्सता | अर्थैरर्था निबध्यन्ते गजैरिव महागजाः ||२०|| धर्मः कामश्च स्वर्गश्च हर्षः क्रोधः श्रुतं दमः | अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप ||२१|| धनात्कुलं प्रभवति धनाद्धर्मः प्रवर्तते | नाधनस्यास्त्ययं लोको न परः पुरुषोत्तम ||२२|| नाधनो धर्मकृत्यानि यथावदनुतिष्ठति | धनाद्धि धर्मः स्रवति शैलाद्गिरिनदी यथा ||२३|| यः कृशाश्वः कृशगवः कृशभृत्यः कृशातिथिः | स वै राजन्कृशो नाम न शरीरकृशः कृशः ||२४|| अवेक्षस्व यथान्यायं पश्य देवासुरं यथा | राजन्किमन्यज्ज्ञातीनां वधादृध्यन्ति देवताः ||२५|| न चेद्धर्तव्यमन्यस्य कथं तद्धर्ममारभेत् | एतावानेव वेदेषु निश्चयः कविभिः कृतः ||२६|| अध्येतव्या त्रयी विद्या भवितव्यं विपश्चिता | सर्वथा धनमाहार्यं यष्टव्यं चापि यत्नतः ||२७|| द्रोहाद्देवैरवाप्तानि दिवि स्थानानि सर्वशः | इति देवा व्यवसिता वेदवादाश्च शाश्वताः ||२८|| अधीयन्ते तपस्यन्ति यजन्ते याजयन्ति च | कृत्स्नं तदेव च श्रेयो यदप्याददतेऽन्यतः ||२९|| न पश्यामोऽनपहृतं धनं किञ्चित्क्वचिद्वयम् | एवमेव हि राजानो जयन्ति पृथिवीमिमाम् ||३०|| जित्वा ममत्वं ब्रुवते पुत्रा इव पितुर्धने | राजर्षयो जितस्वर्गा धर्मो ह्येषां निगद्यते ||३१|| यथैव पूर्णादुदधेः स्यन्दन्त्यापो दिशो दश | एवं राजकुलाद्वित्तं पृथिवीं प्रतितिष्ठति ||३२|| आसीदियं दिलीपस्य नृगस्य नहुषस्य च | अम्बरीषस्य मान्धातुः पृथिवी सा त्वयि स्थिता ||३३|| स त्वां द्रव्यमयो यज्ञः सम्प्राप्तः सर्वदक्षिणः | तं चेन्न यजसे राजन्प्राप्तस्त्वं देवकिल्बिषम् ||३४|| येषां राजाश्वमेधेन यजते दक्षिणावता | उपेत्य तस्यावभृथं पूताः सर्वे भवन्ति ते ||३५|| विश्वरूपो महादेवः सर्वमेधे महामखे | जुहाव सर्वभूतानि तथैवात्मानमात्मना ||३६|| शाश्वतोऽयं भूतिपथो नास्यान्तमनुशुश्रुम | महान्दाशरथः पन्था मा राजन्कापथं गमः ||३७|| ९ युधिष्ठिर उवाच|| मुहूर्तं तावदेकाग्रो मनःश्रोत्रेऽन्तरात्मनि | धारयित्वापि ते श्रुत्वा रोचतां वचनं मम ||१|| सार्थगम्यमहं मार्गं न जातु त्वत्कृते पुनः | गच्छेयं तद्गमिष्यामि हित्वा ग्राम्यसुखान्युत ||२|| क्षेम्यश्चैकाकिना गम्यः पन्थाः कोऽस्तीति पृच्छ माम् | अथ वा नेच्छसि प्रष्टुमपृच्छन्नपि मे शृणु ||३|| हित्वा ग्राम्यसुखाचारं तप्यमानो महत्तपः | अरण्ये फलमूलाशी चरिष्यामि मृगैः सह ||४|| जुह्वानोऽग्निं यथाकालमुभौ कालावुपस्पृशन् | कृशः परिमिताहारश्चर्मचीरजटाधरः ||५|| शीतवातातपसहः क्षुत्पिपासाश्रमक्षमः | तपसा विधिदृष्टेन शरीरमुपशोषयन् ||६|| मनःकर्णसुखा नित्यं शृण्वन्नुच्चावचा गिरः | मुदितानामरण्येषु वसतां मृगपक्षिणाम् ||७|| आजिघ्रन्पेशलान्गन्धान्फुल्लानां वृक्षवीरुधाम् | नानारूपान्वने पश्यन्रमणीयान्वनौकसः ||८|| वानप्रस्थजनस्यापि दर्शनं कुलवासिनः | नाप्रियाण्याचरिष्यामि किं पुनर्ग्रामवासिनाम् ||९|| एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन् | पितॄन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन् ||१०|| एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम् | सेवमानः प्रतीक्षिष्ये देहस्यास्य समापनम् ||११|| अथ वैकोऽहमेकाहमेकैकस्मिन्वनस्पतौ | चरन्भैक्ष्यं मुनिर्मुण्डः क्षपयिष्ये कलेवरम् ||१२|| पांसुभिः समवच्छन्नः शून्यागारप्रतिश्रयः | वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः ||१३|| न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः | निराशीर्निर्ममो भूत्वा निर्द्वंद्वो निष्परिग्रहः ||१४|| आत्मारामः प्रसन्नात्मा जडान्धबधिराकृतिः | अकुर्वाणः परैः काञ्चित्संविदं जातु केनचित् ||१५|| जङ्गमाजङ्गमान्सर्वान्नविहिंसंश्चतुर्विधान् | प्रजाः सर्वाः स्वधर्मस्थाः समः प्राणभृतः प्रति ||१६|| न चाप्यवहसन्कञ्चिन्न कुर्वन्भ्रुकुटीं क्वचित् | प्रसन्नवदनो नित्यं सर्वेन्द्रियसुसंयतः ||१७|| अपृच्छन्कस्यचिन्मार्गं व्रजन्येनैव केनचित् | न देशं न दिशं काञ्चिद्गन्तुमिच्छन्विशेषतः ||१८|| गमने निरपेक्षश्च पश्चादनवलोकयन् | ऋजुः प्रणिहितो गच्छंस्त्रसस्थावरवर्जकः ||१९|| स्वभावस्तु प्रयात्यग्रे प्रभवन्त्यशनान्यपि | द्वंद्वानि च विरुद्धानि तानि सर्वाण्यचिन्तयन् ||२०|| अल्पं वास्वादु वा भोज्यं पूर्वालाभेन जातु चित् | अन्येष्वपि चरँल्लाभमलाभे सप्त पूरयन् ||२१|| विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने | अतीतपात्रसञ्चारे काले विगतभिक्षुके ||२२|| एककालं चरन्भैक्ष्यं गृहे द्वे चैव पञ्च च | स्पृहापाशान्विमुच्याहं चरिष्यामि महीमिमाम् ||२३|| न जिजीविषुवत्किञ्चिन्न मुमूर्षुवदाचरन् | जीवितं मरणं चैव नाभिनन्दन्न च द्विषन् ||२४|| वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः | नाकल्याणं न कल्याणं चिन्तयन्नुभयोस्तयोः ||२५|| याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः | सर्वास्ताः समभित्यज्य निमेषादिव्यवस्थितः ||२६|| तेषु नित्यमसक्तश्च त्यक्तसर्वेन्द्रियक्रियः | सुपरित्यक्तसङ्कल्पः सुनिर्णिक्तात्मकल्मषः ||२७|| विमुक्तः सर्वसङ्गेभ्यो व्यतीतः सर्ववागुराः | न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः ||२८|| वीतरागश्चरन्नेवं तुष्टिं प्राप्स्यामि शाश्वतीम् | तृष्णया हि महत्पापमज्ञानादस्मि कारितः ||२९|| कुशलाकुशलान्येके कृत्वा कर्माणि मानवाः | कार्यकारणसंश्लिष्टं स्वजनं नाम बिभ्रति ||३०|| आयुषोऽन्ते प्रहायेदं क्षीणप्रायं कलेवरम् | प्रतिगृह्णाति तत्पापं कर्तुः कर्मफलं हि तत् ||३१|| एवं संसारचक्रेऽस्मिन्व्याविद्धे रथचक्रवत् | समेति भूतग्रामोऽयं भूतग्रामेण कार्यवान् ||३२|| जन्ममृत्युजराव्याधिवेदनाभिरुपद्रुतम् | असारमिममस्वन्तं संसारं त्यजतः सुखम् ||३३|| दिवः पतत्सु देवेषु स्थानेभ्यश्च महर्षिषु | को हि नाम भवेनार्थी भवेत्कारणतत्त्ववित् ||३४|| कृत्वा हि विविधं कर्म तत्तद्विविधलक्षणम् | पार्थिवैर्नृपतिः स्वल्पैः कारणैरेव बध्यते ||३५|| तस्मात्प्रज्ञामृतमिदं चिरान्मां प्रत्युपस्थितम् | तत्प्राप्य प्रार्थये स्थानमव्ययं शाश्वतं ध्रुवम् ||३६|| एतया सततं वृत्त्या चरन्नेवम्प्रकारया | देहं संस्थापयिष्यामि निर्भयं मार्गमास्थितः ||३७|| १० भीम उवाच|| श्रोत्रियस्येव ते राजन्मन्दकस्याविपश्चितः | अनुवाकहताबुद्धिर्नैषा तत्त्वार्थदर्शिनी ||१|| आलस्ये कृतचित्तस्य राजधर्मानसूयतः | विनाशे धार्तराष्ट्राणां किं फलं भरतर्षभ ||२|| क्षमानुकम्पा कारुण्यमानृशंस्यं न विद्यते | क्षात्रमाचरतो मार्गमपि बन्धोस्त्वदन्तरे ||३|| यदीमां भवतो बुद्धिं विद्याम वयमीदृशीम् | शस्त्रं नैव ग्रहीष्यामो न वधिष्याम कञ्चन ||४|| भैक्ष्यमेवाचरिष्याम शरीरस्या विमोक्षणात् | न चेदं दारुणं युद्धमभविष्यन्महीक्षिताम् ||५|| प्राणस्यान्नमिदं सर्वमिति वै कवयो विदुः | स्थावरं जङ्गमं चैव सर्वं प्राणस्य भोजनम् ||६|| आददानस्य चेद्राज्यं ये केचित्परिपन्थिनः | हन्तव्यास्त इति प्राज्ञाः क्षत्रधर्मविदो विदुः ||७|| ते सदोषा हतास्माभी राज्यस्य परिपन्थिनः | तान्हत्वा भुङ्क्ष्व धर्मेण युधिष्ठिर महीमिमाम् ||८|| यथा हि पुरुषः खात्वा कूपमप्राप्य चोदकम् | पङ्कदिग्धो निवर्तेत कर्मेदं नस्तथोपमम् ||९|| यथारुह्य महावृक्षमपहृत्य ततो मधु | अप्राश्य निधनं गच्छेत्कर्मेदं नस्तथोपमम् ||१०|| यथा महान्तमध्वानमाशया पुरुषः पतन् | स निराशो निवर्तेत कर्मेदं नस्तथोपमम् ||११|| यथा शत्रून्घातयित्वा पुरुषः कुरुसत्तम | आत्मानं घातयेत्पश्चात्कर्मेदं नस्तथाविधम् ||१२|| यथान्नं क्षुधितो लब्ध्वा न भुञ्जीत यदृच्छया | कामी च कामिनीं लब्ध्वा कर्मेदं नस्तथाविधम् ||१३|| वयमेवात्र गर्ह्या हि ये वयं मन्दचेतसः | त्वां राजन्ननुगच्छामो ज्येष्ठोऽयमिति भारत ||१४|| वयं हि बाहुबलिनः कृतविद्या मनस्विनः | क्लीबस्य वाक्ये तिष्ठामो यथैवाशक्तयस्तथा ||१५|| अगतीन्कागतीनस्मान्नष्टार्थानर्थसिद्धये | कथं वै नानुपश्येयुर्जनाः पश्यन्ति यादृशम् ||१६|| आपत्काले हि संन्यासः कर्तव्य इति शिष्यते | जरयाभिपरीतेन शत्रुभिर्व्यंसितेन च ||१७|| तस्मादिह कृतप्रज्ञास्त्यागं न परिचक्षते | धर्मव्यतिक्रमं चेदं मन्यन्ते सूक्ष्मदर्शिनः ||१८|| कथं तस्मात्समुत्पन्नस्तन्निष्ठस्तदुपाश्रयः | तदेव निन्दन्नासीत श्रद्धा वान्यत्र गृह्यते ||१९|| श्रिया विहीनैरधनैर्नास्तिकैः सम्प्रवर्तितम् | वेदवादस्य विज्ञानं सत्याभासमिवानृतम् ||२०|| शक्यं तु मौण्ड्यमास्थाय बिभ्रतात्मानमात्मना | धर्मच्छद्म समास्थाय आसितुं न तु जीवितुम् ||२१|| शक्यं पुनररण्येषु सुखमेकेन जीवितुम् | अबिभ्रता पुत्रपौत्रान्देवर्षीनतिथीन्पितॄन् ||२२|| नेमे मृगाः स्वर्गजितो न वराहा न पक्षिणः | अथैतेन प्रकारेण पुण्यमाहुर्न ताञ्जनाः ||२३|| यदि संन्यासतः सिद्धिं राजन्कश्चिदवाप्नुयात् | पर्वताश्च द्रुमाश्चैव क्षिप्रं सिद्धिमवाप्नुयुः ||२४|| एते हि नित्यसंन्यासा दृश्यन्ते निरुपद्रवाः | अपरिग्रहवन्तश्च सततं चात्मचारिणः ||२५|| अथ चेदात्मभाग्येषु नान्येषां सिद्धिमश्नुते | तस्मात्कर्मैव कर्तव्यं नास्ति सिद्धिरकर्मणः ||२६|| औदकाः सृष्टयश्चैव जन्तवः सिद्धिमाप्नुयुः | येषामात्मैव भर्तव्यो नान्यः कश्चन विद्यते ||२७|| अवेक्षस्व यथा स्वैः स्वैः कर्मभिर्व्यापृतं जगत् | तस्मात्कर्मैव कर्तव्यं नास्ति सिद्धिरकर्मणः ||२८|| ऋषिशकुनिसंवादः ११ अर्जुन उवाच|| अत्रैवोदाहरन्तीममितिहासं पुरातनम् | तापसैः सह संवादं शक्रस्य भरतर्षभ ||१|| केचिद्गृहान्परित्यज्य वनमभ्यगमन्द्विजाः | अजातश्मश्रवो मन्दाः कुले जाताः प्रवव्रजुः ||२|| धर्मोऽयमिति मन्वाना ब्रह्मचर्ये व्यवस्थिताः | त्यक्त्वा गृहान्पितॄंश्चैव तानिन्द्रोऽन्वकृपायत ||३|| तानाबभाषे भगवान्पक्षी भूत्वा हिरण्मयः | सुदुष्करं मनुष्यैश्च यत्कृतं विघसाशिभिः ||४|| पुण्यं च बत कर्मैषां प्रशस्तं चैव जीवितम् | संसिद्धास्ते गतिं मुख्यां प्राप्ता धर्मपरायणाः ||५|| ऋषय ऊचुः|| अहो बतायं शकुनिर्विघसाशान्प्रशंसति | अस्मान्नूनमयं शास्ति वयं च विघसाशिनः ||६|| शकुनिरुवाच|| नाहं युष्मान्प्रशंसामि पङ्कदिग्धान्रजस्वलान् | उच्छिष्टभोजिनो मन्दानन्ये वै विघसाशिनः ||७|| ऋषय ऊचुः|| इदं श्रेयः परमिति वयमेवाभ्युपास्महे | शकुने ब्रूहि यच्छ्रेयो भृशं वै श्रद्दधाम ते ||८|| शकुनिरुवाच|| यदि मां नाभिशङ्कध्वं विभज्यात्मानमात्मना | ततोऽहं वः प्रवक्ष्यामि याथातथ्यं हितं वचः ||९|| ऋषय ऊचुः|| शृणुमस्ते वचस्तात पन्थानो विदितास्तव | नियोगे चैव धर्मात्मन्स्थातुमिच्छाम शाधि नः ||१०|| शकुनिरुवाच|| चतुष्पदां गौः प्रवरा लोहानां काञ्चनं वरम् | शब्दानां प्रवरो मन्त्रो ब्राह्मणो द्विपदां वरः ||११|| मन्त्रोऽयं जातकर्मादि ब्राह्मणस्य विधीयते | जीवतो यो यथाकालं श्मशाननिधनादिति ||१२|| कर्माणि वैदिकान्यस्य स्वर्ग्यः पन्थास्त्वनुत्तमः | अथ सर्वाणि कर्माणि मन्त्रसिद्धानि चक्षते ||१३|| आम्नायदृढवादीनि तथा सिद्धिरिहेष्यते | मासार्धमासा ऋतव आदित्यशशितारकम् ||१४|| ईहन्ते सर्वभूतानि तदृतं कर्मसङ्गिनाम् | सिद्धिक्षेत्रमिदं पुण्यमयमेवाश्रमो महान् ||१५|| अथ ये कर्म निन्दन्तो मनुष्याः कापथं गताः | मूढानामर्थहीनानां तेषामेनस्तु विद्यते ||१६|| देववंशान्पितृवंशान्ब्रह्मवंशांश्च शाश्वतान् | सन्त्यज्य मूढा वर्तन्ते ततो यान्त्यश्रुतीपथम् ||१७|| एतद्वोऽस्तु तपो युक्तं ददानीत्यृषिचोदितम् | तस्मात्तदध्यवसतस्तपस्वि तप उच्यते ||१८|| देववंशान्पितृवंशान्ब्रह्मवंशांश्च शाश्वतान् | संविभज्य गुरोश्चर्यां तद्वै दुष्करमुच्यते ||१९|| देवा वै दुष्करं कृत्वा विभूतिं परमां गताः | तस्माद्गार्हस्थ्यमुद्वोढुं दुष्करं प्रब्रवीमि वः ||२०|| तपः श्रेष्ठं प्रजानां हि मूलमेतन्न संशयः | कुटुम्बविधिनानेन यस्मिन्सर्वं प्रतिष्ठितम् ||२१|| एतद्विदुस्तपो विप्रा द्वंद्वातीता विमत्सराः | तस्माद्वनं मध्यमं च लोकेषु तप उच्यते ||२२|| दुराधर्षं पदं चैव गच्छन्ति विघसाशिनः | सायम्प्रातर्विभज्यान्नं स्वकुटुम्बे यथाविधि ||२३|| दत्त्वातिथिभ्यो देवेभ्यः पितृभ्यः स्वजनस्य च | अवशिष्टानि येऽश्नन्ति तानाहुर्विघसाशिनः ||२४|| तस्मात्स्वधर्ममास्थाय सुव्रताः सत्यवादिनः | लोकस्य गुरवो भूत्वा ते भवन्त्यनुपस्कृताः ||२५|| त्रिदिवं प्राप्य शक्रस्य स्वर्गलोके विमत्सराः | वसन्ति शाश्वतीर्वर्षा जना दुष्करकारिणः ||२६|| ततस्ते तद्वचः श्रुत्वा तस्य धर्मार्थसंहितम् | उत्सृज्य नास्तिकगतिं गार्हस्थ्यं धर्ममाश्रिताः ||२७|| तस्मात्त्वमपि दुर्धर्ष धैर्यमालम्ब्य शाश्वतम् | प्रशाधि पृथिवीं कृत्स्नां हतामित्रां नरोत्तम ||२८|| १२ वैशम्पायन उवाच|| अर्जुनस्य वचः श्रुत्वा नकुलो वाक्यमब्रवीत् | राजानमभिसम्प्रेक्ष्य सर्वधर्मभृतां वरम् ||१|| अनुरुध्य महाप्राज्ञो भ्रातुश्चित्तमरिंदमः | व्यूढोरस्को महाबाहुस्ताम्रास्यो मितभाषिता ||२|| विशाखयूपे देवानां सर्वेषामग्नयश्चिताः | तस्माद्विद्धि महाराज देवान्कर्मपथि स्थितान् ||३|| अनास्तिकानास्तिकानां प्राणदाः पितरश्च ये | तेऽपि कर्मैव कुर्वन्ति विधिं पश्यस्व पार्थिव ||४|| वेदवादापविद्धांस्तु तान्विद्धि भृशनास्तिकान् ||४|| न हि वेदोक्तमुत्सृज्य विप्रः सर्वेषु कर्मसु | देवयानेन नाकस्य पृष्ठमाप्नोति भारत ||५|| अत्याश्रमानयं सर्वानित्याहुर्वेदनिश्चयाः | ब्राह्मणाः श्रुतिसम्पन्नास्तान्निबोध जनाधिप ||६|| वित्तानि धर्मलब्धानि क्रतुमुख्येष्ववासृजन् | कृतात्मसु महाराज स वै त्यागी स्मृतो नरः ||७|| अनवेक्ष्य सुखादानं तथैवोर्ध्वं प्रतिष्ठितः | आत्मत्यागी महाराज स त्यागी तामसः प्रभो ||८|| अनिकेतः परिपतन्वृक्षमूलाश्रयो मुनिः | अपाचकः सदा योगी स त्यागी पार्थ भिक्षुकः ||९|| क्रोधहर्षावनादृत्य पैशुन्यं च विशां पते | विप्रो वेदानधीते यः स त्यागी गुरुपूजकः ||१०|| आश्रमांस्तुलया सर्वान्धृतानाहुर्मनीषिणः | एकतस्ते त्रयो राजन्गृहस्थाश्रम एकतः ||११|| समीक्षते तु योऽर्थं वै कामं स्वर्गं च भारत | अयं पन्था महर्षीणामियं लोकविदां गतिः ||१२|| इति यः कुरुते भावं स त्यागी भरतर्षभ | न यः परित्यज्य गृहान्वनमेति विमूढवत् ||१३|| यदा कामान्समीक्षेत धर्मवैतंसिकोऽनृजुः | अथैनं मृत्युपाशेन कण्ठे बध्नाति मृत्युराट् ||१४|| अभिमानकृतं कर्म नैतत्फलवदुच्यते | त्यागयुक्तं महाराज सर्वमेव महाफलम् ||१५|| शमो दमस्तपो दानं सत्यं शौचमथार्जवम् | यज्ञो धृतिश्च धर्मश्च नित्यमार्षो विधिः स्मृतः ||१६|| पितृदेवातिथिकृते समारम्भोऽत्र शस्यते | अत्रैव हि महाराज त्रिवर्गः केवलं फलम् ||१७|| एतस्मिन्वर्तमानस्य विधौ विप्रनिषेविते | त्यागिनः प्रसृतस्येह नोच्छित्तिर्विद्यते क्वचित् ||१८|| असृजद्धि प्रजा राजन्प्रजापतिरकल्मषः | मां यक्ष्यन्तीति शान्तात्मा यज्ञैर्विविधदक्षिणैः ||१९|| वीरुधश्चैव वृक्षांश्च यज्ञार्थं च तथौषधीः | पशूंश्चैव तथा मेध्यान्यज्ञार्थानि हवींषि च ||२०|| गृहस्थाश्रमिणस्तच्च यज्ञकर्म विरोधकम् | तस्माद्गार्हस्थ्यमेवेह दुष्करं दुर्लभं तथा ||२१|| तत्सम्प्राप्य गृहस्था ये पशुधान्यसमन्विताः | न यजन्ते महाराज शाश्वतं तेषु किल्बिषम् ||२२|| स्वाध्याययज्ञा ऋषयो ज्ञानयज्ञास्तथापरे | अथापरे महायज्ञान्मनसैव वितन्वते ||२३|| एवं दानसमाधानं मार्गमातिष्ठतो नृप | द्विजातेर्ब्रह्मभूतस्य स्पृहयन्ति दिवौकसः ||२४|| स रत्नानि विचित्राणि सम्भृतानि ततस्ततः | मखेष्वनभिसन्त्यज्य नास्तिक्यमभिजल्पसि ||२५|| कुटुम्बमास्थिते त्यागं न पश्यामि नराधिप ||२५|| राजसूयाश्वमेधेषु सर्वमेधेषु वा पुनः | य चान्ये क्रतवस्तात ब्राह्मणैरभिपूजिताः ||२६|| तैर्यजस्व महाराज शक्रो देवपतिर्यथा ||२६|| राज्ञः प्रमाददोषेण दस्युभिः परिमुष्यताम् | अशरण्यः प्रजानां यः स राजा कलिरुच्यते ||२७|| अश्वान्गाश्चैव दासीश्च करेणूश्च स्वलङ्कृताः | ग्रामाञ्जनपदांश्चैव क्षेत्राणि च गृहाणि च ||२८|| अप्रदाय द्विजातिभ्यो मात्सर्याविष्टचेतसः | वयं ते राजकलयो भविष्यामो विशां पते ||२९|| अदातारोऽशरण्याश्च राजकिल्बिषभागिनः | दुःखानामेव भोक्तारो न सुखानां कदाचन ||३०|| अनिष्ट्वा च महायज्ञैरकृत्वा च पितृस्वधाम् | तीर्थेष्वनभिसन्त्यज्य प्रव्रजिष्यसि चेदथ ||३१|| छिन्नाभ्रमिव गन्तासि विलयं मारुतेरितम् | लोकयोरुभयोर्भ्रष्टो ह्यन्तराले व्यवस्थितः ||३२|| अन्तर्बहिश्च यत्किञ्चिन्मनोव्यासङ्गकारकम् | परित्यज्य भवेत्त्यागी न यो हित्वा प्रतिष्ठते ||३३|| एतस्मिन्वर्तमानस्य विधौ विप्रनिषेविते | ब्राह्मणस्य महाराज नोच्छित्तिर्विद्यते क्वचित् ||३४|| निहत्य शत्रूंस्तरसा समृद्धा; न्शक्रो यथा दैत्यबलानि सङ्ख्ये | कः पार्थ शोचेन्निरतः स्वधर्मे; पूर्वैः स्मृते पार्थिव शिष्टजुष्टे ||३५|| क्षात्रेण धर्मेण पराक्रमेण; जित्वा महीं मन्त्रविद्भ्यः प्रदाय | नाकस्य पृष्ठेऽसि नरेन्द्र गन्ता; न शोचितव्यं भवताद्य पार्थ ||३६|| १३ सहदेव उवाच|| न बाह्यं द्रव्यमुत्सृज्य सिद्धिर्भवति भारत | शारीरं द्रव्यमुत्सृज्य सिद्धिर्भवति वा न वा ||१|| बाह्यद्रव्यविमुक्तस्य शारीरेषु च गृध्यतः | यो धर्मो यत्सुखं वा स्याद्द्विषतां तत्तथास्तु नः ||२|| शारीरं द्रव्यमुत्सृज्य पृथिवीमनुशासतः | यो धर्मो यत्सुखं वा स्यात्सुहृदां तत्तथास्तु नः ||३|| द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम् | ममेति च भवेन्मृत्युर्न ममेति च शाश्वतम् ||४|| ब्रह्ममृत्यू च तौ राजन्नात्मन्येव समाश्रितौ | अदृश्यमानौ भूतानि योधयेतामसंशयम् ||५|| अविनाशोऽस्य सत्त्वस्य नियतो यदि भारत | भित्त्वा शरीरं भूतानां न हिंसा प्रतिपत्स्यते ||६|| अथापि च सहोत्पत्तिः सत्त्वस्य प्रलयस्तथा | नष्टे शरीरे नष्टं स्याद्वृथा च स्यात्क्रियापथः ||७|| तस्मादेकान्तमुत्सृज्य पूर्वैः पूर्वतरैश्च यः | पन्था निषेवितः सद्भिः स निषेव्यो विजानता ||८|| लब्ध्वापि पृथिवीं कृत्स्नां सहस्थावरजङ्गमाम् | न भुङ्क्ते यो नृपः सम्यङ्निष्फलं तस्य जीवितम् ||९|| अथ वा वसतो राजन्वने वन्येन जीवतः | द्रव्येषु यस्य ममता मृत्योरास्ये स वर्तते ||१०|| बाह्याभ्यन्तरभूतानां स्वभावं पश्य भारत | ये तु पश्यन्ति तद्भावं मुच्यन्ते महतो भयात् ||११|| भवान्पिता भवान्माता भवान्भ्राता भवान्गुरुः | दुःखप्रलापानार्तस्य तस्मान्मे क्षन्तुमर्हसि ||१२|| तथ्यं वा यदि वातथ्यं यन्मयैतत्प्रभाषितम् | तद्विद्धि पृथिवीपाल भक्त्या भरतसत्तम ||१३|| १४ वैशम्पायन उवाच|| अव्याहरति कौन्तेये धर्मराजे युधिष्ठिरे | भ्रातॄणां ब्रुवतां तांस्तान्विविधान्वेदनिश्चयान् ||१|| महाभिजनसम्पन्ना श्रीमत्यायतलोचना | अभ्यभाषत राजेन्द्रं द्रौपदी योषितां वरा ||२|| आसीनमृषभं राज्ञां भ्रातृभिः परिवारितम् | सिंहशार्दूलसदृशैर्वारणैरिव यूथपम् ||३|| अभिमानवती नित्यं विशेषेण युधिष्ठिरे | लालिता सततं राज्ञा धर्मज्ञा धर्मदर्शिनी ||४|| आमन्त्र्य विपुलश्रोणी साम्ना परमवल्गुना | भर्तारमभिसम्प्रेक्ष्य ततो वचनमब्रवीत् ||५|| इमे ते भ्रातरः पार्थ शुष्यन्त स्तोकका इव | वावाश्यमानास्तिष्ठन्ति न चैनानभिनन्दसे ||६|| नन्दयैतान्महाराज मत्तानिव महाद्विपान् | उपपन्नेन वाक्येन सततं दुःखभागिनः ||७|| कथं द्वैतवने राजन्पूर्वमुक्त्वा तथा वचः | भ्रातॄनेतान्स्म सहिताञ्शीतवातातपार्दितान् ||८|| वयं दुर्योधनं हत्वा मृधे भोक्ष्याम मेदिनीम् | सम्पूर्णां सर्वकामानामाहवे विजयैषिणः ||९|| विरथांश्च रथान्कृत्वा निहत्य च महागजान् | संस्तीर्य च रथैर्भूमिं ससादिभिररिंदमाः ||१०|| यजतां विविधैर्यज्ञैः समृद्धैराप्तदक्षिणैः | वनवासकृतं दुःखं भविष्यति सुखाय नः ||११|| इत्येतानेवमुक्त्वा त्वं स्वयं धर्मभृतां वर | कथमद्य पुनर्वीर विनिहंसि मनांस्युत ||१२|| न क्लीबो वसुधां भुङ्क्ते न क्लीबो धनमश्नुते | न क्लीबस्य गृहे पुत्रा मत्स्याः पङ्क इवासते ||१३|| नादण्डः क्षत्रियो भाति नादण्डो भूतिमश्नुते | नादण्डस्य प्रजा राज्ञः सुखमेधन्ति भारत ||१४|| मित्रता सर्वभूतेषु दानमध्ययनं तपः | ब्राह्मणस्यैष धर्मः स्यान्न राज्ञो राजसत्तम ||१५|| असतां प्रतिषेधश्च सतां च परिपालनम् | एष राज्ञां परो धर्मः समरे चापलायनम् ||१६|| यस्मिन्क्षमा च क्रोधश्च दानादाने भयाभये | निग्रहानुग्रहौ चोभौ स वै धर्मविदुच्यते ||१७|| न श्रुतेन न दानेन न सान्त्वेन न चेज्यया | त्वयेयं पृथिवी लब्धा नोत्कोचेन तथाप्युत ||१८|| यत्तद्बलममित्राणां तथा वीरसमुद्यतम् | हस्त्यश्वरथसम्पन्नं त्रिभिरङ्गैर्महत्तरम् ||१९|| रक्षितं द्रोणकर्णाभ्यामश्वत्थाम्ना कृपेण च | तत्त्वया निहतं वीर तस्माद्भुङ्क्ष्व वसुन्धराम् ||२०|| जम्बूद्वीपो महाराज नानाजनपदायुतः | त्वया पुरुषशार्दूल दण्डेन मृदितः प्रभो ||२१|| जम्बूद्वीपेन सदृशः क्रौञ्चद्वीपो नराधिप | अपरेण महामेरोर्दण्डेन मृदितस्त्वया ||२२|| क्रौञ्चद्वीपेन सदृशः शाकद्वीपो नराधिप | पूर्वेण तु महामेरोर्दण्डेन मृदितस्त्वया ||२३|| उत्तरेण महामेरोः शाकद्वीपेन संमितः | भद्राश्वः पुरुषव्याघ्र दण्डेन मृदितस्त्वया ||२४|| द्वीपाश्च सान्तरद्वीपा नानाजनपदालयाः | विगाह्य सागरं वीर दण्डेन मृदितास्त्वया ||२५|| एतान्यप्रतिमानि त्वं कृत्वा कर्माणि भारत | न प्रीयसे महाराज पूज्यमानो द्विजातिभिः ||२६|| स त्वं भ्रातॄनिमान्दृष्ट्वा प्रतिनन्दस्व भारत | ऋषभानिव संमत्तान्गजेन्द्रानूर्जितानिव ||२७|| अमरप्रतिमाः सर्वे शत्रुसाहाः परन्तपाः | एकोऽपि हि सुखायैषां क्षमः स्यादिति मे मतिः ||२८|| किं पुनः पुरुषव्याघ्राः पतयो मे नरर्षभाः | समस्तानीन्द्रियाणीव शरीरस्य विचेष्टने ||२९|| अनृतं माब्रवीच्छ्वश्रूः सर्वज्ञा सर्वदर्शिनी | युधिष्ठिरस्त्वां पाञ्चालि सुखे धास्यत्यनुत्तमे ||३०|| हत्वा राजसहस्राणि बहून्याशुपराक्रमः | तद्व्यर्थं सम्प्रपश्यामि मोहात्तव जनाधिप ||३१|| येषामुन्मत्तको ज्येष्ठः सर्वे तस्योपचारिणः | तवोन्मादेन राजेन्द्र सोन्मादाः सर्वपाण्डवाः ||३२|| यदि हि स्युरनुन्मत्ता भ्रातरस्ते जनाधिप | बद्ध्वा त्वां नास्तिकैः सार्धं प्रशासेयुर्वसुन्धराम् ||३३|| कुरुते मूढमेवं हि यः श्रेयो नाधिगच्छति | धूपैरञ्जनयोगैश्च नस्यकर्मभिरेव च ||३४|| भेषजैः स चिकित्स्यः स्याद्य उन्मार्गेण गच्छति ||३४|| साहं सर्वाधमा लोके स्त्रीणां भरतसत्तम | तथा विनिकृतामित्रैर्याहमिच्छामि जीवितुम् ||३५|| एतेषां यतमानानामुत्पद्यन्ते तु सम्पदः | त्वं तु सर्वां महीं लब्ध्वा कुरुषे स्वयमापदम् ||३६|| यथास्तां संमतौ राज्ञां पृथिव्यां राजसत्तमौ | मान्धाता चाम्बरीषश्च तथा राजन्विराजसे ||३७|| प्रशाधि पृथिवीं देवीं प्रजा धर्मेण पालयन् | सपर्वतवनद्वीपां मा राजन्विमना भव ||३८|| यजस्व विविधैर्यज्ञैर्जुह्वन्नग्नीन्प्रयच्छ च | पुराणि भोगान्वासांसि द्विजातिभ्यो नृपोत्तम ||३९|| १५ वैशम्पायन उवाच|| याज्ञसेन्या वचः श्रुत्वा पुनरेवार्जुनोऽब्रवीत् | अनुमान्य महाबाहुं ज्येष्ठं भ्रातरमीश्वरम् ||१|| दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति | दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः ||२|| धर्मं संरक्षते दण्डस्तथैवार्थं नराधिप | कामं संरक्षते दण्डस्त्रिवर्गो दण्ड उच्यते ||३|| दण्डेन रक्ष्यते धान्यं धनं दण्डेन रक्ष्यते | एतद्विद्वन्नुपादत्स्व स्वभावं पश्य लौकिकम् ||४|| राजदण्डभयादेके पापाः पापं न कुर्वते | यमदण्डभयादेके परलोकभयादपि ||५|| परस्परभयादेके पापाः पापं न कुर्वते | एवं सांसिद्धिके लोके सर्वं दण्डे प्रतिष्ठितम् ||६|| दण्डस्यैव भयादेके न खादन्ति परस्परम् | अन्धे तमसि मज्जेयुर्यदि दण्डो न पालयेत् ||७|| यस्माददान्तान्दमयत्यशिष्टान्दण्डयत्यपि | दमनाद्दण्डनाच्चैव तस्माद्दण्डं विदुर्बुधाः ||८|| वाचि दण्डो ब्राह्मणानां क्षत्रियाणां भुजार्पणम् | दानदण्डः स्मृतो वैश्यो निर्दण्डः शूद्र उच्यते ||९|| असंमोहाय मर्त्यानामर्थसंरक्षणाय च | मर्यादा स्थापिता लोके दण्डसञ्ज्ञा विशां पते ||१०|| यत्र श्यामो लोहिताक्षो दण्डश्चरति सूनृतः | प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति ||११|| ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः | दण्डस्यैव भयादेते मनुष्या वर्त्मनि स्थिताः ||१२|| नाभीतो यजते राजन्नाभीतो दातुमिच्छति | नाभीतः पुरुषः कश्चित्समये स्थातुमिच्छति ||१३|| नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दारुणम् | नाहत्वा मत्स्यघातीव प्राप्नोति महतीं श्रियम् ||१४|| नाघ्नतः कीर्तिरस्तीह न वित्तं न पुनः प्रजाः | इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत ||१५|| य एव देवा हन्तारस्ताँल्लोकोऽर्चयते भृशम् | हन्ता रुद्रस्तथा स्कन्दः शक्रोऽग्निर्वरुणो यमः ||१६|| हन्ता कालस्तथा वायुर्मृत्युर्वैश्रवणो रविः | वसवो मरुतः साध्या विश्वेदेवाश्च भारत ||१७|| एतान्देवान्नमस्यन्ति प्रतापप्रणता जनाः | न ब्रह्माणं न धातारं न पूषाणं कथञ्चन ||१८|| मध्यस्थान्सर्वभूतेषु दान्ताञ्शमपरायणान् | यजन्ते मानवाः केचित्प्रशान्ताः सर्वकर्मसु ||१९|| न हि पश्यामि जीवन्तं लोके कञ्चिदहिंसया | सत्त्वैः सत्त्वानि जीवन्ति दुर्बलैर्बलवत्तराः ||२०|| नकुलो मूषकानत्ति बिडालो नकुलं तथा | बिडालमत्ति श्वा राजञ्श्वानं व्यालमृगस्तथा ||२१|| तानत्ति पुरुषः सर्वान्पश्य धर्मो यथागतः | प्राणस्यान्नमिदं सर्वं जङ्गमं स्थावरं च यत् ||२२|| विधानं देवविहितं तत्र विद्वान्न मुह्यति | यथा सृष्टोऽसि राजेन्द्र तथा भवितुमर्हसि ||२३|| विनीतक्रोधहर्षा हि मन्दा वनमुपाश्रिताः | विना वधं न कुर्वन्ति तापसाः प्राणयापनम् ||२४|| उदके बहवः प्राणाः पृथिव्यां च फलेषु च | न च कश्चिन्न तान्हन्ति किमन्यत्प्राणयापनात् ||२५|| सूक्ष्मयोनीनि भूतानि तर्कगम्यानि कानिचित् | पक्ष्मणोऽपि निपातेन येषां स्यात्स्कन्धपर्ययः ||२६|| ग्रामान्निष्क्रम्य मुनयो विगतक्रोधमत्सराः | वने कुटुम्बधर्माणो दृश्यन्ते परिमोहिताः ||२७|| भूमिं भित्त्वौषधीश्छित्त्वा वृक्षादीनण्डजान्पशून् | मनुष्यास्तन्वते यज्ञांस्ते स्वर्गं प्राप्नुवन्ति च ||२८|| दण्डनीत्यां प्रणीतायां सर्वे सिध्यन्त्युपक्रमाः | कौन्तेय सर्वभूतानां तत्र मे नास्ति संशयः ||२९|| दण्डश्चेन्न भवेल्लोके व्यनशिष्यन्निमाः प्रजाः | शूले मत्स्यानिवापक्ष्यन्दुर्बलान्बलवत्तराः ||३०|| सत्यं चेदं ब्रह्मणा पूर्वमुक्तं; दण्डः प्रजा रक्षति साधु नीतः | पश्याग्नयश्च प्रतिशाम्यन्त्यभीताः; सन्तर्जिता दण्डभयाज्ज्वलन्ति ||३१|| अन्धं तम इवेदं स्यान्न प्रज्ञायेत किञ्चन | दण्डश्चेन्न भवेल्लोके विभजन्साध्वसाधुनी ||३२|| येऽपि सम्भिन्नमर्यादा नास्तिका वेदनिन्दकाः | तेऽपि भोगाय कल्पन्ते दण्डेनोपनिपीडिताः ||३३|| सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः | दण्डस्य हि भयाद्भीतो भोगायेह प्रकल्पते ||३४|| चातुर्वर्ण्याप्रमोहाय सुनीतनयनाय च | दण्डो विधात्रा विहितो धर्मार्थावभिरक्षितुम् ||३५|| यदि दण्डान्न बिभ्येयुर्वयांसि श्वापदानि च | अद्युः पशून्मनुष्यांश्च यज्ञार्थानि हवींषि च ||३६|| न ब्रह्मचार्यधीयीत कल्याणी गौर्न दुह्यते | न कन्योद्वहनं गच्छेद्यदि दण्डो न पालयेत् ||३७|| विश्वलोपः प्रवर्तेत भिद्येरन्सर्वसेतवः | ममत्वं न प्रजानीयुर्यदि दण्डो न पालयेत् ||३८|| न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः | विधिवद्दक्षिणावन्ति यदि दण्डो न पालयेत् ||३९|| चरेयुर्नाश्रमे धर्मं यथोक्तं विधिमाश्रिताः | न विद्यां प्राप्नुयात्कश्चिद्यदि दण्डो न पालयेत् ||४०|| न चोष्ट्रा न बलीवर्दा नाश्वाश्वतरगर्दभाः | युक्ता वहेयुर्यानानि यदि दण्डो न पालयेत् ||४१|| न प्रेष्या वचनं कुर्युर्न बालो जातु कर्हिचित् | तिष्ठेत्पितृमते धर्मे यदि दण्डो न पालयेत् ||४२|| दण्डे स्थिताः प्रजाः सर्वा भयं दण्डं विदुर्बुधाः | दण्डे स्वर्गो मनुष्याणां लोकोऽयं च प्रतिष्ठितः ||४३|| न तत्र कूटं पापं वा वञ्चना वापि दृष्यते | यत्र दण्डः सुविहितश्चरत्यरिविनाशनः ||४४|| हविः श्वा प्रपिबेद्धृष्टो दण्डश्चेन्नोद्यतो भवेत् | हरेत्काकः पुरोडाशं यदि दण्डो न पालयेत् ||४५|| यदिदं धर्मतो राज्यं विहितं यद्यधर्मतः | कार्यस्तत्र न शोको वै भुङ्क्ष्व भोगान्यजस्व च ||४६|| सुखेन धर्मं श्रीमन्तश्चरन्ति शुचिवाससः | संवसन्तः प्रियैर्दारैर्भुञ्जानाश्चान्नमुत्तमम् ||४७|| अर्थे सर्वे समारम्भाः समायत्ता न संशयः | स च दण्डे समायत्तः पश्य दण्डस्य गौरवम् ||४८|| लोकयात्रार्थमेवेह धर्मप्रवचनं कृतम् | अहिंसा साधुहिंसेति श्रेयान्धर्मपरिग्रहः ||४९|| नात्यन्तगुणवान्कश्चिन्न चाप्यत्यन्तनिर्गुणः | उभयं सर्वकार्येषु दृश्यते साध्वसाधु च ||५०|| पशूनां वृषणं छित्त्वा ततो भिन्दन्ति नस्तकान् | कृषन्ति बहवो भारान्बध्नन्ति दमयन्ति च ||५१|| एवं पर्याकुले लोके विपथे जर्जरीकृते | तैस्तैर्न्यायैर्महाराज पुराणं धर्ममाचर ||५२|| यज देहि प्रजा रक्ष धर्मं समनुपालय | अमित्राञ्जहि कौन्तेय मित्राणि परिपालय ||५३|| मा च ते निघ्नतः शत्रून्मन्युर्भवतु भारत | न तत्र किल्बिषं किञ्चित्कर्तुर्भवति भारत ||५४|| आततायी हि यो हन्यादाततायिनमागतम् | न तेन भ्रूणहा स स्यान्मन्युस्तं मन्युमृच्छति ||५५|| अवध्यः सर्वभूतानामन्तरात्मा न संशयः | अवध्ये चात्मनि कथं वध्यो भवति केनचित् ||५६|| यथा हि पुरुषः शालां पुनः सम्प्रविशेन्नवाम् | एवं जीवः शरीराणि तानि तानि प्रपद्यते ||५७|| देहान्पुराणानुत्सृज्य नवान्सम्प्रतिपद्यते | एवं मृत्युमुखं प्राहुर्ये जनास्तत्त्वदर्शिनः ||५८|| १६ वैशम्पायन उवाच|| अर्जुनस्य वचः श्रुत्वा भीमसेनोऽत्यमर्षणः | धैर्यमास्थाय तेजस्वी ज्येष्ठं भ्रातरमब्रवीत् ||१|| राजन्विदितधर्मोऽसि न तेऽस्त्यविदितं भुवि | उपशिक्षाम ते वृत्तं सदैव न च शक्नुमः ||२|| न वक्ष्यामि न वक्ष्यामीत्येवं मे मनसि स्थितम् | अतिदुःखात्तु वक्ष्यामि तन्निबोध जनाधिप ||३|| भवतस्तु प्रमोहेन सर्वं संशयितं कृतम् | विक्लवत्वं च नः प्राप्तमबलत्वं तथैव च ||४|| कथं हि राजा लोकस्य सर्वशास्त्रविशारदः | मोहमापद्यते दैन्याद्यथा कुपुरुषस्तथा ||५|| आगतिश्च गतिश्चैव लोकस्य विदिता तव | आयत्यां च तदात्वे च न तेऽस्त्यविदितं प्रभो ||६|| एवं गते महाराज राज्यं प्रति जनाधिप | हेतुमत्र प्रवक्ष्यामि तदिहैकमनाः शृणु ||७|| द्विविधो जायते व्याधिः शारीरो मानसस्तथा | परस्परं तयोर्जन्म निर्द्वंद्वं नोपलभ्यते ||८|| शारीराज्जायते व्याधिर्मानसो नात्र संशयः | मानसाज्जायते व्याधिः शारीर इति निश्चयः ||९|| शारीरमानसे दुःखे योऽतीते अनुशोचति | दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते ||१०|| शीतोष्णे चैव वायुश्च त्रयः शारीरजा गुणाः | तेषां गुणानां साम्यं च तदाहुः स्वस्थलक्षणम् ||११|| तेषामन्यतमोत्सेके विधानमुपदिष्यते | उष्णेन बाध्यते शीतं शीतेनोष्णं प्रबाध्यते ||१२|| सत्त्वं रजस्तमश्चैव मानसाः स्युस्त्रयो गुणाः | हर्षेण बाध्यते शोको हर्षः शोकेन बाध्यते ||१३|| कश्चित्सुखे वर्तमानो दुःखस्य स्मर्तुमिच्छति | कश्चिद्दुःखे वर्तमानः सुखस्य स्मर्तुमिच्छति ||१४|| स त्वं न दुःखी दुःखस्य न सुखी च सुखस्य च | न दुःखी सुखजातस्य न सुखी दुःखजस्य वा ||१५|| स्मर्तुमर्हसि कौरव्य दिष्टं तु बलवत्तरम् | अथ वा ते स्वभावोऽयं येन पार्थिव कृष्यसे ||१६|| दृष्ट्वा सभागतां कृष्णामेकवस्त्रां रजस्वलाम् | मिषतां पाण्डुपुत्राणां न तस्य स्मर्तुमर्हसि ||१७|| प्रव्राजनं च नगरादजिनैश्च निवासनम् | महारण्यनिवासश्च न तस्य स्मर्तुमर्हसि ||१८|| जटासुरात्परिक्लेशं चित्रसेनेन चाहवम् | सैन्धवाच्च परिक्लेशं कथं विस्मृतवानसि ||१९|| पुनरज्ञातचर्यायां कीचकेन पदा वधम् ||१९|| यच्च ते द्रोणभीष्माभ्यां युद्धमासीदरिंदम | मनसैकेन ते युद्धमिदं घोरमुपस्थितम् ||२०|| यत्र नास्ति शरैः कार्यं न मित्रैर्न च बन्धुभिः | आत्मनैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् ||२१|| तस्मिन्ननिर्जिते युद्धे प्राणान्यदि ह मोक्ष्यसे | अन्यं देहं समास्थाय पुनस्तेनैव योत्स्यसे ||२२|| तस्मादद्यैव गन्तव्यं युद्धस्य भरतर्षभ | एतज्जित्वा महाराज कृतकृत्यो भविष्यसि ||२३|| एतां बुद्धिं विनिश्चित्य भूतानामागतिं गतिम् | पितृपैतामहे वृत्ते शाधि राज्यं यथोचितम् ||२४|| दिष्ट्या दुर्योधनः पापो निहतः सानुगो युधि | द्रौपद्याः केशपक्षस्य दिष्ट्या त्वं पदवीं गतः ||२५|| यजस्व वाजिमेधेन विधिवद्दक्षिणावता | वयं ते किङ्कराः पार्थ वासुदेवश्च वीर्यवान् ||२६|| १७ युधिष्ठिर उवाच|| असन्तोषः प्रमादश्च मदो रागोऽप्रशान्तता | बलं मोहोऽभिमानश्च उद्वेगश्चापि सर्वशः ||१|| एभिः पाप्मभिराविष्टो राज्यं त्वमभिकाङ्क्षसि | निरामिषो विनिर्मुक्तः प्रशान्तः सुसुखी भव ||२|| य इमामखिलां भूमिं शिष्यादेको महीपतिः | तस्याप्युदरमेवैकं किमिदं त्वं प्रशंससि ||३|| नाह्ना पूरयितुं शक्या न मासेन नरर्षभ | अपूर्यां पूरयन्निच्छामायुषापि न शक्नुयात् ||४|| यथेद्धः प्रज्वलत्यग्निरसमिद्धः प्रशाम्यति | अल्पाहारतया त्वग्निं शमयौदर्यमुत्थितम् ||५|| जयोदरं पृथिव्या ते श्रेयो निर्जितया जितम् ||५|| मानुषान्कामभोगांस्त्वमैश्वर्यं च प्रशंससि | अभोगिनोऽबलाश्चैव यान्ति स्थानमनुत्तमम् ||६|| योगक्षेमौ च राष्ट्रस्य धर्माधर्मौ त्वयि स्थितौ | मुच्यस्व महतो भारात्त्यागमेवाभिसंश्रय ||७|| एकोदरकृते व्याघ्रः करोति विघसं बहु | तमन्येऽप्युपजीवन्ति मन्दवेगञ्चरा मृगाः ||८|| विषयान्प्रतिसंहृत्य संन्यासं कुरुते यतिः | न च तुष्यन्ति राजानः पश्य बुद्ध्यन्तरं यथा ||९|| पत्राहारैरश्मकुट्टैर्दन्तोलूखलिकैस्तथा | अब्भक्षैर्वायुभक्षैश्च तैरयं नरको जितः ||१०|| यश्चेमां वसुधां कृत्स्नां प्रशासेदखिलां नृपः | तुल्याश्मकाञ्चनो यश्च स कृतार्थो न पार्थिवः ||११|| सङ्कल्पेषु निरारम्भो निराशो निर्ममो भव | विशोकं स्थानमातिष्ठ इह चामुत्र चाव्ययम् ||१२|| निरामिषा न शोचन्ति शोचसि त्वं किमामिषम् | परित्यज्यामिषं सर्वं मृषावादात्प्रमोक्ष्यसे ||१३|| पन्थानौ पितृयानश्च देवयानश्च विश्रुतौ | ईजानाः पितृयानेन देवयानेन मोक्षिणः ||१४|| तपसा ब्रह्मचर्येण स्वाध्यायेन च पाविताः | विमुच्य देहान्वै भान्ति मृत्योरविषयं गताः ||१५|| आमिषं बन्धनं लोके कर्मेहोक्तं तथामिषम् | ताभ्यां विमुक्तः पाशाभ्यां पदमाप्नोति तत्परम् ||१६|| अपि गाथामिमां गीतां जनकेन वदन्त्युत | निर्द्वंद्वेन विमुक्तेन मोक्षं समनुपश्यता ||१७|| अनन्तं बत मे वित्तं यस्य मे नास्ति किञ्चन | मिथिलायां प्रदीप्तायां न मे दह्यति किञ्चन ||१८|| प्रज्ञाप्रासादमारुह्य नशोच्याञ्शोचतो जनान् | जगतीस्थानिवाद्रिस्थो मन्दबुद्धीनवेक्षते ||१९|| दृश्यं पश्यति यः पश्यन्स चक्षुष्मान्स बुद्धिमान् | अज्ञातानां च विज्ञानात्सम्बोधाद्बुद्धिरुच्यते ||२०|| यस्तु वाचं विजानाति बहुमानमियात्स वै | ब्रह्मभावप्रसूतानां वैद्यानां भावितात्मनाम् ||२१|| यदा भूतपृथग्भावमेकस्थमनुपश्यति | तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ||२२|| ते जनास्तां गतिं यान्ति नाविद्वांसोऽल्पचेतसः | नाबुद्धयो नातपसः सर्वं बुद्धौ प्रतिष्ठितम् ||२३|| जनकोपाख्यानम् १८ वैशम्पायन उवाच|| तूष्णीम्भूतं तु राजानं पुनरेवार्जुनोऽब्रवीत् | सन्तप्तः शोकदुःखाभ्यां राज्ञो वाक्षल्यपीडितः ||१|| कथयन्ति पुरावृत्तमितिहासमिमं जनाः | विदेहराज्ञः संवादं भार्यया सह भारत ||२|| उत्सृज्य राज्यं भैक्षार्थं कृतबुद्धिं जनेश्वरम् | विदेहराजं महिषी दुःखिता प्रत्यभाषत ||३|| धनान्यपत्यं मित्राणि रत्नानि विविधानि च | पन्थानं पावनं हित्वा जनको मौण्ड्यमास्थितः ||४|| तं ददर्श प्रिया भार्या भैक्ष्यवृत्तिमकिञ्चनम् | धानामुष्टिमुपासीनं निरीहं गतमत्सरम् ||५|| तमुवाच समागम्य भर्तारमकुतोभयम् | क्रुद्धा मनस्विनी भार्या विविक्ते हेतुमद्वचः ||६|| कथमुत्सृज्य राज्यं स्वं धनधान्यसमाचितम् | कापालीं वृत्तिमास्थाय धानामुष्टिर्वनेऽचरः ||७|| प्रतिज्ञा तेऽन्यथा राजन्विचेष्टा चान्यथा तव | यद्राज्यं महदुत्सृज्य स्वल्पे तुष्यसि पार्थिव ||८|| नैतेनातिथयो राजन्देवर्षिपितरस्तथा | शक्यमद्य त्वया भर्तुं मोघस्तेऽयं परिश्रमः ||९|| देवतातिथिभिश्चैव पितृभिश्चैव पार्थिव | सर्वैरेतैः परित्यक्तः परिव्रजसि निष्क्रियः ||१०|| यस्त्वं त्रैविद्यवृद्धानां ब्राह्मणानां सहस्रशः | भर्ता भूत्वा च लोकस्य सोऽद्यान्यैर्भृतिमिच्छसि ||११|| श्रियं हित्वा प्रदीप्तां त्वं श्ववत्सम्प्रति वीक्ष्यसे | अपुत्रा जननी तेऽद्य कौसल्या चापतिस्त्वया ||१२|| अशीतिर्धर्मकामास्त्वां क्षत्रियाः पर्युपासते | त्वदाशामभिकाङ्क्षन्त्यः कृपणाः फलहेतुकाः ||१३|| ताश्च त्वं विफलाः कुर्वन्काँल्लोकान्नु गमिष्यसि | राजन्संशयिते मोक्षे परतन्त्रेषु देहिषु ||१४|| नैव तेऽस्ति परो लोको नापरः पापकर्मणः | धर्म्यान्दारान्परित्यज्य यस्त्वमिच्छसि जीवितुम् ||१५|| स्रजो गन्धानलङ्कारान्वासांसि विविधानि च | किमर्थमभिसन्त्यज्य परिव्रजसि निष्क्रियः ||१६|| निपानं सर्वभूतानां भूत्वा त्वं पावनं महत् | आढ्यो वनस्पतिर्भूत्वा सोऽद्यान्यान्पर्युपाससे ||१७|| खादन्ति हस्तिनं न्यासे क्रव्यादा बहवोऽप्युत | बहवः कृमयश्चैव किं पुनस्त्वामनर्थकम् ||१८|| य इमां कुण्डिकां भिन्द्यात्त्रिविष्टब्धं च ते हरेत् | वासश्चापहरेत्तस्मिन्कथं ते मानसं भवेत् ||१९|| यस्त्वयं सर्वमुत्सृज्य धानामुष्टिपरिग्रहः | यदानेन समं सर्वं किमिदं मम दीयते ||२०|| धानामुष्टिरिहार्थश्चेत्प्रतिज्ञा ते विनश्यति ||२०|| का वाहं तव को मे त्वं कोऽद्य ते मय्यनुग्रहः | प्रशाधि पृथिवीं राजन्यत्र तेऽनुग्रहो भवेत् ||२१|| प्रासादं शयनं यानं वासांस्याभरणानि च ||२१|| श्रिया निराशैरधनैस्त्यक्तमित्रैरकिञ्चनैः | सौखिकैः सम्भृतानर्थान्यः सन्त्यजसि किं नु तत् ||२२|| योऽत्यन्तं प्रतिगृह्णीयाद्यश्च दद्यात्सदैव हि | तयोस्त्वमन्तरं विद्धि श्रेयांस्ताभ्यां क उच्यते ||२३|| सदैव याचमानेषु सत्सु दम्भविवर्जिषु | एतेषु दक्षिणा दत्ता दावाग्नाविव दुर्हुतम् ||२४|| जातवेदा यथा राजन्नादग्ध्वैवोपशाम्यति | सदैव याचमानो वै तथा शाम्यति न द्विजः ||२५|| सतां च वेदा अन्नं च लोकेऽस्मिन्प्रकृतिर्ध्रुवा | न चेद्दाता भवेद्दाता कुतः स्युर्मोक्षकाङ्क्षिणः ||२६|| अन्नाद्गृहस्था लोकेऽस्मिन्भिक्षवस्तत एव च | अन्नात्प्राणः प्रभवति अन्नदः प्राणदो भवेत् ||२७|| गृहस्थेभ्योऽभिनिर्वृत्ता गृहस्थानेव संश्रिताः | प्रभवं च प्रतिष्ठां च दान्ता निन्दन्त आसते ||२८|| त्यागान्न भिक्षुकं विद्यान्न मौण्ड्यान्न च याचनात् | ऋजुस्तु योऽर्थं त्यजति तं सुखं विद्धि भिक्षुकम् ||२९|| असक्तः सक्तवद्गच्छन्निःसङ्गो मुक्तबन्धनः | समः शत्रौ च मित्रे च स वै मुक्तो महीपते ||३०|| परिव्रजन्ति दानार्थं मुण्डाः काषायवाससः | सिता बहुविधैः पाशैः सञ्चिन्वन्तो वृथामिषम् ||३१|| त्रयीं च नाम वार्तां च त्यक्त्वा पुत्रांस्त्यजन्ति ये | त्रिविष्टब्धं च वासश्च प्रतिगृह्णन्त्यबुद्धयः ||३२|| अनिष्कषाये काषायमीहार्थमिति विद्धि तत् | धर्मध्वजानां मुण्डानां वृत्त्यर्थमिति मे मतिः ||३३|| काषायैरजिनैश्चीरैर्नग्नान्मुण्डाञ्जटाधरान् | बिभ्रत्साधून्महाराज जय लोकाञ्जितेन्द्रियः ||३४|| अग्न्याधेयानि गुर्वर्थान्क्रतून्सपशुदक्षिणान् | ददात्यहरहः पूर्वं को नु धर्मतरस्ततः ||३५|| तत्त्वज्ञो जनको राजा लोकेऽस्मिन्निति गीयते | सोऽप्यासीन्मोहसम्पन्नो मा मोहवशमन्वगाः ||३६|| एवं धर्ममनुक्रान्तं सदा दानपरैर्नरैः | आनृशंस्यगुणोपेतैः कामक्रोधविवर्जिताः ||३७|| पालयन्तः प्रजाश्चैव दानमुत्तममास्थिताः | इष्टाँल्लोकानवाप्स्यामो ब्रह्मण्याः सत्यवादिनः ||३८|| १९ युधिष्ठिर उवाच|| वेदाहं तात शास्त्राणि अपराणि पराणि च | उभयं वेदवचनं कुरु कर्म त्यजेति च ||१|| आकुलानि च शास्त्राणि हेतुभिश्चित्रितानि च | निश्चयश्चैव यन्मात्रो वेदाहं तं यथाविधि ||२|| त्वं तु केवलमस्त्रज्ञो वीरव्रतमनुष्ठितः | शास्त्रार्थं तत्त्वतो गन्तुं न समर्थः कथञ्चन ||३|| शास्त्रार्थसूक्ष्मदर्शी यो धर्मनिश्चयकोविदः | तेनाप्येवं न वाच्योऽहं यदि धर्मं प्रपश्यसि ||४|| भ्रातृसौहृदमास्थाय यदुक्तं वचनं त्वया | न्याय्यं युक्तं च कौन्तेय प्रीतोऽहं तेन तेऽर्जुन ||५|| युद्धधर्मेषु सर्वेषु क्रियाणां नैपुणेषु च | न त्वया सदृशः कश्चित्त्रिषु लोकेषु विद्यते ||६|| धर्मसूक्ष्मं तु यद्वाक्यं तत्र दुष्प्रतरं त्वया | धनञ्जय न मे बुद्धिमभिशङ्कितुमर्हसि ||७|| युद्धशास्त्रविदेव त्वं न वृद्धाः सेवितास्त्वया | समासविस्तरविदां न तेषां वेत्सि निश्चयम् ||८|| तपस्त्यागो विधिरिति निश्चयस्तात धीमताम् | परं परं ज्याय एषां सैषा नैःश्रेयसी गतिः ||९|| न त्वेतन्मन्यसे पार्थ न ज्यायोऽस्ति धनादिति | अत्र ते वर्तयिष्यामि यथा नैतत्प्रधानतः ||१०|| तपःस्वाध्यायशीला हि दृश्यन्ते धार्मिका जनाः | ऋषयस्तपसा युक्ता येषां लोकाः सनातनाः ||११|| अजातश्मश्रवो धीरास्तथान्ये वनवासिनः | अनन्ता अधना एव स्वाध्यायेन दिवं गताः ||१२|| उत्तरेण तु पन्थानमार्या विषयनिग्रहात् | अबुद्धिजं तमस्त्यक्त्वा लोकांस्त्यागवतां गताः ||१३|| दक्षिणेन तु पन्थानं यं भास्वन्तं प्रपश्यसि | एते क्रियावतां लोका ये श्मशानानि भेजिरे ||१४|| अनिर्देश्या गतिः सा तु यां प्रपश्यन्ति मोक्षिणः | तस्मात्त्यागः प्रधानेष्टः स तु दुःखः प्रवेदितुम् ||१५|| अनुसृत्य तु शास्त्राणि कवयः समवस्थिताः | अपीह स्यादपीह स्यात्सारासारदिदृक्षया ||१६|| वेदवादानतिक्रम्य शास्त्राण्यारण्यकानि च | विपाट्य कदलीस्कन्धं सारं ददृशिरे न ते ||१७|| अथैकान्तव्युदासेन शरीरे पञ्चभौतिके | इच्छाद्वेषसमायुक्तमात्मानं प्राहुरिङ्गितैः ||१८|| अग्राह्यश्चक्षुषा सोऽपि अनिर्देश्यं च तद्गिरा | कर्महेतुपुरस्कारं भूतेषु परिवर्तते ||१९|| कल्याणगोचरं कृत्वा मनस्तृष्णां निगृह्य च | कर्मसन्ततिमुत्सृज्य स्यान्निरालम्बनः सुखी ||२०|| अस्मिन्नेवं सूक्ष्मगम्ये मार्गे सद्भिर्निषेविते | कथमर्थमनर्थाढ्यमर्जुन त्वं प्रशंससि ||२१|| पूर्वशास्त्रविदो ह्येवं जनाः पश्यन्ति भारत | क्रियासु निरता नित्यं दाने यज्ञे च कर्मणि ||२२|| भवन्ति सुदुरावर्ता हेतुमन्तोऽपि पण्डिताः | दृढपूर्वश्रुता मूढा नैतदस्तीति वादिनः ||२३|| अमृतस्यावमन्तारो वक्तारो जनसंसदि | चरन्ति वसुधां कृत्स्नां वावदूका बहुश्रुताः ||२४|| यान्वयं नाभिजानीमः कस्ताञ्ज्ञातुमिहार्हति | एवं प्राज्ञान्सतश्चापि महतः शास्त्रवित्तमान् ||२५|| तपसा महदाप्नोति बुद्ध्या वै विन्दते महत् | त्यागेन सुखमाप्नोति सदा कौन्तेय धर्मवित् ||२६|| देवस्थानवाक्यम् २० वैशम्पायन उवाच|| तस्मिन्वाक्यान्तरे वक्ता देवस्थानो महातपाः | अभिनीततरं वाक्यमित्युवाच युधिष्ठिरम् ||१|| यद्वचः फल्गुनेनोक्तं न ज्यायोऽस्ति धनादिति | अत्र ते वर्तयिष्यामि तदेकाग्रमनाः शृणु ||२|| अजातशत्रो धर्मेण कृत्स्ना ते वसुधा जिता | तां जित्वा न वृथा राजंस्त्वं परित्यक्तुमर्हसि ||३|| चतुष्पदी हि निःश्रेणी कर्मण्येषा प्रतिष्ठिता | तां क्रमेण महाबाहो यथावज्जय पार्थिव ||४|| तस्मात्पार्थ महायज्ञैर्यजस्व बहुदक्षिणैः | स्वाध्याययज्ञा ऋषयो ज्ञानयज्ञास्तथापरे ||५|| कर्मनिष्ठांस्तु बुध्येथास्तपोनिष्ठांश्च भारत | वैखानसानां राजेन्द्र वचनं श्रूयते यथा ||६|| ईहते धनहेतोर्यस्तस्यानीहा गरीयसी | भूयान्दोषः प्रवर्धेत यस्तं धनमपाश्रयेत् ||७|| कृच्छ्राच्च द्रव्यसंहारं कुर्वन्ति धनकारणात् | धनेन तृषितोऽबुद्ध्या भ्रूणहत्यां न बुध्यते ||८|| अनर्हते यद्ददाति न ददाति यदर्हते | अनर्हार्हापरिज्ञानाद्दानधर्मोऽपि दुष्करः ||९|| यज्ञाय सृष्टानि धनानि धात्रा; यष्टादिष्टः पुरुषो रक्षिता च | तस्मात्सर्वं यज्ञ एवोपयोज्यं; धनं ततोऽनन्तर एव कामः ||१०|| यज्ञैरिन्द्रो विविधैरन्नवद्भि; र्देवान्सर्वानभ्ययान्महौजाः | तेनेन्द्रत्वं प्राप्य विभ्राजतेऽसौ; तस्माद्यज्ञे सर्वमेवोपयोज्यम् ||११|| महादेवः सर्वमेधे महात्मा; हुत्वात्मानं देवदेवो विभूतः | विश्वाँल्लोकान्व्याप्य विष्टभ्य कीर्त्या; विरोचते द्युतिमान्कृत्तिवासाः ||१२|| आविक्षितः पार्थिवो वै मरुत्तः; स्वृद्ध्या मर्त्यो योऽजयद्देवराजम् | यज्ञे यस्य श्रीः स्वयं संनिविष्टा; यस्मिन्भाण्डं काञ्चनं सर्वमासीत् ||१३|| हरिश्चन्द्रः पार्थिवेन्द्रः श्रुतस्ते; यज्ञैरिष्ट्वा पुण्यकृद्वीतशोकः | ऋद्ध्या शक्रं योऽजयन्मानुषः सं; स्तस्माद्यज्ञे सर्वमेवोपयोज्यम् ||१४|| २१ देवस्थान उवाच|| अत्रैवोदाहरन्तीममितिहासं पुरातनम् | इन्द्रेण समये पृष्टो यदुवाच बृहस्पतिः ||१|| सन्तोषो वै स्वर्गतमः सन्तोषः परमं सुखम् | तुष्टेर्न किञ्चित्परतः सुसम्यक्परितिष्ठति ||२|| यदा संहरते कामान्कूर्मोऽङ्गानीव सर्वशः | तदात्मज्योतिरात्मैव स्वात्मनैव प्रसीदति ||३|| न बिभेति यदा चायं यदा चास्मान्न बिभ्यति | कामद्वेषौ च जयति तदात्मानं प्रपश्यति ||४|| यदासौ सर्वभूतानां न क्रुध्यति न दुष्यति | कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ||५|| एवं कौन्तेय भूतानि तं तं धर्मं तथा तथा | तदा तदा प्रपश्यन्ति तस्माद्बुध्यस्व भारत ||६|| अन्ये शमं प्रशंसन्ति व्यायाममपरे तथा | नैकं न चापरं केचिदुभयं च तथापरे ||७|| यज्ञमेके प्रशंसन्ति संन्यासमपरे जनाः | दानमेके प्रशंसन्ति केचिदेव प्रतिग्रहम् ||८|| केचित्सर्वं परित्यज्य तूष्णीं ध्यायन्त आसते ||८|| राज्यमेके प्रशंसन्ति सर्वेषां परिपालनम् | हत्वा भित्त्वा च छित्त्वा च केचिदेकान्तशीलिनः ||९|| एतत्सर्वं समालोक्य बुधानामेष निश्चयः | अद्रोहेणैव भूतानां यो धर्मः स सतां मतः ||१०|| अद्रोहः सत्यवचनं संविभागो धृतिः क्षमा | प्रजनः स्वेषु दारेषु मार्दवं ह्रीरचापलम् ||११|| धनं धर्मप्रधानेष्टं मनुः स्वायम्भुवोऽब्रवीत् | तस्मादेवं प्रयत्नेन कौन्तेय परिपालय ||१२|| यो हि राज्ये स्थितः शश्वद्वशी तुल्यप्रियाप्रियः | क्षत्रियो यज्ञशिष्टाशी राजशास्त्रार्थतत्त्ववित् ||१३|| असाधुनिग्रहरतः साधूनां प्रग्रहे रतः | धर्मे वर्त्मनि संस्थाप्य प्रजा वर्तेत धर्मवित् ||१४|| पुत्रसङ्क्रामितश्रीस्तु वने वन्येन वर्तयन् | विधिना श्रामणेनैव कुर्यात्कालमतन्द्रितः ||१५|| य एवं वर्तते राजा राजधर्मविनिश्चितः | तस्यायं च परश्चैव लोकः स्यात्सफलो नृप ||१६|| निर्वाणं तु सुदुष्पारं बहुविघ्नं च मे मतम् ||१६|| एवं धर्ममनुक्रान्ताः सत्यदानतपःपराः | आनृशंस्यगुणैर्युक्ताः कामक्रोधविवर्जिताः ||१७|| प्रजानां पालने युक्ता दममुत्तममास्थिताः | गोब्राह्मणार्थं युद्धेन सम्प्राप्ता गतिमुत्तमाम् ||१८|| एवं रुद्राः सवसवस्तथादित्याः परन्तप | साध्या राजर्षिसङ्घाश्च धर्ममेतं समाश्रिताः ||१९|| अप्रमत्तास्ततः स्वर्गं प्राप्ताः पुण्यैः स्वकर्मभिः ||१९|| २२ वैशम्पायन उवाच|| तस्मिन्वाक्यान्तरे वाक्यं पुनरेवार्जुनोऽब्रवीत् | विषण्णमनसं ज्येष्ठमिदं भ्रातरमीश्वरम् ||१|| क्षत्रधर्मेण धर्मज्ञ प्राप्य राज्यमनुत्तमम् | जित्वा चारीन्नरश्रेष्ठ तप्यते किं भवान्भृशम् ||२|| क्षत्रियाणां महाराज सङ्ग्रामे निधनं स्मृतम् | विशिष्टं बहुभिर्यज्ञैः क्षत्रधर्ममनुस्मर ||३|| ब्राह्मणानां तपस्त्यागः प्रेत्यधर्मविधिः स्मृतः | क्षत्रियाणां च विहितं सङ्ग्रामे निधनं विभो ||४|| क्षत्रधर्मो महारौद्रः शस्त्रनित्य इति स्मृतः | वधश्च भरतश्रेष्ठ काले शस्त्रेण संयुगे ||५|| ब्राह्मणस्यापि चेद्राजन्क्षत्रधर्मेण तिष्ठतः | प्रशस्तं जीवितं लोके क्षत्रं हि ब्रह्मसंस्थितम् ||६|| न त्यागो न पुनर्याच्ञा न तपो मनुजेश्वर | क्षत्रियस्य विधीयन्ते न परस्वोपजीवनम् ||७|| स भवान्सर्वधर्मज्ञः सर्वात्मा भरतर्षभ | राजा मनीषी निपुणो लोके दृष्टपरावरः ||८|| त्यक्त्वा सन्तापजं शोकं दंशितो भव कर्मणि | क्षत्रियस्य विशेषेण हृदयं वज्रसंहतम् ||९|| जित्वारीन्क्षत्रधर्मेण प्राप्य राज्यमकण्टकम् | विजितात्मा मनुष्येन्द्र यज्ञदानपरो भव ||१०|| इन्द्रो वै ब्रह्मणः पुत्रः कर्मणा क्षत्रियोऽभवत् | ज्ञातीनां पापवृत्तीनां जघान नवतीर्नव ||११|| तच्चास्य कर्म पूज्यं हि प्रशस्यं च विशां पते | तेन चेन्द्रत्वमापेदे देवानामिति नः श्रुतम् ||१२|| स त्वं यज्ञैर्महाराज यजस्व बहुदक्षिणैः | यथैवेन्द्रो मनुष्येन्द्र चिराय विगतज्वरः ||१३|| मा त्वमेवङ्गते किञ्चित्क्षत्रियर्षभ शोचिथाः | गतास्ते क्षत्रधर्मेण शस्त्रपूताः परां गतिम् ||१४|| भवितव्यं तथा तच्च यद्वृत्तं भरतर्षभ | दिष्टं हि राजशार्दूल न शक्यमतिवर्तितुम् ||१५|| २३ वैशम्पायन उवाच|| एवमुक्तस्तु कौन्तेयो गुडाकेशेन भारत | नोवाच किञ्चित्कौरव्यस्ततो द्वैपायनोऽब्रवीत् ||१|| बीभत्सोर्वचनं सम्यक्सत्यमेतद्युधिष्ठिर | शास्त्रदृष्टः परो धर्मः स्मृतो गार्हस्थ्य आश्रमः ||२|| स्वधर्मं चर धर्मज्ञ यथाशास्त्रं यथाविधि | न हि गार्हस्थ्यमुत्सृज्य तवारण्यं विधीयते ||३|| गृहस्थं हि सदा देवाः पितर ऋषयस्तथा | भृत्याश्चैवोपजीवन्ति तान्भजस्व महीपते ||४|| वयांसि पशवश्चैव भूतानि च महीपते | गृहस्थैरेव धार्यन्ते तस्माज्ज्येष्ठाश्रमो गृही ||५|| सोऽयं चतुर्णामेतेषामाश्रमाणां दुराचरः | तं चराविमनाः पार्थ दुश्चरं दुर्बलेन्द्रियैः ||६|| वेदज्ञानं च ते कृत्स्नं तपश्च चरितं महत् | पितृपैतामहे राज्ये धुरमुद्वोढुमर्हसि ||७|| तपो यज्ञस्तथा विद्या भैक्षमिन्द्रियनिग्रहः | ध्यानमेकान्तशीलत्वं तुष्टिर्दानं च शक्तितः ||८|| ब्राह्मणानां महाराज चेष्टाः संसिद्धिकारिकाः | क्षत्रियाणां च वक्ष्यामि तवापि विदितं पुनः ||९|| यज्ञो विद्या समुत्थानमसन्तोषः श्रियं प्रति | दण्डधारणमत्युग्रं प्रजानां परिपालनम् ||१०|| वेदज्ञानं तथा कृत्स्नं तपः सुचरितं तथा | द्रविणोपार्जनं भूरि पात्रेषु प्रतिपादनम् ||११|| एतानि राज्ञां कर्माणि सुकृतानि विशां पते | इमं लोकममुं लोकं साधयन्तीति नः श्रुतम् ||१२|| तेषां ज्यायस्तु कौन्तेय दण्डधारणमुच्यते | बलं हि क्षत्रिये नित्यं बले दण्डः समाहितः ||१३|| एताश्चेष्टाः क्षत्रियाणां राजन्संसिद्धिकारिकाः | अपि गाथामिमां चापि बृहस्पतिरभाषत ||१४|| भूमिरेतौ निगिरति सर्पो बिलशयानिव | राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ||१५|| सुद्युम्नश्चापि राजर्षिः श्रूयते दण्डधारणात् | प्राप्तवान्परमां सिद्धिं दक्षः प्राचेतसो यथा ||१६|| शङ्खलिखितोपाख्यानम् २४ युधिष्ठिर उवाच|| भगवन्कर्मणा केन सुद्युम्नो वसुधाधिपः | संसिद्धिं परमां प्राप्तः श्रोतुमिच्छामि तं नृपम् ||१|| व्यास उवाच|| अत्राप्युदाहरन्तीममितिहासं पुरातनम् | शङ्खश्च लिखितश्चास्तां भ्रातरौ संयतव्रतौ ||२|| तयोरावसथावास्तां रमणीयौ पृथक्पृथक् | नित्यपुष्पफलैर्वृक्षैरुपेतौ बाहुदामनु ||३|| ततः कदाचिल्लिखितः शङ्खस्याश्रममागमत् | यदृच्छयापि शङ्खोऽथ निष्क्रान्तोऽभवदाश्रमात् ||४|| सोऽभिगम्याश्रमं भ्रातुः शङ्खस्य लिखितस्तदा | फलानि शातयामास सम्यक्परिणतान्युत ||५|| तान्युपादाय विस्रब्धो भक्षयामास स द्विजः | तस्मिंश्च भक्षयत्येव शङ्खोऽप्याश्रममागमत् ||६|| भक्षयन्तं तु तं दृष्ट्वा शङ्खो भ्रातरमब्रवीत् | कुतः फलान्यवाप्तानि हेतुना केन खादसि ||७|| सोऽब्रवीद्भ्रातरं ज्येष्ठमुपस्पृश्याभिवाद्य च | इत एव गृहीतानि मयेति प्रहसन्निव ||८|| तमब्रवीत्तदा शङ्खस्तीव्रकोपसमन्वितः | स्तेयं त्वया कृतमिदं फलान्याददता स्वयम् ||९|| गच्छ राजानमासाद्य स्वकर्म प्रथयस्व वै ||९|| अदत्तादानमेवेदं कृतं पार्थिवसत्तम | स्तेनं मां त्वं विदित्वा च स्वधर्ममनुपालय ||१०|| शीघ्रं धारय चौरस्य मम दण्डं नराधिप ||१०|| इत्युक्तस्तस्य वचनात्सुद्युम्नं वसुधाधिपम् | अभ्यगच्छन्महाबाहो लिखितः संशितव्रतः ||११|| सुद्युम्नस्त्वन्तपालेभ्यः श्रुत्वा लिखितमागतम् | अभ्यगच्छत्सहामात्यः पद्भ्यामेव नरेश्वरः ||१२|| तमब्रवीत्समागत्य स राजा ब्रह्मवित्तमम् | किमागमनमाचक्ष्व भगवन्कृतमेव तत् ||१३|| एवमुक्तः स विप्रर्षिः सुद्युम्नमिदमब्रवीत् | प्रतिश्रौषि करिष्येति श्रुत्वा तत्कर्तुमर्हसि ||१४|| अनिसृष्टानि गुरुणा फलानि पुरुषर्षभ | भक्षितानि मया राजंस्तत्र मां शाधि माचिरम् ||१५|| सुद्युम्न उवाच|| प्रमाणं चेन्मतो राजा भवतो दण्डधारणे | अनुज्ञायामपि तथा हेतुः स्याद्ब्राह्मणर्षभ ||१६|| स भवानभ्यनुज्ञातः शुचिकर्मा महाव्रतः | ब्रूहि कामानतोऽन्यांस्त्वं करिष्यामि हि ते वचः ||१७|| व्यास उवाच|| छन्द्यमानोऽपि ब्रह्मर्षिः पार्थिवेन महात्मना | नान्यं वै वरयामास तस्माद्दण्डादृते वरम् ||१८|| ततः स पृथिवीपालो लिखितस्य महात्मनः | करौ प्रच्छेदयामास धृतदण्डो जगाम सः ||१९|| स गत्वा भ्रातरं शङ्खमार्तरूपोऽब्रवीदिदम् | धृतदण्डस्य दुर्भुद्धेर्भगवन्क्षन्तुमर्हसि ||२०|| शङ्ख उवाच|| न कुप्ये तव धर्मज्ञ न च दूषयसे मम | धर्मस्तु ते व्यतिक्रान्तस्ततस्ते निष्कृतिः कृता ||२१|| स गत्वा बाहुदां शीघ्रं तर्पयस्व यथाविधि | देवान्पितॄनृषींश्चैव मा चाधर्मे मनः कृथाः ||२२|| व्यास उवाच|| तस्य तद्वचनं श्रुत्वा शङ्खस्य लिखितस्तदा | अवगाह्यापगां पुण्यामुदकार्थं प्रचक्रमे ||२३|| प्रादुरास्तां ततस्तस्य करौ जलजसंनिभौ | ततः स विस्मितो भ्रातुर्दर्शयामास तौ करौ ||२४|| ततस्तमब्रवीच्छङ्खस्तपसेदं कृतं मया | मा च तेऽत्र विशङ्का भूद्दैवमेव विधीयते ||२५|| लिखित उवाच|| किं नु नाहं त्वया पूतः पूर्वमेव महाद्युते | यस्य ते तपसो वीर्यमीदृशं द्विजसत्तम ||२६|| शङ्ख उवाच|| एवमेतन्मया कार्यं नाहं दण्डधरस्तव | स च पूतो नरपतिस्त्वं चापि पितृभिः सह ||२७|| व्यास उवाच|| स राजा पाण्डवश्रेष्ठ श्रेष्ठो वै तेन कर्मणा | प्राप्तवान्परमां सिद्धिं दक्षः प्राचेतसो यथा ||२८|| एष धर्मः क्षत्रियाणां प्रजानां परिपालनम् | उत्पथेऽस्मिन्महाराज मा च शोके मनः कृथाः ||२९|| भ्रातुरस्य हितं वाक्यं शृणु धर्मज्ञसत्तम | दण्ड एव हि राजेन्द्र क्षत्रधर्मो न मुण्डनम् ||३०|| हयग्रीवोपाख्यानम् २५ वैशम्पायन उवाच|| पुनरेव महर्षिस्तं कृष्णद्वैपायनोऽब्रवीत् | अजातशत्रुं कौन्तेयमिदं वचनमर्थवत् ||१|| अरण्ये वसतां तात भ्रातॄणां ते तपस्विनाम् | मनोरथा महाराज ये तत्रासन्युधिष्ठिर ||२|| तानिमे भरतश्रेष्ठ प्राप्नुवन्तु महारथाः | प्रशाधि पृथिवीं पार्थ ययातिरिव नाहुषः ||३|| अरण्ये दुःखवसतिरनुभूता तपस्विभिः | दुःखस्यान्ते नरव्याघ्राः सुखं त्वनुभवन्त्विमे ||४|| धर्ममर्थं च कामं च भ्रातृभिः सह भारत | अनुभूय ततः पश्चात्प्रस्थातासि विशां पते ||५|| अतिथीनां च पितॄणां देवतानां च भारत | आनृण्यं गच्छ कौन्तेय ततः स्वर्गं गमिष्यसि ||६|| सर्वमेधाश्वमेधाभ्यां यजस्व कुरुनन्दन | ततः पश्चान्महाराज गमिष्यसि परां गतिम् ||७|| भ्रातॄंश्च सर्वान्क्रतुभिः संयोज्य बहुदक्षिणैः | सम्प्राप्तः कीर्तिमतुलां पाण्डवेय भविष्यसि ||८|| विद्म ते पुरुषव्याघ्र वचनं कुरुनन्दन | शृणु मच्च यथा कुर्वन्धर्मान्न च्यवते नृपः ||९|| आददानस्य च धनं निग्रहं च युधिष्ठिर | समानं धर्मकुशलाः स्थापयन्ति नरेश्वर ||१०|| देशकालप्रतीक्षे यो दस्योर्दर्शयते नृपः | शास्त्रजां बुद्धिमास्थाय नैनसा स हि युज्यते ||११|| आदाय बलिषड्भागं यो राष्ट्रं नाभिरक्षति | प्रतिगृह्णाति तत्पापं चतुर्थांशेन पार्थिवः ||१२|| निबोध च यथातिष्ठन्धर्मान्न च्यवते नृपः | निग्रहाद्धर्मशास्त्राणामनुरुध्यन्नपेतभीः ||१३|| कामक्रोधावनादृत्य पितेव समदर्शनः ||१३|| दैवेनोपहते राजा कर्मकाले महाद्युते | प्रमादयति तत्कर्म न तत्राहुरतिक्रमम् ||१४|| तरसा बुद्धिपूर्वं वा निग्राह्या एव शत्रवः | पापैः सह न संदध्याद्राष्ट्रं पण्यं न कारयेत् ||१५|| शूराश्चार्याश्च सत्कार्या विद्वांसश्च युधिष्ठिर | गोमतो धनिनश्चैव परिपाल्या विशेषतः ||१६|| व्यवहारेषु धर्म्येषु नियोज्याश्च बहुश्रुताः | गुणयुक्तेऽपि नैकस्मिन्विश्वस्याच्च विचक्षणः ||१७|| अरक्षिता दुर्विनीतो मानी स्तब्धोऽभ्यसूयकः | एनसा युज्यते राजा दुर्दान्त इति चोच्यते ||१८|| येऽरक्ष्यमाणा हीयन्ते दैवेनोपहते नृपे | तस्करैश्चापि हन्यन्ते सर्वं तद्राजकिल्बिषम् ||१९|| सुमन्त्रिते सुनीते च विधिवच्चोपपादिते | पौरुषे कर्मणि कृते नास्त्यधर्मो युधिष्ठिर ||२०|| विपद्यन्ते समारम्भाः सिध्यन्त्यपि च दैवतः | कृते पुरुषकारे तु नैनः स्पृशति पार्थिवम् ||२१|| अत्र ते राजशार्दूल वर्तयिष्ये कथामिमाम् | यद्वृत्तं पूर्वराजर्षेर्हयग्रीवस्य पार्थिव ||२२|| शत्रून्हत्वा हतस्याजौ शूरस्याक्लिष्टकर्मणः | असहायस्य धीरस्य निर्जितस्य युधिष्ठिर ||२३|| यत्कर्म वै निग्रहे शात्रवाणां; योगश्चाग्र्यः पालने मानवानाम् | कृत्वा कर्म प्राप्य कीर्तिं सुयुद्धे; वाजिग्रीवो मोदते देवलोके ||२४|| सन्त्यक्तात्मा समरेष्वाततायी; शस्त्रैश्छिन्नो दस्युभिरर्द्यमानः | अश्वग्रीवः कर्मशीलो महात्मा; संसिद्धात्मा मोदते देवलोके ||२५|| धनुर्यूपो रशना ज्या शरः स्रु; क्स्रुवः खड्गो रुधिरं यत्र चाज्यम् | रथो वेदी कामगो युद्धमग्नि; श्चातुर्होत्रं चतुरो वाजिमुख्याः ||२६|| हुत्वा तस्मिन्यज्ञवह्नावथारी; न्पापान्मुक्तो राजसिंहस्तरस्वी | प्राणान्हुत्वा चावभृथे रणे स; वाजिग्रीवो मोदते देवलोके ||२७|| राष्ट्रं रक्षन्बुद्धिपूर्वं नयेन; सन्त्यक्तात्मा यज्ञशीलो महात्मा | सर्वाँल्लोकान्व्याप्य कीर्त्या मनस्वी; वाजिग्रीवो मोदते देवलोके ||२८|| दैवीं सिद्धिं मानुषीं दण्डनीतिं; योगन्यायैः पालयित्वा महीं च | तस्माद्राजा धर्मशीलो महात्मा; हयग्रीवो मोदते स्वर्गलोके ||२९|| विद्वांस्त्यागी श्रद्दधानः कृतज्ञ; स्त्यक्त्वा लोकं मानुषं कर्म कृत्वा | मेधाविनां विदुषां संमतानां; तनुत्यजां लोकमाक्रम्य राजा ||३०|| सम्यग्वेदान्प्राप्य शास्त्राण्यधीत्य; सम्यग्राष्ट्रं पालयित्वा महात्मा | चातुर्वर्ण्यं स्थापयित्वा स्वधर्मे; वाजिग्रीवो मोदते देवलोके ||३१|| जित्वा सङ्ग्रामान्पालयित्वा प्रजाश्च; सोमं पीत्वा तर्पयित्वा द्विजाग्र्यान् | युक्त्या दण्डं धारयित्वा प्रजानां; युद्धे क्षीणो मोदते देवलोके ||३२|| वृत्तं यस्य श्लाघनीयं मनुष्याः; सन्तो विद्वांसश्चार्हयन्त्यर्हणीयाः | स्वर्गं जित्वा वीरलोकांश्च गत्वा; सिद्धिं प्राप्तः पुण्यकीर्तिर्महात्मा ||३३|| सेनजिद् वाक्यम् २६ वैशम्पायन उवाच|| द्वैपायनवचः श्रुत्वा कुपिते च धनञ्जये | व्यासमामन्त्र्य कौन्तेयः प्रत्युवाच युधिष्ठिरः ||१|| न पार्थिवमिदं राज्यं न च भोगाः पृथग्विधाः | प्रीणयन्ति मनो मेऽद्य शोको मां नर्दयत्ययम् ||२|| श्रुत्वा च वीरहीनानामपुत्राणां च योषिताम् | परिदेवयमानानां शान्तिं नोपलभे मुने ||३|| इत्युक्तः प्रत्युवाचेदं व्यासो योगविदां वरः | युधिष्ठिरं महाप्राज्ञं धर्मज्ञो वेदपारगः ||४|| न कर्मणा लभ्यते चिन्तया वा; नाप्यस्य दाता पुरुषस्य कश्चित् | पर्याययोगाद्विहितं विधात्रा; कालेन सर्वं लभते मनुष्यः ||५|| न बुद्धिशास्त्राध्ययनेन शक्यं; प्राप्तुं विशेषैर्मनुजैरकाले | मूर्खोऽपि प्राप्नोति कदाचिदर्था; न्कालो हि कार्यं प्रति निर्विशेषः ||६|| नाभूतिकाले च फलं ददाति; शिल्पं न मन्त्राश्च तथौषधानि | तान्येव कालेन समाहितानि; सिध्यन्ति चेध्यन्ति च भूतिकाले ||७|| कालेन शीघ्राः प्रविवान्ति वाताः; कालेन वृष्टिर्जलदानुपैति | कालेन पद्मोत्पलवज्जलं च; कालेन पुष्यन्ति नगा वनेषु ||८|| कालेन कृष्णाश्च सिताश्च रात्र्यः; कालेन चन्द्रः परिपूर्णबिम्बः | नाकालतः पुष्पफलं नगानां; नाकालवेगाः सरितो वहन्ति ||९|| नाकालमत्ताः खगपन्नगाश्च; मृगद्विपाः शैलमहाग्रहाश्च | नाकालतः स्त्रीषु भवन्ति गर्भा; नायान्त्यकाले शिशिरोष्णवर्षाः ||१०|| नाकालतो म्रियते जायते वा; नाकालतो व्याहरते च बालः | नाकालतो यौवनमभ्युपैति; नाकालतो रोहति बीजमुप्तम् ||११|| नाकालतो भानुरुपैति योगं; नाकालतोऽस्तं गिरिमभ्युपैति | नाकालतो वर्धते हीयते च; चन्द्रः समुद्रश्च महोर्मिमाली ||१२|| अत्राप्युदाहरन्तीममितिहासं पुरातनम् | गीतं राज्ञा सेनजिता दुःखार्तेन युधिष्ठिर ||१३|| सर्वानेवैष पर्यायो मर्त्यान्स्पृशति दुस्तरः | कालेन परिपक्वा हि म्रियन्ते सर्वमानवाः ||१४|| घ्नन्ति चान्यान्नरा राजंस्तानप्यन्ये नरास्तथा | सञ्ज्ञैषा लौकिकी राजन्न हिनस्ति न हन्यते ||१५|| हन्तीति मन्यते कश्चिन्न हन्तीत्यपि चापरे | स्वभावतस्तु नियतौ भूतानां प्रभवाप्ययौ ||१६|| नष्टे धने वा दारे वा पुत्रे पितरि वा मृते | अहो कष्टमिति ध्यायञ्शोकस्यापचितिं चरेत् ||१७|| स किं शोचसि मूढः सञ्शोच्यः किमनुशोचसि | पश्य दुःखेषु दुःखानि भयेषु च भयान्यपि ||१८|| आत्मापि चायं न मम सर्वापि पृथिवी मम | यथा मम तथान्येषामिति पश्यन्न मुह्यति ||१९|| शोकस्थानसहस्राणि हर्षस्थानशतानि च | दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ||२०|| एवमेतानि कालेन प्रियद्वेष्याणि भागशः | जीवेषु परिवर्तन्ते दुःखानि च सुखानि च ||२१|| दुःखमेवास्ति न सुखं तस्मात्तदुपलभ्यते | तृष्णार्तिप्रभवं दुःखं दुःखार्तिप्रभवं सुखम् ||२२|| सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् | न नित्यं लभते दुःखं न नित्यं लभते सुखम् ||२३|| सुखमन्ते हि दुःखानां दुःखमन्ते सुखस्य च | तस्मादेतद्द्वयं जह्याद्य इच्छेच्छाश्वतं सुखम् ||२४|| यन्निमित्तं भवेच्छोकस्तापो वा दुःखमूर्छितः | आयासो वापि यन्मूलस्तदेकाङ्गमपि त्यजेत् ||२५|| सुखं वा यदि वा दुःखं प्रियं वा यदि वाप्रियम् | प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः ||२६|| ईषदप्यङ्ग दाराणां पुत्राणां वा चराप्रियम् | ततो ज्ञास्यसि कः कस्य केन वा कथमेव वा ||२७|| ये च मूढतमा लोके ये च बुद्धेः परं गताः | त एव सुखमेधन्ते मध्यः क्लेशेन युज्यते ||२८|| इत्यब्रवीन्महाप्राज्ञो युधिष्ठिर स सेनजित् | परावरज्ञो लोकस्य धर्मवित्सुखदुःखवित् ||२९|| सुखी परस्य यो दुःखे न जातु स सुखी भवेत् | दुःखानां हि क्षयो नास्ति जायते ह्यपरात्परम् ||३०|| सुखं च दुःखं च भवाभवौ च; लाभालाभौ मरणं जीवितं च | पर्यायशः सर्वमिह स्पृशन्ति; तस्माद्धीरो नैव हृष्येन्न कुप्येत् ||३१|| दीक्षां यज्ञे पालनं युद्धमाहु; र्योगं राष्ट्रे दण्डनीत्या च सम्यक् | वित्तत्यागं दक्षिणानां च यज्ञे; सम्यग्ज्ञानं पावनानीति विद्यात् ||३२|| रक्षन्राष्ट्रं बुद्धिपूर्वं नयेन; सन्त्यक्तात्मा यज्ञशीलो महात्मा | सर्वाँल्लोकान्धर्ममूर्त्या चरंश्चा; प्यूर्ध्वं देहान्मोदते देवलोके ||३३|| जित्वा सङ्ग्रामान्पालयित्वा च राष्ट्रं; सोमं पीत्वा वर्धयित्वा प्रजाश्च | युक्त्या दण्डं धारयित्वा प्रजानां; युद्धे क्षीणो मोदते देवलोके ||३४|| सम्यग्वेदान्प्राप्य शास्त्राण्यधीत्य; सम्यग्राष्ट्रं पालयित्वा च राजा | चातुर्वर्ण्यं स्थापयित्वा स्वधर्मे; पूतात्मा वै मोदते देवलोके ||३५|| यस्य वृत्तं नमस्यन्ति स्वर्गस्थस्यापि मानवाः | पौरजानपदामात्याः स राजा राजसत्तमः ||३६|| २७ युधिष्ठिर उवाच|| अभिमन्यौ हते बाले द्रौपद्यास्तनयेषु च | धृष्टद्युम्ने विराटे च द्रुपदे च महीपतौ ||१|| वसुषेणे च धर्मज्ञे धृष्टकेतौ च पार्थिवे | तथान्येषु नरेन्द्रेषु नानादेश्येषु संयुगे ||२|| न विमुञ्चति मां शोको ज्ञातिघातिनमातुरम् | राज्यकामुकमत्युग्रं स्ववंशोच्छेदकारकम् ||३|| यस्याङ्के क्रीडमानेन मया वै परिवर्तितम् | स मया राज्यलुब्धेन गाङ्गेयो विनिपातितः ||४|| यदा ह्येनं विघूर्णन्तमपश्यं पार्थसायकैः | कम्पमानं यथा वज्रैः प्रेक्षमाणं शिखण्डिनम् ||५|| जीर्णं सिंहमिव प्रांशुं नरसिंहं पितामहम् | कीर्यमाणं शरैस्तीक्ष्णैर्दृष्ट्वा मे व्यथितं मनः ||६|| प्राङ्मुखं सीदमानं च रथादपच्युतं शरैः | घूर्णमानं यथा शैलं तदा मे कश्मलोऽभवत् ||७|| यः स बाणधनुष्पाणिर्योधयामास भार्गवम् | बहून्यहानि कौरव्यः कुरुक्षेत्रे महामृधे ||८|| समेतं पार्थिवं क्षत्रं वाराणस्यां नदीसुतः | कन्यार्थमाह्वयद्वीरो रथेनैकेन संयुगे ||९|| येन चोग्रायुधो राजा चक्रवर्ती दुरासदः | दग्धः शस्त्रप्रतापेन स मया युधि घातितः ||१०|| स्वयं मृत्युं रक्षमाणः पाञ्चाल्यं यः शिखण्डिनम् | न बाणैः पातयामास सोऽर्जुनेन निपातितः ||११|| यदैनं पतितं भूमावपश्यं रुधिरोक्षितम् | तदैवाविशदत्युग्रो ज्वरो मे मुनिसत्तम ||१२|| येन संवर्धिता बाला येन स्म परिरक्षिताः ||१२|| स मया राज्यलुब्धेन पापेन गुरुघातिना | अल्पकालस्य राज्यस्य कृते मूढेन घातितः ||१३|| आचार्यश्च महेष्वासः सर्वपार्थिवपूजितः | अभिगम्य रणे मिथ्या पापेनोक्तः सुतं प्रति ||१४|| तन्मे दहति गात्राणि यन्मां गुरुरभाषत | सत्यवाक्यो हि राजंस्त्वं यदि जीवति मे सुतः ||१५|| सत्यं मा मर्शयन्विप्रो मयि तत्परिपृष्टवान् ||१५|| कुञ्जरं चान्तरं कृत्वा मिथ्योपचरितं मया | सुभृशं राज्यलुब्धेन पापेन गुरुघातिना ||१६|| सत्यकञ्चुकमास्थाय मयोक्तो गुरुराहवे | अश्वत्थामा हत इति कुञ्जरे विनिपातिते ||१७|| कान्नु लोकान्गमिष्यामि कृत्वा तत्कर्म दारुणम् ||१७|| अघातयं च यत्कर्णं समरेष्वपलायिनम् | ज्येष्ठं भ्रातरमत्युग्रं को मत्तः पापकृत्तमः ||१८|| अभिमन्युं च यद्बालं जातं सिंहमिवाद्रिषु | प्रावेशयमहं लुब्धो वाहिनीं द्रोणपालिताम् ||१९|| तदाप्रभृति बीभत्सुं न शक्नोमि निरीक्षितुम् | कृष्णं च पुण्डरीकाक्षं किल्बिषी भ्रूणहा यथा ||२०|| द्रौपदीं चाप्यदुःखार्हां पञ्चपुत्रविनाकृताम् | शोचामि पृथिवीं हीनां पञ्चभिः पर्वतैरिव ||२१|| सोऽहमागस्करः पापः पृथिवीनाशकारकः | आसीन एवमेवेदं शोषयिष्ये कलेवरम् ||२२|| प्रायोपविष्टं जानीध्वमद्य मां गुरुघातिनम् | जातिष्वन्यास्वपि यथा न भवेयं कुलान्तकृत् ||२३|| न भोक्ष्ये न च पानीयमुपयोक्ष्ये कथञ्चन | शोषयिष्ये प्रियान्प्राणानिहस्थोऽहं तपोधन ||२४|| यथेष्टं गम्यतां काममनुजाने प्रसाद्य वः | सर्वे मामनुजानीत त्यक्ष्यामीदं कलेवरम् ||२५|| वैशम्पायन उवाच|| तमेवंवादिनं पार्थं बन्धुशोकेन विह्वलम् | मैवमित्यब्रवीद्व्यासो निगृह्य मुनिसत्तमः ||२६|| अतिवेलं महाराज न शोकं कर्तुमर्हसि | पुनरुक्तं प्रवक्ष्यामि दिष्टमेतदिति प्रभो ||२७|| संयोगा विप्रयोगाश्च जातानां प्राणिनां ध्रुवम् | बुद्बुदा इव तोयेषु भवन्ति न भवन्ति च ||२८|| सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः | संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ||२९|| सुखं दुःखान्तमालस्यं दाक्ष्यं दुःखं सुखोदयम् | भूतिः श्रीर्ह्रीर्धृतिः सिद्धिर्नादक्षे निवसन्त्युत ||३०|| नालं सुखाय सुहृदो नालं दुःखाय दुर्हृदः | न च प्रज्ञालमर्थेभ्यो न सुखेभ्योऽप्यलं धनम् ||३१|| यथा सृष्टोऽसि कौन्तेय धात्रा कर्मसु तत्कुरु | अत एव हि सिद्धिस्ते नेशस्त्वमात्मना नृप ||३२|| अश्मजनकसंवादः २८ वैशम्पायन उवाच|| ज्ञातिशोकाभितप्तस्य प्राणानभ्युत्सिसृक्षतः | ज्येष्ठस्य पाण्डुपुत्रस्य व्यासः शोकमपानुदत् ||१|| व्यास उवाच|| अत्राप्युदाहरन्तीममितिहासं पुरातनम् | अश्मगीतं नरव्याघ्र तन्निबोध युधिष्ठिर ||२|| अश्मानं ब्राह्मणं प्राज्ञं वैदेहो जनको नृपः | संशयं परिपप्रच्छ दुःखशोकपरिप्लुतः ||३|| जनक उवाच|| आगमे यदि वापाये ज्ञातीनां द्रविणस्य च | नरेण प्रतिपत्तव्यं कल्याणं कथमिच्छता ||४|| अश्मोवाच|| उत्पन्नमिममात्मानं नरस्यानन्तरं ततः | तानि तान्यभिवर्तन्ते दुःखानि च सुखानि च ||५|| तेषामन्यतरापत्तौ यद्यदेवोपसेवते | तत्तद्धि चेतनामस्य हरत्यभ्रमिवानिलः ||६|| अभिजातोऽस्मि सिद्धोऽस्मि नास्मि केवलमानुषः | इत्येवं हेतुभिस्तस्य त्रिभिश्चित्तं प्रसिच्यति ||७|| स प्रसिक्तमना भोगान्विसृज्य पितृसञ्चितान् | परिक्षीणः परस्वानामादानं साधु मन्यते ||८|| तमतिक्रान्तमर्यादमाददानमसाम्प्रतम् | प्रतिषेधन्ति राजानो लुब्धा मृगमिवेषुभिः ||९|| ये च विंशतिवर्षा वा त्रिंशद्वर्षाश्च मानवाः | परेण ते वर्षशतान्न भविष्यन्ति पार्थिव ||१०|| तेषां परमदुःखानां बुद्ध्या भेषजमादिशेत् | सर्वप्राणभृतां वृत्तं प्रेक्षमाणस्ततस्ततः ||११|| मानसानां पुनर्योनिर्दुःखानां चित्तविभ्रमः | अनिष्टोपनिपातो वा तृतीयं नोपपद्यते ||१२|| एवमेतानि दुःखानि तानि तानीह मानवम् | विविधान्युपवर्तन्ते तथा सांस्पर्शकानि च ||१३|| जरामृत्यू ह भूतानि खादितारौ वृकाविव | बलिनां दुर्बलानां च ह्रस्वानां महतामपि ||१४|| न कश्चिज्जात्वतिक्रामेज्जरामृत्यू ह मानवः | अपि सागरपर्यन्तां विजित्येमां वसुन्धराम् ||१५|| सुखं वा यदि वा दुःखं भूतानां पर्युपस्थितम् | प्राप्तव्यमवशैः सर्वं परिहारो न विद्यते ||१६|| पूर्वे वयसि मध्ये वाप्युत्तमे वा नराधिप | अवर्जनीयास्तेऽर्था वै काङ्क्षिताश्च ततोऽन्यथा ||१७|| सुप्रियैर्विप्रयोगश्च सम्प्रयोगस्तथाप्रियैः | अर्थानर्थौ सुखं दुःखं विधानमनुवर्तते ||१८|| प्रादुर्भावश्च भूतानां देहन्यासस्तथैव च | प्राप्तिव्यायामयोगश्च सर्वमेतत्प्रतिष्ठितम् ||१९|| गन्धवर्णरसस्पर्शा निवर्तन्ते स्वभावतः | तथैव सुखदुःखानि विधानमनुवर्तते ||२०|| आसनं शयनं यानमुत्थानं पानभोजनम् | नियतं सर्वभूतानां कालेनैव भवन्त्युत ||२१|| वैद्याश्चाप्यातुराः सन्ति बलवन्तः सुदुर्बलाः | स्त्रीमन्तश्च तथा षण्ढा विचित्रः कालपर्ययः ||२२|| कुले जन्म तथा वीर्यमारोग्यं धैर्यमेव च | सौभाग्यमुपभोगश्च भवितव्येन लभ्यते ||२३|| सन्ति पुत्राः सुबहवो दरिद्राणामनिच्छताम् | बहूनामिच्छतां नास्ति समृद्धानां विचेष्टताम् ||२४|| व्याधिरग्निर्जलं शस्त्रं बुभुक्षा श्वापदं विषम् | रज्ज्वा च मरणं जन्तोरुच्चाच्च पतनं तथा ||२५|| निर्याणं यस्य यद्दिष्टं तेन गच्छति हेतुना | दृश्यते नाभ्यतिक्रामन्नतिक्रान्तो न वा पुनः ||२६|| दृश्यते हि युवैवेह विनश्यन्वसुमान्नरः | दरिद्रश्च परिक्लिष्टः शतवर्षो जनाधिप ||२७|| अकिञ्चनाश्च दृश्यन्ते पुरुषाश्चिरजीविनः | समृद्धे च कुले जाता विनश्यन्ति पतङ्गवत् ||२८|| प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते | काष्ठान्यपि हि जीर्यन्ते दरिद्राणां नराधिप ||२९|| अहमेतत्करोमीति मन्यते कालचोदितः | यद्यदिष्टमसन्तोषाद्दुरात्मा पापमाचरन् ||३०|| स्त्रियोऽक्षा मृगया पानं प्रसङ्गान्निन्दिता बुधैः | दृश्यन्ते चापि बहवः सम्प्रसक्ता बहुश्रुताः ||३१|| इति कालेन सर्वार्थानीप्सितानीप्सितानि च | स्पृशन्ति सर्वभूतानि निमित्तं नोपलभ्यते ||३२|| वायुमाकाशमग्निं च चन्द्रादित्यावहःक्षपे | ज्योतींषि सरितः शैलान्कः करोति बिभर्ति वा ||३३|| शीतमुष्णं तथा वर्षं कालेन परिवर्तते | एवमेव मनुष्याणां सुखदुःखे नरर्षभ ||३४|| नौषधानि न शास्त्राणि न होमा न पुनर्जपाः | त्रायन्ते मृत्युनोपेतं जरया वापि मानवम् ||३५|| यथा काष्ठं च काष्ठं च समेयातां महोदधौ | समेत्य च व्यतीयातां तद्वद्भूतसमागमः ||३६|| ये चापि पुरुषैः स्त्रीभिर्गीतवाद्यैरुपस्थिताः | ये चानाथाः परान्नादाः कालस्तेषु समक्रियः ||३७|| मातृपितृसहस्राणि पुत्रदारशतानि च | संसारेष्वनुभूतानि कस्य ते कस्य वा वयम् ||३८|| नैवास्य कश्चिद्भविता नायं भवति कस्यचित् | पथि सङ्गतमेवेदं दारबन्धुसुहृद्गणैः ||३९|| क्वासं क्वास्मि गमिष्यामि को न्वहं किमिहास्थितः | कस्मात्कमनुशोचेयमित्येवं स्थापयेन्मनः ||४०|| अनित्ये प्रियसंवासे संसारे चक्रवद्गतौ ||४०|| न दृष्टपूर्वं प्रत्यक्षं परलोकं विदुर्बुधाः | आगमांस्त्वनतिक्रम्य श्रद्धातव्यं बुभूषता ||४१|| कुर्वीत पितृदैवत्यं धर्माणि च समाचरेत् | यजेच्च विद्वान्विधिवत्त्रिवर्गं चाप्यनुव्रजेत् ||४२|| संनिमज्जज्जगदिदं गम्भीरे कालसागरे | जरामृत्युमहाग्राहे न कश्चिदवबुध्यते ||४३|| आयुर्वेदमधीयानाः केवलं सपरिग्रहम् | दृश्यन्ते बहवो वैद्या व्याधिभिः समभिप्लुताः ||४४|| ते पिबन्तः कषायांश्च सर्पींषि विविधानि च | न मृत्युमतिवर्तन्ते वेलामिव महोदधिः ||४५|| रसायनविदश्चैव सुप्रयुक्तरसायनाः | दृश्यन्ते जरया भग्ना नगा नागैरिवोत्तमैः ||४६|| तथैव तपसोपेताः स्वाध्यायाभ्यसने रताः | दातारो यज्ञशीलाश्च न तरन्ति जरान्तकौ ||४७|| न ह्यहानि निवर्तन्ते न मासा न पुनः समाः | जातानां सर्वभूतानां न पक्षा न पुनः क्षपाः ||४८|| सोऽयं विपुलमध्वानं कालेन ध्रुवमध्रुवः | नरोऽवशः समभ्येति सर्वभूतनिषेवितम् ||४९|| देहो वा जीवतोऽभ्येति जीवो वाभ्येति देहतः | पथि सङ्गतमेवेदं दारैरन्यैश्च बन्धुभिः ||५०|| नायमत्यन्तसंवासो लभ्यते जातु केनचित् | अपि स्वेन शरीरेण किमुतान्येन केनचित् ||५१|| क्व नु तेऽद्य पिता राजन्क्व नु तेऽद्य पितामहः | न त्वं पश्यसि तानद्य न त्वां पश्यन्ति तेऽपि च ||५२|| न ह्येव पुरुषो द्रष्टा स्वर्गस्य नरकस्य वा | आगमस्तु सतां चक्षुर्नृपते तमिहाचर ||५३|| चरितब्रह्मचर्यो हि प्रजायेत यजेत च | पितृदेवमहर्षीणामानृण्यायानसूयकः ||५४|| स यज्ञशीलः प्रजने निविष्टः; प्राग्ब्रह्मचारी प्रविभक्तपक्षः | आराधयन्स्वर्गमिमं च लोकं; परं च मुक्त्वा हृदयव्यलीकम् ||५५|| सम्यग्घि धर्मं चरतो नृपस्य; द्रव्याणि चाप्याहरतो यथावत् | प्रवृत्तचक्रस्य यशोऽभिवर्धते; सर्वेषु लोकेषु चराचरेषु ||५६|| व्यास उवाच|| इत्येवमाज्ञाय विदेहराजो; वाक्यं समग्रं परिपूर्णहेतुः | अश्मानमामन्त्र्य विशुद्धबुद्धि; र्ययौ गृहं स्वं प्रति शान्तशोकः ||५७|| तथा त्वमप्यच्युत मुञ्च शोक; मुत्तिष्ठ शक्रोपम हर्षमेहि | क्षात्रेण धर्मेण मही जिता ते; तां भुङ्क्ष्व कुन्तीसुत मा विषादीः ||५८|| षोडशराजकीयोपाख्यानम् २९ वैशम्पायन उवाच|| अव्याहरति कौन्तेये धर्मपुत्रे युधिष्ठिरे | गुडाकेशो हृषीकेशमभ्यभाषत पाण्डवः ||१|| ज्ञातिशोकाभिसन्तप्तो धर्मराजः परन्तपः | एष शोकार्णवे मग्नस्तमाश्वासय माधव ||२|| सर्वे स्म ते संशयिताः पुनरेव जनार्दन | अस्य शोकं महाबाहो प्रणाशयितुमर्हसि ||३|| एवमुक्तस्तु गोविन्दो विजयेन महात्मना | पर्यवर्तत राजानं पुण्डरीकेक्षणोऽच्युतः ||४|| अनतिक्रमणीयो हि धर्मराजस्य केशवः | बाल्यात्प्रभृति गोविन्दः प्रीत्या चाभ्यधिकोऽर्जुनात् ||५|| सम्प्रगृह्य महाबाहुर्भुजं चन्दनभूषितम् | शैलस्तम्भोपमं शौरिरुवाचाभिविनोदयन् ||६|| शुशुभे वदनं तस्य सुदंष्ट्रं चारुलोचनम् | व्याकोशमिव विस्पष्टं पद्मं सूर्यविबोधितम् ||७|| मा कृथाः पुरुषव्याघ्र शोकं त्वं गात्रशोषणम् | न हि ते सुलभा भूयो ये हतास्मिन्रणाजिरे ||८|| स्वप्नलब्धा यथा लाभा वितथाः प्रतिबोधने | एवं ते क्षत्रिया राजन्ये व्यतीता महारणे ||९|| सर्वे ह्यभिमुखाः शूरा विगता रणशोभिनः | नैषां कश्चित्पृष्ठतो वा पलायन्वापि पातितः ||१०|| सर्वे त्यक्त्वात्मनः प्राणान्युद्ध्वा वीरा महाहवे | शस्त्रपूता दिवं प्राप्ता न ताञ्शोचितुमर्हसि ||११|| अत्रैवोदाहरन्तीममितिहासं पुरातनम् | सृञ्जयं पुत्रशोकार्तं यथायं प्राह नारदः ||१२|| सुखदुःखैरहं त्वं च प्रजाः सर्वाश्च सृञ्जय | अविमुक्तं चरिष्यामस्तत्र का परिदेवना ||१३|| महाभाग्यं परं राज्ञां कीर्त्यमानं मया शृणु | गच्छावधानं नृपते ततो दुःखं प्रहास्यसि ||१४|| मृतान्महानुभावांस्त्वं श्रुत्वैव तु महीपतीन् | श्रुत्वापनय सन्तापं शृणु विस्तरशश्च मे ||१५|| आविक्षितं मरुत्तं मे मृतं सृञ्जय शुश्रुहि | यस्य सेन्द्राः सवरुणा बृहस्पतिपुरोगमाः ||१६|| देवा विश्वसृजो राज्ञो यज्ञमीयुर्महात्मनः ||१६|| यः स्पर्धामनयच्छक्रं देवराजं शतक्रतुम् | शक्रप्रियैषी यं विद्वान्प्रत्याचष्ट बृहस्पतिः ||१७|| संवर्तो याजयामास यं पीडार्थं बृहस्पतेः ||१७|| यस्मिन्प्रशासति सतां नृपतौ नृपसत्तम | अकृष्टपच्या पृथिवी विबभौ चैत्यमालिनी ||१८|| आविक्षितस्य वै सत्रे विश्वे देवाः सभासदः | मरुतः परिवेष्टारः साध्याश्चासन्महात्मनः ||१९|| मरुद्गणा मरुत्तस्य यत्सोममपिबन्त ते | देवान्मनुष्यान्गन्धर्वानत्यरिच्यन्त दक्षिणाः ||२०|| स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया | पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||२१|| सुहोत्रं चेद्वैतिथिनं मृतं सृञ्जय शुश्रुम | यस्मै हिरण्यं ववृषे मगह्वान्परिवत्सरम् ||२२|| सत्यनामा वसुमती यं प्राप्यासीज्जनाधिप | हिरण्यमवहन्नद्यस्तस्मिञ्जनपदेश्वरे ||२३|| कूर्मान्कर्कटकान्नक्रान्मकराञ्शिंशुकानपि | नदीष्वपातयद्राजन्मघवा लोकपूजितः ||२४|| हैरण्यान्पतितान्दृष्ट्वा मत्स्यान्मकरकच्छपान् | सहस्रशोऽथ शतशस्ततोऽस्मयत वैतिथिः ||२५|| तद्धिरण्यमपर्यन्तमावृत्तं कुरुजाङ्गले | ईजानो वितते यज्ञे ब्राह्मणेभ्यः समाहितः ||२६|| स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया | पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||२७|| अदक्षिणमयज्वानं श्वैत्य संशाम्य मा शुचः ||२७|| अङ्गं बृहद्रथं चैव मृतं शुश्रुम सृञ्जय | यः सहस्रं सहस्राणां श्वेतानश्वानवासृजत् ||२८|| सहस्रं च सहस्राणां कन्या हेमविभूषिताः | ईजानो वितते यज्ञे दक्षिणामत्यकालयत् ||२९|| शतं शतसहस्राणां वृषाणां हेममालिनाम् | गवां सहस्रानुचरं दक्षिणामत्यकालयत् ||३०|| अङ्गस्य यजमानस्य तदा विष्णुपदे गिरौ | अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः ||३१|| यस्य यज्ञेषु राजेन्द्र शतसङ्ख्येषु वै पुनः | देवान्मनुष्यान्गन्धर्वानत्यरिच्यन्त दक्षिणाः ||३२|| न जातो जनिता चान्यः पुमान्यस्तत्प्रदास्यति | यदङ्गः प्रददौ वित्तं सोमसंस्थासु सप्तसु ||३३|| स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया | पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||३४|| शिबिमौशीनरं चैव मृतं शुश्रुम सृञ्जय | य इमां पृथिवीं कृत्स्नां चर्मवत्समवेष्टयत् ||३५|| महता रथघोषेण पृथिवीमनुनादयन् | एकच्छत्रां महीं चक्रे जैत्रेणैकरथेन यः ||३६|| यावदद्य गवाश्वं स्यादारण्यैः पशुभिः सह | तावतीः प्रददौ गाः स शिबिरौशीनरोऽध्वरे ||३७|| नोद्यन्तारं धुरं तस्य कञ्चिन्मेने प्रजापतिः | न भूतं न भविष्यन्तं सर्वराजसु भारत ||३८|| अन्यत्रौशीनराच्छैब्याद्राजर्षेरिन्द्रविक्रमात् ||३८|| स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया | पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||३९|| अदक्षिणमयज्वानं तं वै संशाम्य मा शुचः ||३९|| भरतं चैव दौःषन्तिं मृतं सृञ्जय शुश्रुम | शाकुन्तलिं महेष्वासं भूरिद्रविणतेजसम् ||४०|| यो बद्ध्वा त्रिंशतो ह्यश्वान्देवेभ्यो यमुनामनु | सरस्वतीं विंशतिं च गङ्गामनु चतुर्दश ||४१|| अश्वमेधसहस्रेण राजसूयशतेन च | इष्टवान्स महातेजा दौःषन्तिर्भरतः पुरा ||४२|| भरतस्य महत्कर्म सर्वराजसु पार्थिवाः | खं मर्त्या इव बाहुभ्यां नानुगन्तुमशक्नुवन् ||४३|| परं सहस्राद्यो बद्ध्वा हयान्वेदीं विचित्य च | सहस्रं यत्र पद्मानां कण्वाय भरतो ददौ ||४४|| स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया | पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||४५|| रामं दाशरथिं चैव मृतं शुश्रुम सृञ्जय | योऽन्वकम्पत वै नित्यं प्रजाः पुत्रानिवौरसान् ||४६|| विधवा यस्य विषये नानाथाः काश्चनाभवन् | सर्वस्यासीत्पितृसमो रामो राज्यं यदान्वशात् ||४७|| कालवर्षाश्च पर्जन्याः सस्यानि रसवन्ति च | नित्यं सुभिक्षमेवासीद्रामे राज्यं प्रशासति ||४८|| प्राणिनो नाप्सु मज्जन्ति नानर्थे पावकोऽदहत् | न व्यालजं भयं चासीद्रामे राज्यं प्रशासति ||४९|| आसन्वर्षसहस्राणि तथा पुत्रसहस्रिकाः | अरोगाः सर्वसिद्धार्थाः प्रजा रामे प्रशासति ||५०|| नान्योन्येन विवादोऽभूत्स्त्रीणामपि कुतो नृणाम् | धर्मनित्याः प्रजाश्चासन्रामे राज्यं प्रशासति ||५१|| नित्यपुष्पफलाश्चैव पादपा निरुपद्रवाः | सर्वा द्रोणदुघा गावो रामे राज्यं प्रशासति ||५२|| स चतुर्दश वर्षाणि वने प्रोष्य महातपाः | दशाश्वमेधाञ्जारूथ्यानाजहार निरर्गलान् ||५३|| श्यामो युवा लोहिताक्षो मत्तवारणविक्रमः | दश वर्षसहस्राणि रामो राज्यमकारयत् ||५४|| स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया | पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||५५|| भगीरथं च राजानं मृतं शुश्रुम सृञ्जय | यस्येन्द्रो वितते यज्ञे सोमं पीत्वा मदोत्कटः ||५६|| असुराणां सहस्राणि बहूनि सुरसत्तमः | अजयद्बाहुवीर्येण भगवान्पाकशासनः ||५७|| यः सहस्रं सहस्राणां कन्या हेमविभूषिताः | ईजानो वितते यज्ञे दक्षिणामत्यकालयत् ||५८|| सर्वा रथगताः कन्या रथाः सर्वे चतुर्युजः | रथे रथे शतं नागाः पद्मिनो हेममालिनः ||५९|| सहस्रमश्वा एकैकं हस्तिनं पृष्ठतोऽन्वयुः | गवां सहस्रमश्वेऽश्वे सहस्रं गव्यजाविकम् ||६०|| उपह्वरे निवसतो यस्याङ्के निषसाद ह | गङ्गा भागीरथी तस्मादुर्वशी ह्यभवत्पुरा ||६१|| भूरिदक्षिणमिक्ष्वाकुं यजमानं भगीरथम् | त्रिलोकपथगा गङ्गा दुहितृत्वमुपेयुषी ||६२|| स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया | पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||६३|| दिलीपं चैवैलविलं मृतं शुश्रुम सृञ्जय | यस्य कर्माणि भूरीणि कथयन्ति द्विजातयः ||६४|| इमां वै वसुसम्पन्नां वसुधां वसुधाधिपः | ददौ तस्मिन्महायज्ञे ब्राह्मणेभ्यः समाहितः ||६५|| तस्येह यजमानस्य यज्ञे यज्ञे पुरोहितः | सहस्रं वारणान्हैमान्दक्षिणामत्यकालयत् ||६६|| यस्य यज्ञे महानासीद्यूपः श्रीमान्हिरण्मयः | तं देवाः कर्म कुर्वाणाः शक्रज्येष्ठा उपाश्रयन् ||६७|| चषालो यस्य सौवर्णस्तस्मिन्यूपे हिरण्मये | ननृतुर्देवगन्धर्वाः षट्सहस्राणि सप्तधा ||६८|| अवादयत्तत्र वीणां मध्ये विश्वावसुः स्वयम् | सर्वभूतान्यमन्यन्त मम वादयतीत्ययम् ||६९|| एतद्राज्ञो दिलीपस्य राजानो नानुचक्रिरे | यत्स्त्रियो हेमसम्पन्नाः पथि मत्ताः स्म शेरते ||७०|| राजानमुग्रधन्वानं दिलीपं सत्यवादिनम् | येऽपश्यन्सुमहात्मानं तेऽपि स्वर्गजितो नराः ||७१|| त्रयः शब्दा न जीर्यन्ते दिलीपस्य निवेशने | स्वाध्यायघोषो ज्याघोषो दीयतामिति चैव हि ||७२|| स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया | पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||७३|| मान्धातारं यौवनाश्वं मृतं शुश्रुम सृञ्जय | यं देवा मरुतो गर्भं पितुः पार्श्वादपाहरन् ||७४|| संवृद्धो युवनाश्वस्य जठरे यो महात्मनः | पृषदाज्योद्भवः श्रीमांस्त्रिलोकविजयी नृपः ||७५|| यं दृष्ट्वा पितुरुत्सङ्गे शयानं देवरूपिणम् | अन्योन्यमब्रुवन्देवाः कमयं धास्यतीति वै ||७६|| मामेव धास्यतीत्येवमिन्द्रो अभ्यवपद्यत | मान्धातेति ततस्तस्य नाम चक्रे शतक्रतुः ||७७|| ततस्तु पयसो धारां पुष्टिहेतोर्महात्मनः | तस्यास्ये यौवनाश्वस्य पाणिरिन्द्रस्य चास्रवत् ||७८|| तं पिबन्पाणिमिन्द्रस्य समामह्ना व्यवर्धत | स आसीद्द्वादशसमो द्वादशाहेन पार्थिव ||७९|| तमियं पृथिवी सर्वा एकाह्ना समपद्यत | धर्मात्मानं महात्मानं शूरमिन्द्रसमं युधि ||८०|| य आङ्गारं हि नृपतिं मरुत्तमसितं गयम् | अङ्गं बृहद्रथं चैव मान्धाता समरेऽजयत् ||८१|| यौवनाश्वो यदाङ्गारं समरे समयोधयत् | विस्फारैर्धनुषो देवा द्यौरभेदीति मेनिरे ||८२|| यतः सूर्य उदेति स्म यत्र च प्रतितिष्ठति | सर्वं तद्यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ||८३|| अश्वमेधशतेनेष्ट्वा राजसूयशतेन च | अददाद्रोहितान्मत्स्यान्ब्राह्मणेभ्यो महीपतिः ||८४|| हैरण्यान्योजनोत्सेधानायतान्दशयोजनम् | अतिरिक्तान्द्विजातिभ्यो व्यभजन्नितरे जनाः ||८५|| स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया | पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||८६|| ययातिं नाहुषं चैव मृतं शुश्रुम सृञ्जय | य इमां पृथिवीं सर्वां विजित्य सहसागराम् ||८७|| शम्यापातेनाभ्यतीयाद्वेदीभिश्चित्रयन्नृप | ईजानः क्रतुभिः पुण्यैः पर्यगच्छद्वसुन्धराम् ||८८|| इष्ट्वा क्रतुसहस्रेण वाजिमेधशतेन च | तर्पयामास देवेन्द्रं त्रिभिः काञ्चनपर्वतैः ||८९|| व्यूढे देवासुरे युद्धे हत्वा दैतेयदानवान् | व्यभजत्पृथिवीं कृत्स्नां ययातिर्नहुषात्मजः ||९०|| अन्तेषु पुत्रान्निक्षिप्य यदुद्रुह्युपुरोगमान् | पूरुं राज्येऽभिषिच्य स्वे सदारः प्रस्थितो वनम् ||९१|| स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया | पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||९२|| अम्बरीषं च नाभागं मृतं शुश्रुम सृञ्जय | यं प्रजा वव्रिरे पुण्यं गोप्तारं नृपसत्तम ||९३|| यः सहस्रं सहस्राणां राज्ञामयुत याजिनाम् | ईजानो वितते यज्ञे ब्राह्मणेभ्यः समाहितः ||९४|| नैतत्पूर्वे जनाश्चक्रुर्न करिष्यन्ति चापरे | इत्यम्बरीषं नाभागमन्वमोदन्त दक्षिणाः ||९५|| शतं राजसहस्राणि शतं राजशतानि च | सर्वेऽश्वमेधैरीजानास्तेऽभ्ययुर्दक्षिणायनम् ||९६|| स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया | पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||९७|| शशबिन्दुं चैत्ररथं मृतं शुश्रुम सृञ्जय | यस्य भार्यासहस्राणां शतमासीन्महात्मनः ||९८|| सहस्रं तु सहस्राणां यस्यासञ्शाशबिन्दवः | हिरण्यकवचाः सर्वे सर्वे चोत्तमधन्विनः ||९९|| शतं कन्या राजपुत्रमेकैकं पृष्ठतोऽन्वयुः | कन्यां कन्यां शतं नागा नागं नागं शतं रथाः ||१००|| रथं रथं शतं चाश्वा देशजा हेममालिनः | अश्वमश्वं शतं गावो गां गां तद्वदजाविकम् ||१०१|| एतद्धनमपर्यन्तमश्वमेधे महामखे | शशबिन्दुर्महाराज ब्राह्मणेभ्यः समादिशत् ||१०२|| स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया | पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||१०३|| गयमामूर्तरयसं मृतं शुश्रुम सृञ्जय | यः स वर्षशतं राजा हुतशिष्टाशनोऽभवत् ||१०४|| यस्मै वह्निर्वरान्प्रादात्ततो वव्रे वरान्गयः | ददतो मेऽक्षया चास्तु धर्मे श्रद्धा च वर्धताम् ||१०५|| मनो मे रमतां सत्ये त्वत्प्रसादाद्धुताशन | लेभे च कामांस्तान्सर्वान्पावकादिति नः श्रुतम् ||१०६|| दर्शेन पौर्णमासेन चातुर्मास्यैः पुनः पुनः | अयजत्स महातेजाः सहस्रं परिवत्सरान् ||१०७|| शतं गवां सहस्राणि शतमश्वशतानि च | उत्थायोत्थाय वै प्रादात्सहस्रं परिवत्सरान् ||१०८|| तर्पयामास सोमेन देवान्वित्तैर्द्विजानपि | पितॄन्स्वधाभिः कामैश्च स्त्रियः स्वाः पुरुषर्षभ ||१०९|| सौवर्णां पृथिवीं कृत्वा दशव्यामां द्विरायताम् | दक्षिणामददद्राजा वाजिमेधमहामखे ||११०|| यावत्यः सिकता राजन्गङ्गायाः पुरुषर्षभ | तावतीरेव गाः प्रादादामूर्तरयसो गयः ||१११|| स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया | पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||११२|| रन्तिदेवं च साङ्कृत्यं मृतं शुश्रुम सृञ्जय | सम्यगाराध्य यः शक्रं वरं लेभे महायशाः ||११३|| अन्नं च नो बहु भवेदतिथींश्च लभेमहि | श्रद्धा च नो मा व्यगमन्मा च याचिष्म कञ्चन ||११४|| उपातिष्ठन्त पशवः स्वयं तं संशितव्रतम् | ग्राम्यारण्या महात्मानं रन्तिदेवं यशस्विनम् ||११५|| महानदी चर्मराशेरुत्क्लेदात्सुस्रुवे यतः | ततश्चर्मण्वतीत्येवं विख्याता सा महानदी ||११६|| ब्राह्मणेभ्यो ददौ निष्कान्सदसि प्रतते नृपः | तुभ्यं तुभ्यं निष्कमिति यत्राक्रोशन्ति वै द्विजाः ||११७|| सहस्रं तुभ्यमित्युक्त्वा ब्राह्मणान्स्म प्रपद्यते ||११७|| अन्वाहार्योपकरणं द्रव्योपकरणं च यत् | घटाः स्थाल्यः कटाहाश्च पात्र्यश्च पिठरा अपि ||११८|| न तत्किञ्चिदसौवर्णं रन्तिदेवस्य धीमतः ||११८|| साङ्कृते रन्तिदेवस्य यां रात्रिमवसद्गृहे | आलभ्यन्त शतं गावः सहस्राणि च विंशतिः ||११९|| तत्र स्म सूदाः क्रोशन्ति सुमृष्टमणिकुण्डलाः | सूपभूयिष्ठमश्नीध्वं नाद्य मांसं यथा पुरा ||१२०|| स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया | पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||१२१|| सगरं च महात्मानं मृतं शुश्रुम सृञ्जय | ऐक्ष्वाकं पुरुषव्याघ्रमतिमानुषविक्रमम् ||१२२|| षष्टिः पुत्रसहस्राणि यं यान्तं पृष्ठतोऽन्वयुः | नक्षत्रराजं वर्षान्ते व्यभ्रे ज्योतिर्गणा इव ||१२३|| एकच्छत्रा मही यस्य प्रणता ह्यभवत्पुरा | योऽश्वमेधसहस्रेण तर्पयामास देवताः ||१२४|| यः प्रादात्काञ्चनस्तम्भं प्रासादं सर्वकाञ्चनम् | पूर्णं पद्मदलाक्षीणां स्त्रीणां शयनसङ्कुलम् ||१२५|| द्विजातिभ्योऽनुरूपेभ्यः कामानुच्चावचांस्तथा | यस्यादेशेन तद्वित्तं व्यभजन्त द्विजातयः ||१२६|| खानयामास यः कोपात्पृथिवीं सागराङ्किताम् | यस्य नाम्ना समुद्रश्च सागरत्वमुपागतः ||१२७|| स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया | पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||१२८|| राजानं च पृथुं वैन्यं मृतं शुश्रुम सृञ्जय | यमभ्यषिञ्चन्सम्भूय महारण्ये महर्षयः ||१२९|| प्रथयिष्यति वै लोकान्पृथुरित्येव शब्दितः | क्षताच्च नस्त्रायतीति स तस्मात्क्षत्रियः स्मृतः ||१३०|| पृथुं वैन्यं प्रजा दृष्ट्वा रक्ताः स्मेति यदब्रुवन् | ततो राजेति नामास्य अनुरागादजायत ||१३१|| अकृष्टपच्या पृथिवी पुटके पुटके मधु | सर्वा द्रोणदुघा गावो वैन्यस्यासन्प्रशासतः ||१३२|| अरोगाः सर्वसिद्धार्था मनुष्या अकुतोभयाः | यथाभिकाममवसन्क्षेत्रेषु च गृहेषु च ||१३३|| आपः संस्तम्भिरे यस्य समुद्रस्य यियासतः | सरितश्चानुदीर्यन्त ध्वजसङ्गश्च नाभवत् ||१३४|| हैरण्यांस्त्रिनलोत्सेधान्पर्वतानेकविंशतिम् | ब्राह्मणेभ्यो ददौ राजा योऽश्वमेधे महामखे ||१३५|| स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया | पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ||१३६|| किं वै तूष्णीं ध्यायसि सृञ्जय त्वं; न मे राजन्वाचमिमां शृणोषि | न चेन्मोघं विप्रलप्तं मयेदं; पथ्यं मुमूर्षोरिव सम्यगुक्तम् ||१३७|| सृञ्जय उवाच|| शृणोमि ते नारद वाचमेतां; विचित्रार्थां स्रजमिव पुण्यगन्धाम् | राजर्षीणां पुण्यकृतां महात्मनां; कीर्त्या युक्तां शोकनिर्णाशनार्थम् ||१३८|| न ते मोघं विप्रलप्तं महर्षे; दृष्ट्वैव त्वां नारदाहं विशोकः | शुश्रूषे ते वचनं ब्रह्मवादि; न्न ते तृप्याम्यमृतस्येव पानात् ||१३९|| अमोघदर्शिन्मम चेत्प्रसादं; सुताघदग्धस्य विभो प्रकुर्याः | मृतस्य सञ्जीवनमद्य मे स्या; त्तव प्रसादात्सुतसङ्गमश्च ||१४०|| नारद उवाच|| यस्ते पुत्रो दयितोऽयं वियातः; स्वर्णष्ठीवी यमदात्पर्वतस्ते | पुनस्ते तं पुत्रमहं ददामि; हिरण्यनाभं वर्षसहस्रिणं च ||१४१|| ३० युधिष्ठिर उवाच|| स कथं काञ्चनष्ठीवी सृञ्जयस्य सुतोऽभवत् | पर्वतेन किमर्थं च दत्तः केन ममार च ||१|| यदा वर्षसहस्रायुस्तदा भवति मानवः | कथमप्राप्तकौमारः सृञ्जयस्य सुतो मृतः ||२|| उताहो नाममात्रं वै सुवर्णष्ठीविनोऽभवत् | तथ्यं वा काञ्चनष्ठीवीत्येतदिच्छामि वेदितुम् ||३|| वासुदेव उवाच|| अत्र ते कथयिष्यामि यथा वृत्तं जनेश्वर | नारदः पर्वतश्चैव प्रागृषी लोकपूजितौ ||४|| मातुलो भागिनेयश्च देवलोकादिहागतौ | विहर्तुकामौ सम्प्रीत्या मानुष्येषु पुरा प्रभू ||५|| हविःपवित्रभोज्येन देव भोज्येन चैव ह | नारदो मातुलश्चैव भागिनेयश्च पर्वतः ||६|| तावुभौ तपसोपेताववनीतलचारिणौ | भुञ्जानौ मानुषान्भोगान्यथावत्पर्यधावताम् ||७|| प्रीतिमन्तौ मुदा युक्तौ समयं तत्र चक्रतुः | यो भवेद्धृदि सङ्कल्पः शुभो वा यदि वाशुभः ||८|| अन्योन्यस्य स आख्येयो मृषा शापोऽन्यथा भवेत् ||८|| तौ तथेति प्रतिज्ञाय महर्षी लोकपूजितौ | सृञ्जयं श्वैत्यमभ्येत्य राजानमिदमूचतुः ||९|| आवां भवति वत्स्यावः कञ्चित्कालं हिताय ते | यथावत्पृथिवीपाल आवयोः प्रगुणीभव ||१०|| तथेति कृत्वा तौ राजा सत्कृत्योपचचार ह ||१०|| ततः कदाचित्तौ राजा महात्मानौ तथागतौ | अब्रवीत्परमप्रीतः सुतेयं वरवर्णिनी ||११|| एकैव मम कन्यैषा युवां परिचरिष्यति | दर्शनीयानवद्याङ्गी शीलवृत्तसमन्विता ||१२|| सुकुमारी कुमारी च पद्मकिञ्जल्कसंनिभा ||१२|| परमं सौम्य इत्युक्तस्ताभ्यां राजा शशास ताम् | कन्ये विप्रावुपचर देववत्पितृवच्च ह ||१३|| सा तु कन्या तथेत्युक्त्वा पितरं धर्मचारिणी | यथानिदेशं राज्ञस्तौ सत्कृत्योपचचार ह ||१४|| तस्यास्तथोपचारेण रूपेणाप्रतिमेन च | नारदं हृच्छयस्तूर्णं सहसैवान्वपद्यत ||१५|| ववृधे च ततस्तस्य हृदि कामो महात्मनः | यथा शुक्लस्य पक्षस्य प्रवृत्तावुडुराट्छनैः ||१६|| न च तं भागिनेयाय पर्वताय महात्मने | शशंस मन्मथं तीव्रं व्रीडमानः स धर्मवित् ||१७|| तपसा चेङ्गितेनाथ पर्वतोऽथ बुबोध तत् | कामार्तं नारदं क्रुद्धः शशापैनं ततो भृशम् ||१८|| कृत्वा समयमव्यग्रो भवान्वै सहितो मया | यो भवेद्धृदि सङ्कल्पः शुभो वा यदि वाशुभः ||१९|| अन्योन्यस्य स आख्येय इति तद्वै मृषा कृतम् | भवता वचनं ब्रह्मंस्तस्मादेतद्वदाम्यहम् ||२०|| न हि कामं प्रवर्तन्तं भवानाचष्ट मे पुरा | सुकुमार्यां कुमार्यां ते तस्मादेष शपाम्यहम् ||२१|| ब्रह्मवादी गुरुर्यस्मात्तपस्वी ब्राह्मणश्च सन् | अकार्षीः समयभ्रंशमावाभ्यां यः कृतो मिथः ||२२|| शप्स्ये तस्मात्सुसङ्क्रुद्धो भवन्तं तं निबोध मे | सुकुमारी च ते भार्या भविष्यति न संशयः ||२३|| वानरं चैव कन्या त्वां विवाहात्प्रभृति प्रभो | संद्रक्ष्यन्ति नराश्चान्ये स्वरूपेण विनाकृतम् ||२४|| स तद्वाक्यं तु विज्ञाय नारदः पर्वतात्तदा | अशपत्तमपि क्रोधाद्भागिनेयं स मातुलः ||२५|| तपसा ब्रह्मचर्येण सत्येन च दमेन च | युक्तोऽपि धर्मनित्यश्च न स्वर्गवासमाप्स्यसि ||२६|| तौ तु शप्त्वा भृशं क्रुद्धौ परस्परममर्षणौ | प्रतिजग्मतुरन्योन्यं क्रुद्धाविव गजोत्तमौ ||२७|| पर्वतः पृथिवीं कृत्स्नां विचचार महामुनिः | पूज्यमानो यथान्यायं तेजसा स्वेन भारत ||२८|| अथ तामलभत्कन्यां नारदः सृञ्जयात्मजाम् | धर्मेण धर्मप्रवरः सुकुमारीमनिन्दिताम् ||२९|| सा तु कन्या यथाशापं नारदं तं ददर्श ह | पाणिग्रहणमन्त्राणां प्रयोगादेव वानरम् ||३०|| सुकुमारी च देवर्षिं वानरप्रतिमाननम् | नैवावमन्यत तदा प्रीतिमत्येव चाभवत् ||३१|| उपतस्थे च भर्तारं न चान्यं मनसाप्यगात् | देवं मुनिं वा यक्षं वा पतित्वे पतिवत्सला ||३२|| ततः कदाचिद्भगवान्पर्वतोऽनुससार ह | वनं विरहितं किञ्चित्तत्रापश्यत्स नारदम् ||३३|| ततोऽभिवाद्य प्रोवाच नारदं पर्वतस्तदा | भवान्प्रसादं कुरुतां स्वर्गादेशाय मे प्रभो ||३४|| तमुवाच ततो दृष्ट्वा पर्वतं नारदस्तदा | कृताञ्जलिमुपासीनं दीनं दीनतरः स्वयम् ||३५|| त्वयाहं प्रथमं शप्तो वानरस्त्वं भविष्यसि | इत्युक्तेन मया पश्चाच्छप्तस्त्वमपि मत्सरात् ||३६|| अद्यप्रभृति वै वासं स्वर्गे नावाप्स्यसीति ह ||३६|| तव नैतद्धि सदृशं पुत्रस्थाने हि मे भवान् | निवर्तयेतां तौ शापमन्योऽन्येन तदा मुनी ||३७|| श्रीसमृद्धं तदा दृष्ट्वा नारदं देवरूपिणम् | सुकुमारी प्रदुद्राव परपत्यभिशङ्कया ||३८|| तां पर्वतस्ततो दृष्ट्वा प्रद्रवन्तीमनिन्दिताम् | अब्रवीत्तव भर्तैष नात्र कार्या विचारणा ||३९|| ऋषिः परमधर्मात्मा नारदो भगवान्प्रभुः | तवैवाभेद्यहृदयो मा ते भूदत्र संशयः ||४०|| सानुनीता बहुविधं पर्वतेन महात्मना | शापदोषं च तं भर्तुः श्रुत्वा स्वां प्रकृतिं गता ||४१|| पर्वतोऽथ ययौ स्वर्गं नारदोऽथ ययौ गृहान् ||४१|| प्रत्यक्षकर्मा सर्वस्य नारदोऽयं महानृषिः | एष वक्ष्यति वै पृष्टो यथा वृत्तं नरोत्तम ||४२|| सुवर्णष्टीव्युपाख्यानम् ३१ वैशम्पायन उवाच|| ततो राजा पाण्डुसुतो नारदं प्रत्यभाषत | भगवञ्श्रोतुमिच्छामि सुवर्णष्ठीविसम्भवम् ||१|| एवमुक्तः स च मुनिर्धर्मराजेन नारदः | आचचक्षे यथा वृत्तं सुवर्णष्ठीविनं प्रति ||२|| एवमेतन्महाराज यथायं केशवोऽब्रवीत् | कार्यस्यास्य तु यच्छेषं तत्ते वक्ष्यामि पृच्छतः ||३|| अहं च पर्वतश्चैव स्वस्रीयो मे महामुनिः | वस्तुकामावभिगतौ सृञ्जयं जयतां वरम् ||४|| तत्र सम्पूजितौ तेन विधिदृष्टेन कर्मणा | सर्वकामैः सुविहितौ निवसावोऽस्य वेश्मनि ||५|| व्यतिक्रान्तासु वर्षासु समये गमनस्य च | पर्वतो मामुवाचेदं काले वचनमर्थवत् ||६|| आवामस्य नरेन्द्रस्य गृहे परमपूजितौ | उषितौ समये ब्रह्मंश्चिन्त्यतामत्र साम्प्रतम् ||७|| ततोऽहमब्रुवं राजन्पर्वतं शुभदर्शनम् | सर्वमेतत्त्वयि विभो भागिनेयोपपद्यते ||८|| वरेण छन्द्यतां राजा लभतां यद्यदिच्छति | आवयोस्तपसा सिद्धिं प्राप्नोतु यदि मन्यसे ||९|| तत आहूय राजानं सृञ्जयं शुभदर्शनम् | पर्वतोऽनुमतं वाक्यमुवाच मुनिपुङ्गवः ||१०|| प्रीतौ स्वो नृप सत्कारैस्तव ह्यार्जवसम्भृतैः | आवाभ्यामभ्यनुज्ञातो वरं नृवर चिन्तय ||११|| देवानामविहिंसायां यद्भवेन्मानुषक्षमम् | तद्गृहाण महाराज पूजार्हो नौ मतो भवान् ||१२|| सृञ्जय उवाच|| प्रीतौ भवन्तौ यदि मे कृतमेतावता मम | एष एव परो लाभो निर्वृत्तो मे महाफलः ||१३|| नारद उवाच|| तमेवंवादिनं भूयः पर्वतः प्रत्यभाषत | वृणीष्व राजन्सङ्कल्पो यस्ते हृदि चिरं स्थितः ||१४|| सृञ्जय उवाच|| अभीप्सामि सुतं वीरं वीर्यवन्तं दृढव्रतम् | आयुष्मन्तं महाभागं देवराजसमद्युतिम् ||१५|| पर्वत उवाच|| भविष्यत्येष ते कामो न त्वायुष्मान्भविष्यति | देवराजाभिभूत्यर्थं सङ्कल्पो ह्येष ते हृदि ||१६|| सुवर्णष्ठीवनाच्चैव स्वर्णष्ठीवी भविष्यति | रक्ष्यश्च देवराजात्स देवराजसमद्युतिः ||१७|| नारद उवाच|| तच्छ्रुत्वा सृञ्जयो वाक्यं पर्वतस्य महात्मनः | प्रसादयामास तदा नैतदेवं भवेदिति ||१८|| आयुष्मान्मे भवेत्पुत्रो भवतस्तपसा मुने | न च तं पर्वतः किञ्चिदुवाचेन्द्रव्यपेक्षया ||१९|| तमहं नृपतिं दीनमब्रुवं पुनरेव तु | स्मर्तव्योऽहं महाराज दर्शयिष्यामि ते स्मृतः ||२०|| अहं ते दयितं पुत्रं प्रेतराजवशं गतम् | पुनर्दास्यामि तद्रूपं मा शुचः पृथिवीपते ||२१|| एवमुक्त्वा तु नृपतिं प्रयातौ स्वो यथेप्सितम् | सृञ्जयश्च यथाकामं प्रविवेश स्वमन्दिरम् ||२२|| सृञ्जयस्याथ राजर्षेः कस्मिंश्चित्कालपर्यये | जज्ञे पुत्रो महावीर्यस्तेजसा प्रज्वलन्निव ||२३|| ववृधे स यथाकालं सरसीव महोत्पलम् | बभूव काञ्चनष्ठीवी यथार्थं नाम तस्य तत् ||२४|| तदद्भुततमं लोके पप्रथे कुरुसत्तम | बुबुधे तच्च देवेन्द्रो वरदानं महात्मनोः ||२५|| ततस्त्वभिभवाद्भीतो बृहस्पतिमते स्थितः | कुमारस्यान्तरप्रेक्षी बभूव बलवृत्रहा ||२६|| चोदयामास वज्रं स दिव्यास्त्रं मूर्तिसंस्थितम् | व्याघ्रो भूत्वा जहीमं त्वं रा…

No comments:

Post a Comment