Friday, 8 September 2017

महासुभाषितसंग्रह

प्रमुखा विकल्पसूचिः उद्घाट्यताम् विकिपुस्तकानि अन्विष्यताम् सम्पाद्यताम्इदं पृष्ठं निरीक्षताम् महासुभाषितसंग्रह ४००१-५००० ४००१-१ अस्यामोषधयो ज्वलन्तु दधतु ज्योतींषि कीटा अपि प्रोन्मीलन्तु भुजङ्गमौलिमणयः क्रीडन्तु दीपाङ्कुराः । ४००१-२ प्रष्टव्याः खलु यूयमेव यदि कोऽप्यस्तं गते भास्वति प्रौडःअध्वान्तपयोधिमग्नजगतीहस्तावलम्बक्षमः ।। ४००२-१ अस्या यदष्टादश संविभज्य विद्याः श्रुती दध्रतुरर्धमर्धं । ४००२-२ कर्णान्तरुत्कीर्णगभीररेखः किं तस्य संख्यैव नवा नवाङ्कः ।। ४००३-१ अस्या यदास्येन पुरस्तिरश्च तिरस्कृतं शीतरुचान्धकारं । ४००३-२ स्फुटस्फुरद्भङ्गिकचच्छलेन तदेव पश्चादिदमस्ति बद्धं ।। ४००४-१ अस्यारिप्रकरः शरश्च नृपतेः संख्ये पतन्तावुभौ सीत्कारं च न संमुखौ रचयतः कम्पं च न प्राप्नुतः । ४००४-२ तद्युक्तं न पुनर्निवृत्तिरुभयोर्जागर्ति यन्मुक्तयोरेकस्तत्र भिनत्ति मित्रमपरश्चामित्रमित्यद्भुतं ।। ४००५-१ अस्या ललाटे रचिता सखीभिर्विभाव्यते चन्दनपत्रलेखा । ४००५-२ आपाण्डुरक्षामकपोलभित्तावनङ्गबाणव्रणपट्टिकेव ।। ४००६-१ अस्या वपुषि तारुण्यं शैशवं वा कृतास्पदं । ४००६-२ जातिः कापालिकस्येव न केनाप्यवधार्यते ।। ४००७-१ अस्या वपुषि तुलायां शैशवगुञ्जां च यौवनं हेम । ४००७-२ तुलयति कुतुकिनि कामे न नमति मध्यान्मनःसूची ।। ४००८-१ अस्याश्चेदलकावली कृतमलिश्रेणीभिरेणीदृशः सौन्दर्यं यदि चक्षुषोस्तरलयोः किं मन्मथस्यायुधैः । ४००८-२ का प्रीतिः कनकारविन्दमुकुले पीनौ स्तनौ चेदतो मन्ये काचिदियं मनोभवकृता माया जगन्मोहिनी ।। ४००९-१ अस्याश्चेद्गतिसौकुमार्यमधुना हंसस्य गर्वैरलं संलापो यदि धार्यतां परभृतैर्वाचंयमत्वव्रतं । ४००९-२ अङ्गानामकठोरता यदि दृषत्प्रायैव सा मालती कान्तिश्चेत्कमला किमत्र बहुना काषायमालम्बतां ।। ४०१०-१ अस्यासिर्भुजगः स्वकोशसुषिराकृष्टः स्फुरत्कृष्णिमा कम्पोन्मीलदराललीलवलनस्तेषां भिये भूभुजां । ४०१०-२ संग्रामेषु निजाङ्गुलीमयमहासिद्धौषधीवीरुधः पर्वास्ये विनिवेश्य जाङ्गुलिकता यैर्नाम नालम्बिता ।। ४०११-१ अस्यास्तनिमा मध्ये प्रथिमा कुचयोर्दृशोश्च चाञ्चल्यं । ४०११-२ ऊर्वोः क्रमेण वृत्तो- न्नाहश्च तुल्यतां दधति ।। ४०१२-१ अस्यास्तनुस्यन्दनसंस्मितो वै स मीनकेतुर्जगतीं विजेतुं । ४०१२-२ सकुङ्कुमालेखमिषेण वीरो व्यमोचयच्चारुतरां पताकां ।। ४०१३-१ अस्यास्तनौ विरहताण्डवरङ्गभूमौ स्वेदोदबिन्दुकुसुमाञ्जलिमाविकीर्य । ४०१३-२ नान्दीं पपाठ पृथुवेपथुवेपमान- काञ्चीलताकलरवैः स्मरसूत्रधारः ।। ४०१४-१ अस्यास्तुङ्गमिव स्तनद्वयमिदं निम्नेव नाभिः स्थिता दृश्यन्ते विषमोन्नताश्च वलयो भित्तौ समायामपि । ४०१४-२ अङ्गे च प्रतिभाति मार्दवमिदं स्निग्धस्वभावश्चिरं प्रेम्णा मन्मुखचन्द्रमीक्षत इव स्मेरेव वक्तीति च ।। ४०१५-१ अस्यास्त्राणमहो वियोगदुरितादस्मासु कृत्वा कृती स्वैरं गच्छसि तत्तु किं विमृशसि त्रासावहं हन्त नः । ४०१५-२ वाचालेषु दिनेषु कोकिलरुतैरुत्पञ्चमप्रक्रमैः सज्योत्स्नासु च यामिनीष्वशरणाः किं नाम कुर्मो वयं ।। ४०१६-१ अस्यैकस्यापि कायस्य सहजा अस्थिखण्डकाः । ४०१६-२ पृथक्पृथग्गमिष्यन्ति किमुतान्यः प्रियो जनः ।। ४०१७-१ अस्यैव रम्भोरु तावननस्य दृशैव संजीवितमन्मथस्य । ४०१७-२ वनं विधाता ननु नीरजानां नीराजनार्थं किमु निर्मिमीते ।। ४०१८-१ अस्यैव सर्गाय भवत्करस्य सरोजसृष्टिर्मम हस्तलेखः । ४०१८-२ इत्याह धाता हरिणेक्षणायां किं हस्तलेखीकृतया तयास्यां ।। ४०१९-१ अस्योदरस्य प्रतितुल्यशोभं नास्तीति धात्रा भुवनत्रयेऽपि । ४०१९-२ संख्यानरेखा इव संप्रयुक्तास्तिस्रो विरेजुर्वलयः सुदत्याः ।। ४०२०-१ अस्योर्वीरमणस्य पार्वणविधुद्वैराज्यसज्जं यशः सर्वाङ्गोज्ज्वलशर्वपर्वतसितश्रीगर्वनिर्वासि यत् । ४०२०-२ तत्कम्बुप्रतिबिम्बितं किमु शरत्पर्जन्यराजिश्रियः पर्यायः किमु दुग्धसिन्धुपयसां सर्वानुवादः किमु ।। ४०२१-१ अस्रं लोचनकोण एव कृपणद्रव्यायते सर्वदा कण्ठे काकुवचः प्रसुप्तकमलक्रोडस्थभृङ्गायते । ४०२१-२ हा रावो हृदये वियोगिकुलजाकामाभिलाषायते वैदेहीविरहज्वरो रघुपतेरापाकतापायते ।। ४०२२-१ अस्रमजस्रं मोक्तुं धिङ्नः कर्णायते नयने । ४०२२-२ द्रष्टव्यं परिदृष्टं तत्कैशोरं व्रजस्त्रीभिः ।। ४०२३-१ अस्रस्रोतस्तरङ्गभ्रमिषु तरलिता मांसपङ्के लुठन्तः स्थूलास्थिग्रन्थिभङ्गैर्धवलबिसलताग्रासमाकल्पयन्तः । ४०२३-२ मायासिंहस्य शौरेः स्फुरदरुणहृदम्भोजसंश्लेषभाजः पायासुर्दैत्यवक्षःस्थलकुहरसरोराजहंसा नखा वः ।। ४०२४-१ अस्राक्षीन्नवनीलनीरजदलोपान्तातिसूक्ष्मायत- त्वङ्मात्रान्तरितामिषं यदि वपुर्नैतत्प्रजानां पतिः । ४०२४-२ प्रत्यग्रक्षरदस्रविस्रपिशितग्रासग्रहं गृह्णतो गृध्रध्वाङ्क्षवृकांस्तनौ निपततः को वा कथं वारयेत् ।। ४०२५-१ अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर्दिवानिशं । ४०२५-२ विषयेषु च सज्जन्त्यः संस्थाप्य ह्यात्मनो वशे ।। ४०२६-१ अस्वाध्यायः पिकानां मदनमखसमारम्भणस्याधिमासो निद्राया जन्मलग्नं किमपि मधुलिहां कोऽपि दुर्भिक्षकालः । ४०२६-२ ऋष्टिर्यात्रोत्सुकानां मलयजमरुतां पान्थकान्ताकृतान्तः प्रालेयोन्मूलमूलं समजनि समयः कश्चिदौत्पातिकोऽयं ।। ४०२७-१ अहंकार क्वापि व्रज वृजिन हे मा त्वमिह भूरभूमिर्दर्पाणामहमपसर त्वं पिशुन हे । ४०२७-२ अरे क्रोध स्थानान्तरमनुसरानन्यमनसां त्रिलोकीनाथो नः स्फुरति हृदि देवो हरिरसौ ।। ४०२८-१ अहंकारो धियं ब्रूते मैनं सुप्तं प्रबोधय । ४०२८-२ उत्थिते परमानन्दे न त्वं नाहं न वै जगत् ।। ४०२९-१ अहं किमम्बा किमभीष्टतापदे तवेति मातुर्धुरि तातपृच्छया । ४०२९-२ प्रलोभ्यतुल्यं प्रवदन्तमर्भकं मुदा हसञ्जिघ्रति मूर्ध्नि पुण्यभाक् ।। ४०३०-१ अहंकृतेः परिच्छेदानविद्यामचितिं तथा । ४०३०-२ जहि येनोपलब्धिस्ते कापि स्यान्निस्तुलाद्भुता ।। ४०३१-१ अहं च त्वं च राजेन्द्र लोकनाथावुभावपि । ४०३१-२ बहुव्रीहिरहं राजन्षष्ठीतत्पुरुषो भवान् ।। ४०३२-१ अहं च देवनन्दी च कुशाग्रीयधियावुभौ । ४०३२-२ नैव शब्दाम्बुधेः पारं किमन्ये जडबुद्धयः ।। ४०३३-१ अहं तनीयानतिक्ॐअलश्च स्तनद्वयं वोढुमलं न तावत् । ४०३३-२ इतीव तत्संवहनार्थमस्या वलित्रयं पुष्यति मध्यभागः ।। ४०३४-१ अहं तावन्महाराजे पितृत्वं नोपलक्षये । ४०३४-२ भ्राता भर्ता च बन्धुश्च पिता च मम राघवः ।। ४०३५-१ अहं तेनाहूता किमपि कथयामीति विजने समीपे चासीना सरलहृदयत्वादवहिता । ४०३५-२ ततः कर्णोपान्ते किमपि वदताघ्राय वदनं गृहीत्वा धम्मिल्लं मम सखि निपीतोऽधररसः ।। ४०३६-१ अहं न चेत्स्यां मयि दुष्टभावनां इमे व्रजेयुर्न निराश्रया जनाः । ४०३६-२ तदेनसा योजयतः परान्स्वयं ममैव युक्ता खलु नन्वपत्रपा ।। ४०३७-१ अहं नयनजं वारि निरोढुमपि न क्षमः । ४०३७-२ रामः सीतावियोगार्तो बबन्ध सरितां पतिं ।। ४०३८-१ अहं नश्यामि मानेन मानेन कलहं कृथाः । ४०३८-२ विरोधमेत्य कान्तेन कान्ते न परितप्यते ।। ४०३९-१ अहंभावात्ययो जातु सुकरो न कथंचन । ४०३९-२ चेतनायामहम्भावो भौतिक्यां विजितः सकृत् । ४०३९-३ आध्यात्मिक्यां पुनश्चैष स्फीतः स्फुरति नोऽग्रतः ।। ४०४०-१ अहं ममेत्येव भवस्य बीजं न मे न चाहं भवबीजशान्तिः । ४०४०-२ बीजे प्रनष्टे कुत एव जन्म निरिन्धनो वह्निरुपैति शान्तिं ।। ४०४१-१ अहं महानसायातः कल्पितो नरकस्तव । ४०४१-२ मया मांसादिकं भुक्तं भीमं जानीहि मां बक ।। ४०४२-१ अहंयुवरवर्णिनीजनमदायतोदव्रत- स्फुरच्चतुरपञ्चमस्वरजितान्यपक्षिव्रजः । ४०४२-२ रसालतरुणा कृतामसमतुल्यतामात्मनो विहन्तुमिह कोकिलः फलिनमन्यमुद्वीक्षते ।। ४०४३-१ अहं रथाङ्गनामेव प्रिया सहचरीव मे । ४०४३-२ अननुज्ञातसंपर्का धारिणी रजनीव नौ ।। ४०४४-१ अहं वो रक्षितेत्युक्त्वा यो न रक्षति भूमिपः । ४०४४-२ स संहत्य निहन्तव्यः श्वेव सोन्माद आतुरः ।। ४०४५-१ अहं सदा प्राणसमं महीभुजां अयं तु मां वेत्ति नृपस्तृणोपमं । ४०४५-२ इतीव कर्णेषु सुवर्णमर्थिनां स्वखेदमाख्यातुमभूत्कृतास्पदं ।। ४०४६-१ अहं हि संमतो राज्ञो य एवं मन्यते कुधीः । ४०४६-२ बलीवर्दः स विज्ञेयो विषाणपरिवर्जितः ।। ४०४७-१ अहन्यहनि बोद्धव्यं किमद्य सुकृतं कृतं । ४०४७-२ दत्तं वा दापितं वापि वाक्साह्यमपि वाक्कृतं ।। ४०४८-१ अहन्यहनि भूतानि गच्छन्ति चरमालयं । ४०४८-२ शेषाः स्थावरमिच्छन्ति किमाश्चर्यमतःपरं ।। ४०४९-१ अहन्यहनि भूतानि सृजत्येव प्रजापतिः । ४०४९-२ अद्यापि न सृजत्येकं योऽर्थिनं नावमन्यते ।। ४०५०-१ अहन्यहनि याचन्तं कोऽवमन्येद्गुरुं यथा । ४०५०-२ मार्जनं दर्पणस्येव यः करोति दिने दिने ।। ४०५१-१ अहन्यहन्यात्मन एव तावज्ज्ञातुं प्रमादस्खलितं न शक्यं । ४०५१-२ प्रजासु कः केन पथा प्रयातीत्यशेषतो वेदितुमस्ति शक्तिः ।। ४०५२-१ अहमपि परेऽपि कवयस्तथापि महदन्तरं परिज्ञेयं । ४०५२-२ ऐक्यं रलयोर्यद्यपि तत्किं करभायते कलभः ।। ४०५३-१ अहमस्मि नीलकण्ठस्तव खलु तुष्यामि शब्दमात्रेण । ४०५३-२ नाहं जलधर भवतश्चातक इव जीवनं याचे ।। ४०५४-१ अहमहमिकाबद्धोत्साहं रतोत्सवशंसिनि प्रसरति मुहुः प्रौढस्त्रीणां कथामृतदुर्दिने । ४०५४-२ कलितपुलका सद्यः स्तोकोद्गतस्तनकोरके वलयति शनैर्बाला वक्षःस्थले तरलां दृशं ।। ४०५५-१ अहमिव दिनलक्ष्मीः प्रोषितप्राणनाथा त्वमिव पथिक पन्था मुक्तपान्थानुबन्धः । ४०५५-२ अयमपि परदेशः सोऽपि यत्रासि गन्ता मदनमधुरमूर्ते किं वृथा सत्वरोऽसि ।। ४०५६-१ अहमिव शून्यमरण्यं वयमिव तनुतां गतानि तोयानि । ४०५६-२ अस्माकमिवोच्छ्वासा दिवसा दीर्घाश्च तप्ताश्च ।। ४०५७-१ अहमिह कृतविद्यो वेदिता सत्कलानां धनपतिरहमेको रूपलावण्ययुक्तः । ४०५७-२ इति कृतगुरुगर्वः खिद्यते किं जनोऽयं कतिपयदिनमध्ये सर्वमेतन्न किंचित् ।। ४०५८-१ अहमिह स्थितवत्यपि तावकी त्वमपि तत्र वसन्नपि मामकः । ४०५८-२ न तनुसंगतमार्य सुसंगतं हृदयसंगतमेव सुसंगतं ।। ४०५९-१ अहमेको न मे कश्चिन्नाहमन्यस्य कस्यचित् । ४०५९-२ न तं पश्यामि यस्याहं न हि सोऽस्ति न यो मम ।। ४०६०-१ अहमेत्य पतङ्गवर्त्मना पुनरङ्काश्रयणी भवामि ते । ४०६०-२ चतुरैः सुरकामिनीजनैः प्रिय यावन्न विलोभ्यसे दिवि ।। ४०६१-१ अहमेव गुरुः सुदारुणानां इति हालाहल तात मा स्म दृप्यः । ४०६१-२ ननु सन्ति भवादृशानि भूयो भुवनेऽस्मिन्वचनानि दुर्जनानां ।। ४०६२-१ अहमेव बली न चापर इति बुद्धिः प्रलयंकरी नृणां । ४०६२-२ नहि सन्ति महीतले कति प्रबलैर्ये विजिता बलोद्धताः ।। ४०६३-१ अहमेव मतो महीपतेरिति सर्वः प्रकृतिष्वचिन्तयत् । ४०६३-२ उदधेरिव निम्नगाशतेष्वभवन्नास्य विमानना क्वचित् ।। ४०६४-१ अहरन्कस्यचिद्द्रव्यं यो नरः सुखमावसेत् । ४०६४-२ सर्वतः शङ्कितः स्तेनो मृगोग्राममिवागतः ।। ४०६५-१ अहर्निशं जागरणोद्यतो जनः श्रमं विधत्ते विषयेच्छया यथा । ४०६५-२ तपःश्रमं चेत्कुरुते तथा क्षणं किमश्नुतेऽनन्तसुखं न पावनं ।। ४०६६-१ अहर्निशा वेति रताय पृच्छति क्रमोष्णशीतान्नकरार्पणाद्विटे । ४०६६-२ ह्रिया विदग्धा किल तन्निषेधिनी न्यधत्त संध्यामधुरेऽधरेऽङ्गुलिं ।। ४०६७-१ अहल्याकेलिकालेऽभूत्कन्दर्पाणां शतद्वयं । ४०६७-२ तत्पञ्चबाणभिन्नाक्षः सहस्राक्षोऽन्धतां गतः ।। ४०६८-१ अहस्तानि सहस्तानां अपदानि चतुष्पदां । ४०६८-२ फल्गूनि तत्र महतां जीवो जीवस्य जीवनं ।। ४०६९-१ अहह कर्मकरीयति भूपतिं नरपतीयति कर्मकरं नरः । ४०६९-२ जलनिधीयति कूपमपां निधिं गतजलीयति मद्यमदाकुलः ।। ४०७०-१ अहह किमधुना मुधैव बध्नास्यनुचितकारिणि कर्णदन्तपत्रं । ४०७०-२ ननु तव चटुलभ्रु कर्णपालिर्भुवनविलोचनकालसारपाशः ।। ४०७१-१ अहह गृही क्व नु कुशली बद्धः संसारसागरे क्षिप्तः । ४०७१-२ कथमपि लभते पोतं तेनापि निमज्जति नितान्तं ।। ४०७२-१ अहह चण्ड समीरण दारुणं किमिदमाचरितं चरितं त्वया । ४०७२-२ यदिह चातकचञ्चुपुटोदरे पतति वारि तदेव निवारितं ।। ४०७३-१ अहह नयने मिथ्यादृग्वत्सदीक्षणवर्जिते श्रवणयुगलं दुष्पुत्रो वा श्र्णोति न भाषितं । ४०७३-२ स्खलति चरणद्वन्द्वं मार्गे मदाकुललोकवद्वपुषि जरसा जीर्णे वर्णो व्यपैति कलत्रवत् ।। ४०७४-१ अहह सहजमोहा देहगेहप्रपञ्चे नवरतमतिमग्ना कामिनीविग्रहाप्तिः । ४०७४-२ तदहमिह विहर्तुं संततामोदमुग्धा स्वहितमहितकृत्यं हन्त नान्तः स्मरामि ।। ४०७५-१ अहान्यस्तमयान्तानि उदयान्ता च शर्वरी । ४०७५-२ सुखस्यान्तः सदा दुःखं दुःखस्यान्तः सदा सुखं ।। ४०७६-१ अहापयन्नृपः कालं भृत्यानामनुवर्तिनां । ४०७६-२ कर्मणामानुरूप्येण वृत्तिं समनुकल्पयेत् ।। ४०७७-१ अहार्यः सर्वमध्यस्थः काञ्चनद्युतिमुद्वहन् । ४०७७-२ सत्प्रदक्षिणयोग्यत्वं उपयाति महोन्नतः ।। ४०७८-१ अहार्येण कदाप्यन्यैरसंहार्येण केनचित् । ४०७८-२ तितिक्षाकवचेनैव सर्वं जयति संवृतः ।। ४०७९-१ अहिं नृपं च शार्दूलं वृद्धं च बालकं तथा । ४०७९-२ परश्वानं च मूर्खं च सप्त सुप्तान्न बोधयेत् ।। ४०८०-१ अहिंसयैव भूतानां कार्यं श्रेयोऽमुशासनं । ४०८०-२ वाक्चैव मधुरा श्लक्ष्णा प्रयोज्या धर्ममिच्छता ।। ४०८१-१ अहिंसा धाम धर्मस्य दुःखस्यायतनं स्पृहा । ४०८१-२ सङ्गत्यागः पदं मुक्तेर्योगाभ्यासः पदं शुचः ।। ४०८२-१ अहिंसा परमो धर्मः अहिंसा परमा गतिः । ४०८२-२ अहिंसा परमा प्रीतिस्त्वहिंसा परमं पदं ।। ४०८३-१ अहिंसा परमो धर्मस्तथाहिंसा परो दमः । ४०८३-२ अहिंसा परमं दानं अहिंसा परमं तपः ।। ४०८४-१ अहिंसा परमो यज्ञस्तथाहिंसा परं बलं । ४०८४-२ अहिंसा परमं मित्रं अहिंसा परमं सुखं । ४०८४-३ अहिंसा परमं सत्यं अहिंसा परमं श्रुतं ।। ४०८५-१ अहिंसा परमो धर्मो ह्यहिंसैव परं तपः । ४०८५-२ अहिंसा परमं दानं इत्याहुर्मुनयः सदा ।। ४०८६-१ अहिंसापूर्वको धर्मो यस्मात्सर्वहिते रतः । ४०८६-२ यूकामत्कुणदंशादींस्तस्मात्तानपि रक्षयेत् ।। ४०८७-१ अहिंसा प्रथमं पुष्पं द्वितीयेन्द्रियनिग्रहं । ४०८७-२ तृतीयं तु दया पुष्पं तुरीयं दानपुष्पकं ।। ४०८८-१ अहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनं । ४०८८-२ पञ्चस्वेतेषु वाक्येषु सर्वे धर्माः प्रतिष्ठिताः ।। ४०८९-१ अहिंसा सत्यमस्तेयं ब्रह्मचर्यपरिग्रहः । ४०८९-२ इष्टानिष्टपरा चिन्ता यम एष प्रकीर्तितः ।। ४०९०-१ अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः । ४०९०-२ एतं सामासिकं धर्मं चातुर्वर्ण्येऽब्रवीन्मनुः ।। ४०९१-१ अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः । ४०९१-२ दानं दमो दया क्षान्तिः सर्वेषां धर्मसाधनं ।। ४०९२-१ अहिंसा सत्यवचनं सर्वभूतानुकम्पनं । ४०९२-२ शमो दानं यथाशक्ति गार्हस्थ्यो धर्म उत्तमः ।। ४०९३-१ अहिंसा सत्यवचनं सर्वभूतेषु चार्जवं । ४०९३-२ क्षमा चैवाप्रमादश्च यस्यैते स सुखी भवेत् ।। ४०९४-१ अहिंसा सत्यवचनं आनृशंस्यं दमो घृणा । ४०९४-२ एतत्तपो विदुर्धीरा न शरीरस्य शोषणं ।। ४०९५-१ अहिंसा सूनृता वाणी सत्यं शौचं दया क्षमा । ४०९५-२ वर्णिनां लिङ्गिनां चैव सामान्यो धर्म उच्यते ।। ४०९६-१ अहिंसासूनृतास्तेयब्रह्माकिंचनतारतं । ४०९६-२ सुपात्रं मुनिभिः प्रोक्तं राजद्वेषविवर्जितं ।। ४०९७-१ अहिंस्रस्य तपोऽक्षय्यं अहिंस्रो यजते सदा । ४०९७-२ अहिंस्रः सर्वभूतानां यथा माता यथा पिता ।। ४०९८-१ अहितं च हिताकारं धार्ष्ट्याज्जल्पन्ति ये नराः । ४०९८-२ अवेक्ष्य मन्त्रबाह्यास्ते कर्तव्याः कृत्यदूषणाः ।। ४०९९-१ अहितहितविचारशून्यबुद्धेः श्रुतिसमयैर्बहुभिर्बहिष्कृतस्य । ४०९९-२ उदरभरणमात्रकेवलेच्छोः पुरुषपशोश्च पशोश्च को विशेषः ।। ४१००-१ अहितात्प्रतिषेधश्च हिते चानुप्रवर्तनं । ४१००-२ व्यसने चापरित्यागस्त्रिविधं मित्रलक्षणं ।। ४१०१-१ अहितादनपत्रपस्त्रसन्नतिमात्रोज्झितभीरनास्तिकः । ४१०१-२ विनयोपहितस्त्वया कुतः सदृशोऽन्यो गुणवानविस्मयः ।। ४१०२-१ अहितुण्डिकदृष्टीनां अशेषा भोगिनः पदं । ४१०२-२ न संवर्ताग्निसारथ्ये स्थाता यन्मुखमारुतः ।। ४१०३-१ अहिते प्रतिषेधश्च हिते चानुप्रवर्तनं । ४१०३-२ व्यसने चापरित्यागस्त्रिविधं मित्रलक्षणं ।। ४१०४-१ अहिते हितबुद्धिरल्पधीरवमन्येत मतानि मन्त्रिणां । ४१०४-२ चपलः सहसैव संपतन्नरिखङ्गाभिहतः प्रबुध्यते ।। ४१०५-१ अहिते हितमिच्छन्ति निसर्गात्सरसास्तु ये । ४१०५-२ पीडितोऽपीक्षुदण्डो हि रसमेव ददात्यरं ।। ४१०६-१ अहिभवनविधानान्यायुधीकृत्य शैलानमरजयिनि सैन्ये रक्षसामात्तकक्ष्ये । ४१०६-२ कथमिव रणभूमौ वर्तते वानराणां उपवनतरुवल्लीपल्लवोन्माथि यूथं ।। ४१०७-१ अहिभूषणोऽप्यभयदः सुकलितहालाहलोऽपि यो नित्यः । ४१०७-२ दिग्वसनोऽप्यखिलेशस्तं शशधरशेखरं वन्दे ।। ४१०८-१ अहिरण्यमदासीकं गृहं गोरसवर्जितं । ४१०८-२ प्रतिकूलकलत्रं च नरकस्यापरो विधिः ।। ४१०९-१ अहिरहिरिति संभ्रमपदं इतरजनः किमपि कातरो भवतु । ४१०९-२ विहगपतेराहारः स तु सरलमृणालदलरुचिरः ।। ४११०-१ अहिराजः पुरुषेऽस्मिन्धूम्रा धात्री कुलत्थवर्णोऽश्मा । ४११०-२ माहेन्द्री वहति शिरा भवति सफेनं सदा तोयं ।। ४१११-१ अहिरिपुपतिकान्तातातसंबद्धकान्ता- हरतनयनिहन्तृप्राणदातृध्वजस्य । ४१११-२ सखिसुतसुतकान्तातातसम्पूज्यकान्ता- पितृशिरसि पतन्ती जाह्नवी नः पुनातु ।। ४११२-१ अहिरिव जनयोगं सर्वदा वर्जयेद्यः कुणमिव वसु नारीं त्यक्तकामो विरागी । ४११२-२ विषमिव विषयार्थान्मन्यमानो दुरन्ताञ्जयति परमहंसो मुक्तिभावं समेति ।। ४११३-१ अहिर्बिडालो जामाता एडका च सपुत्रिणी । ४११३-२ आत्मभाग्यं न पश्यन्ति भागिनेयस्तु पञ्चमः ।। ४११४-१ अहीनकालं राजार्थं स्वार्थं प्रियहितैः सह । ४११४-२ परार्थं देशकाले च ब्रूयाद्धर्मार्थसंहितं ।। ४११५-१ अहीनभुजगाधीशवपुर्वलयकङ्कणं । ४११५-२ शैलादिनन्दिचरितं क्षतकन्दर्पदर्पकं ।। ४११६-१ वृषपुंगवलक्ष्माणं शिखिपावकलोचनं । ४११६-२ ससर्वमङ्गलं न्ॐइ पार्वतीसखमीश्वरं ।। ४११७-१ अहीन्द्रान्पातालाद्विषमिव निमज्ज्योद्धरति यः य आरुह्य स्वर्गं कवलयति सेन्द्रान्सुरगणान् । ४११७-२ महीं भ्रान्त्वा भ्रान्त्वा रघुनलनृपा येन विजिताः स मृत्युः कालं न क्षमत इति मा कार्ष्ट मनसि ।। ४११८-१ अहृतहृदयाः सन्तः सत्यं ब्रवीमि निशम्यतां विपिनमधुना गत्वा वासो मृगैः सह कल्प्यतां । ४११८-२ सुजनचरितध्वंसिन्यस्मिन्खलोदयशालिनि प्रभवति कलौ नायं कालो गृहेषु भवादृशां ।। ४११९-१ अहेतुः पक्षपातो यस्तस्य नास्ति प्रतिक्रिया । ४११९-२ स हि स्नेहात्मकस्तन्तुरन्तर्भूतानि सीव्यति ।। ४१२०-१ अहेतु भ्रूकुटिं नैव सदा कुर्वीत पार्थिवः । ४१२०-२ विना दोषेण यो भृत्यान्राजा धर्मेण पालयेत् ।। ४१२१-१ अहेरिव गुणाद्भीतो मिष्टान्नाद्या विषादिव । ४१२१-२ राक्षसीभ्य इव स्त्रीभ्यः स विद्यामधिगच्छति ।। ४१२२-१ अहो अनौचितीयं ते हृदि शुद्धेऽप्यशुद्धवत् । ४१२२-२ अङ्कः खलैरिवाकल्पि नखैस्तीक्ष्णमुखैर्मम ।। ४१२३-१ अहो अहं नमो मह्यं यदहं वीक्षितोऽनया । ४१२३-२ बालया त्रस्तसारङ्गचपलायतनेत्रया ।। ४१२४-१ अहो अहीनामपि लेहनं स्याद्दुःखानि नूनं नृपसेवनानि । ४१२४-२ एकोऽहिना दष्टमुपैति मृत्युं क्ष्मापेन दष्टस्तु सगोत्रमित्रः ।। ४१२५-१ अहो अहोभिर्न कलेर्विदूयते सुधासुधारामधुरं पदे पदे । ४१२५-२ दिने दिने चन्दनचन्द्रशीतलं यशो यशो दातनयस्य गीयते ।। ४१२६-१ अहो अहोभिर्महिमा हिमागमे-ऽप्यभिप्रपेदे प्रति तां स्मरार्दितां । ४१२६-२ तपर्तुपूर्तावपि मेदसां भरा विभावरीभिर्विभरांबभूविरे ।। ४१२७-१ अहो ऐश्वर्यमत्तानां मत्तानामिव मानिनां । ४१२७-२ असंबद्धा गिरो रूक्षाः कः सहेतानुशासिता ।। ४१२८-१ अहो कथमसीमेदं हिमनाम विजृम्भते । ४१२८-२ चरत्येव सहस्रांशौ धवलं तिमिरान्तरं ।। ४१२९-१ अहो कनकमाहात्म्यं वक्तुं केनापि शक्यते । ४१२९-२ नामसाम्यादहो चित्रं धत्तूरोऽपि मदप्रदः ।। ४१३०-१ अहो कालस्य सूक्ष्मोऽयं कोऽप्यलक्ष्यक्रमः क्रमः । ४१३०-२ यत्पाकपरिणामेन सर्वं यात्यन्यरूपतां ।। ४१३१-१ अहो किमपि ते शुद्धं यशःकुसुममुद्गतं । ४१३१-२ यस्यायममृतस्यन्दी बालेन्दुर्बाह्यपल्लवः ।। ४१३२-१ अहो कुटिलबुद्धीनां दुर्ग्राह्यमसतां मनः । ४१३२-२ अन्यद्वचसि कण्ठेऽन्यदन्यदोष्ठपुटे स्थितं ।। ४१३३-१ अहो केनेदृशी बुद्धिर्दारुणा तव निर्मिता । ४१३३-२ त्रिगुणा श्रूयते बुद्धिर्न तु दारुमयी क्वचित् ।। ४१३४-१ अहो खलभुजंगस्य विचित्रोऽयं वधक्रमः । ४१३४-२ अन्यस्य दशति श्रोत्रं अन्यः प्राणैर्वियुज्यते ।। ४१३५-१ अहो खलभुजंगस्य विपरीतो वधक्रमः । ४१३५-२ कर्णे लगति चान्यस्य प्राणैरन्यो वियुज्यते ।। ४१३६-१ अहो गुणाः स्ॐयता च विद्वत्ता जन्म सत्कुले । ४१३६-२ दारिद्र्याम्बुधिमग्नस्य सर्वमेतन्न शोभते ।। ४१३७-१ अहो गुणानां प्राप्त्यर्थं यतन्ते बहुधा नरः । ४१३७-२ मुक्ता यदर्थं भग्नास्या इतरेषां च का कथा ।। ४१३८-१ अहो तम इवेदं स्यान्न प्रज्ञायेत किंचन । ४१३८-२ राजा चेन्न भवेल्लोके विभजन्साध्वसाधुनी ।। ४१३९-१ अहोऽतिनिर्मोहि जनस्य चित्रं परं चरित्रं गदितुं न योग्यं । ४१३९-२ मुखे हि चान्यद्धृदि भावमन्यत्देवो न जानाति कुतो मनुष्यः ।। ४१४०-१ अहोऽतिबलवद्दैवं विना तेन महात्मना । ४१४०-२ यदसामर्थ्ययुक्तेऽपि नीचवर्गे जयप्रदं ।। ४१४१-१ अहो तृष्णावेश्या सकलजनतामोहनकरी विदग्धा मुग्धानां हरति विवशानां शमधनं । ४१४१-२ विपद्दीक्षादक्षासहतरलतारैः प्रणयिनी- कटाक्षैः कूटाक्षैः कपटकुटिलैः कामकितवः ।। ४१४२-१ अहो दानमहो वीर्यं अहो धैर्यमखण्डितं । ४१४२-२ उदारवीरधीराणां हरिश्चन्द्रो निदर्शनं ।। ४१४३-१ अहो दिव्यं चक्षुर्वहसि तव सापि प्रणयिनी पराक्ष्णामग्राह्यं युवतिषु वपुः संक्रमयति । ४१४३-२ समानाभिज्ञानं कथमितरथा पश्यति पुरो भवानेकस्तस्याः प्रतिकृतिमयीरेव रमणीः ।। ४१४४-१ अहो दुःखमहोदुःखमहो दुःखं दरिद्रता । ४१४४-२ तत्रापि पुत्रभार्याणां बाहुल्यमतिदुःखदं ।। ४१४५-१ अहो दुरन्ता जगतो विमूढता विलोक्यतां संसृतिदुःखदायिनी । ४१४५-२ सुसाध्यमप्यन्नविधानतस्तपो यतो जनो दुःखकरोऽवमन्यते ।। ४१४६-१ अहो दुरन्ता संसारे भोगतृष्णा यया हृताः । ४१४६-२ अनौचित्यादकीर्तेश्च देवा अपि न बिभ्यति ।। ४१४७-१ अहो दुर्जसंसर्गान्मानहानिः पदे पदे । ४१४७-२ पावको लोहसङ्गेन मुद्गरैरभिहन्यते ।। ४१४८-१ अहो दुर्जनसर्पस्य सर्पस्य महदन्तरं । ४१४८-२ कर्णमन्यस्य दशति अन्यः प्राणैर्वियुज्यते ।। ४१४९-१ अहो दैन्यमहो कष्टं पारक्यैः क्षणभङ्गुरैः । ४१४९-२ यन्नोपकुर्यादस्वार्थैर्मर्त्यः स्वज्ञातिविग्रहैः ।। ४१५०-१ अहो धनमदान्धस्तु पश्यन्नपि न पश्यति । ४१५०-२ यदि पश्यत्यात्महितं स पश्यति न संशयः ।। ४१५१-१ अहो धनानां महती विदग्धता सुखोषितानां कृपणस्य वेश्मनि । ४१५१-२ व्रजन्ति न त्यागदशां न भोग्यतां परां च कांचित्प्रथयन्ति निर्वृतिं ।। ४१५२-१ अहो धनुषि नैपुण्यं मन्मथस्य महात्मनः । ४१५२-२ शरीरमक्षतं कृत्वा भिनत्त्यन्तर्गतं मनः ।। ४१५३-१ अहो धात्रा पुरः सृष्टं साहसं तदनु स्त्रियः । ४१५३-२ नैतासां दुष्करं किंचिन्निसर्गादिह विद्यते ।। ४१५४-१ अहो धार्ष्ट्यमसाधूनां निन्दतामनघाः स्त्रियः । ४१५४-२ मुष्णतामिव चौराणां तिष्ठ चौरेति जल्पतां ।। ४१५५-१ अहो नक्षत्रराजस्य साभिमानं विचेष्टितं । ४१५५-२ परिक्षीणस्य वक्रत्वं संपूर्णस्य सुवृत्तता ।। ४१५६-१ अहो नु कष्टं सततं प्रवासं ततोऽतिकष्टः परगेहवासः । ४१५६-२ कष्टाधिका नीचजनस्य सेवा ततोऽतिकष्टा धनहीनता च ।। ४१५७-१ अहो नु चित्रं पद्मोत्थैर्बद्धास्तन्तुभिरद्रयः । ४१५७-२ अविद्यमाना याविद्या तया सर्वे वशीकृताः ।। ४१५८-१ अहो पूर्णं सरः स्पष्टं असि नात्र विचारणा । ४१५८-२ लुठन्तस्त्वयि यत्सर्वे स्नान्ति जातु कथंचन ।। ४१५९-१ अहो प्रकृतिसादृश्यं श्लेष्मणो दुर्जनस्य च । ४१५९-२ मधुरैः कोपमायाति कटुकैरुपशाम्यति ।। ४१६०-१ अहो प्रच्छादिताकार्यनैपुण्यं परमं खले । ४१६०-२ यत्तुषाग्निरिवानर्चिर्दहन्नपि न लक्ष्यते ।। ४१६१-१ अहो प्रभावो वाग्देव्या यन्मातंगदिवाकरः । ४१६१-२ श्रीहर्षस्याभवत्सभ्यः समो बाणमयूरयोः ।। ४१६२-१ अहो प्रमादी भगवान्प्रजापतिः कृशातिमध्या घटिता मृगेक्षणा । ४१६२-२ यदि प्रमादादनिलेन भज्यते कथं पुनः शक्ष्यति कर्तुमीदृशं ।। ४१६३-१ अहो बत खलः पुण्यैर्मूर्खोऽप्यश्रुतपण्डितः । ४१६३-२ स्वगुणोदीरणे शेषः परनिन्दासु वाक्पतिः ।। ४१६४-१ अहो बत महत्कष्टं विपरीतमिदं जगत् । ४१६४-२ येनापत्रपते साधुरसाधुस्तेन तुष्यति ।। ४१६५-१ अहो बत विचित्राणि चरितानि महात्मनां । ४१६५-२ लक्ष्मीं तृणाय मन्यन्ते तद्भारेण नमन्ति च ।। ४१६६-१ अहो बत सभा सभ्यैरियं मौनादधः कृता । ४१६६-२ सन्तो वदन्ति यत्सत्यं सभां न प्रविशन्ति वा ।। ४१६७-१ अहो बत सरित्पतेरिदमनार्यरूपं परं यदुज्ज्वलरुचीन्मणीन्सुचिरचर्चितास्थागुणान् । ४१६७-२ जडैरनुपयोगिभिः परत एत्य लब्धास्पदैः क्षपत्यनिशमूर्जितैर्झगिति तन्मयत्वं गतः ।। ४१६८-१ अहो बाणस्य संधानं शरदि स्मरभूपतेः । ४१६८-२ अपि सोऽयं त्विषामीशः कन्याराशिमुपागतः ।। ४१६९-१ अहो ब्रह्मण्यदेवस्य दृष्टा ब्रह्मण्यता मया । ४१६९-२ यद्दरिद्रतमो लक्ष्मीं आश्लिष्टो बिभ्रतोरसि ।। ४१७०-१ अहो भवति सादृश्यं मृदङ्गस्य च खलस्य च । ४१७०-२ यावन्मुखगतौ तौ हि तावन्मधुरभाषिणौ ।। ४१७१-१ अहो भार्या अहो पुत्रः अहो आत्मा अहो सुखं । ४१७१-२ अहो माता अहो भ्राता पश्य मायाविमोहितं ।। ४१७२-१ अहो भुवः सप्तसमुद्रवत्या द्वीपेषु वर्षेष्वधिपुण्यमेतत् । ४१७२-२ गायन्ति यत्रत्यजना मुरारेः कर्माणि भद्राण्यवतारवन्ति ।। ४१७३-१ अहो मदावलेपोऽयं असाराणां दुरात्मनां । ४१७३-२ कौरवाणां महीपत्वं अस्माकं किल कालजं ।। ४१७४-१ अहो महच्चित्रमिदं कालगत्या दुरत्यया । ४१७४-२ आरुरुक्षत्युपानद्वै शिरो मुकुटसेवितं ।। ४१७५-१ अहो महत्त्वं महतामपूर्वं विपत्तिकालेऽपि परोपकारः । ४१७५-२ यथास्यमध्ये पतितोऽपि राहोः कलानिधिः पुण्यचयं ददाति ।। ४१७६-१ अहो महीयसां पुंसां उपर्युपरि पौरुषं । ४१७६-२ रामेणाजगवं शंभोर्भग्नमम्भोजनालवत् ।। ४१७७-१ अहो मायाजालं हृदयहरिणो यत्र पतितः समुत्थातुं भूयः प्रभवति न किंचित्कथमपि । ४१७७-२ न चेत्तस्य च्छेत्ता परमगुरुवाक्योपनमितो निजात्मज्ञानाखुर्विविधदृढसद्युक्तिदशनैः ।। ४१७८-१ अहो मायाबलं विष्णोः स्नेहबद्धमिदं जगत् ।। ४१७९-१ क्व देहो भौतिकोऽनात्मा क्व चात्मा प्रकृतेः परः । ४१७९-२ कस्य के पतिपुत्राद्या मोह एव हि कारणं ।। ४१८०-१ अहो मे सौभाग्यं मम च भवभूतेश्च भणितं घटायामारोप्य प्रतिफलति तस्यां लघिमनि । ४१८०-२ गिरां देवी सद्यः श्रुतिकलितकल्हारकलिका- मधूलीमाधुर्यं क्षिपति परिपूर्त्यै भगवती ।। ४१८१-१ अहो मोहः पुंसामिह जगति जातिः किल शुभा जरामृत्युव्याधीनपि जयति या निष्प्रभतया । ४१८१-२ परस्माज्जातानां व्यसनशतमेतेऽपि दधति स्वयं सुत्वा तेभ्यो विदिशति सुतान्सा विशसितुं ।। ४१८२-१ अहो मोहो वराकस्य काकस्य यदसौ पुरः । ४१८२-२ सरीसर्ति नरीनर्ति यदयं शिखिहंसयोः ।। ४१८३-१ अहो येषां वरं जन्म सर्वप्राण्युपजीवनं । ४१८३-२ सुजनस्येव येषां वै विमुखा यान्ति नार्थिनः ।। ४१८४-१ अहो रघुशिर्ॐअणेरभिनवप्रतापावलि- प्रचण्डकिरणप्रथाप्रसरसाध्वसादाश्वयं । ४१८४-२ सुराधिपतिरम्बुदान्कमलमिन्दिरा सेवते हिमांशुरपि चन्द्रमाः सततमम्भुधौ मज्जति ।। ४१८५-१ अहोरात्रमये लोके जरारूपेण संचरन् । ४१८५-२ मृत्युर्ग्रसति भूतानि पवनं पन्नगो यथा ।। ४१८६-१ अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनामिह । ४१८६-२ आयूंषि क्षपयन्त्याशु ग्रीष्मे जलमिवांशवः ।। ४१८७-१ अहोरात्रे विभजते सूर्यो मानुषदैविके । ४१८७-२ रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः ।। ४१८८-१ अहो रूपमहो रूपं अहो मुखमहो मुखं । ४१८८-२ अहो मध्यमहो मध्यं अस्याः सारङ्गचक्षुषः ।। ४१८९-१ अहो विधातस्त्वमतीव बालिशो यस्त्वात्मसृष्ट्यप्रतिरूपमीहसे । ४१८९-२ परेऽनुजीवत्यपरस्य या मृतिर्विपर्ययश्चेत्त्वमसि ध्रुवः परः ।। ४१९०-१ न हि क्रमश्चेदिह मृत्युजन्मनोः शरीरिणामस्तु तदात्मकर्मभिः । ४१९०-२ यः स्नेहपाशो निजसर्गवृद्धये स्वयं कृतस्ते तमिमं विवृश्चसि ।। ४१९१-१ अहो विधात्रा हतकेन नार्थात्कृतो वियोगोऽपि वियोगिनां नः । ४१९१-२ रथाङ्गनाम्नामिव येन सीमा न विद्यते नापि सपक्षवत्त्वं ।। ४१९२-१ अहो विशालं भूपाल भुवनत्रितयोदरं । ४१९२-२ माति मातुमशक्योऽपि यशोराशिर्यदत्र ते ।। ४१९३-१ अहो विषादप्यधिकाः स्त्रियो रक्तविमानिताः । ४१९३-२ अहो असेव्याः साधूनां राजानोऽतत्त्वदर्शिनः ।। ४१९४-१ अहो वैचित्र्यमेतस्य संसारस्य किमुच्यते । ४१९४-२ गुणोऽपि क्लेशहेतुः स्याद्विश्रान्तः कण्ठकन्दले ।। ४१९५-१ अहो संसारवैरस्यं वैरस्यकारणं स्त्रियः । ४१९५-२ दोलालोला च कमला रोगाभोगगेहं देहं ।। ४१९६-१ अहो संसृतिवेश्येयं रागाद्युद्दीपनोद्यता । ४१९६-२ रसमुत्पाद्य सर्वेषां अन्ते वैरस्यकारिणी ।। ४१९७-१ अहो सत्संगतिर्लोके किं पापं न विनाशयेत् । ४१९७-२ न ददाति सुखं किं वा नराणां पुण्यकर्मणां ।। ४१९८-१ अहो समुद्रगम्भीरधीरचित्तमनस्विनः । ४१९८-२ कृत्वाप्यनन्यसामान्यं उल्लेखं नोद्गिरन्ति ये ।। ४१९९-१ अहो साहजिकं प्रेम दूरादपि विराजते । ४१९९-२ चकोरनयनद्वन्द्वं आह्लादयति चन्द्रमाः ।। ४२००-१ अहो सुसदृशी वृत्तिस्तुलाकोटेः खलस्य च । ४२००-२ स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिं ।। ४२०१-१ अहो स्त्रीप्रेरणा नाम रजसालङ्घितात्मनां । ४२०१-२ पुंसां वात्येव सरसामाशयक्षोभकारिणी ।। ४२०२-१ अहो स्थिरः कोऽपि तवेप्सितो युवा चिराय कर्णोत्पलशून्यतां गते । ४२०२-२ उपेक्षते यः श्लथबन्धलम्बिनीर्जटाः कपोले कलमाग्रपिङ्गलाः ।। ४२०३-१ अहो स्थैर्यं तेषां प्रकृतिनियमेभ्यः सुकृतिनां प्रतिज्ञातत्यागो नहि भवति कृच्छ्रेऽपि महति । ४२०३-२ तथा हि त्वत्सेनाभरनमितधात्रीभरदलत्- कटाहोऽपि स्वाङ्गं किमु कमठनाथश्चलयति ।। ४२०४-१ अहो हि मे बह्वपराद्धमायुषा यदप्रियं वाच्यमिदं मयेदृशं । ४२०४-२ त एव धन्याः सुहृदः पराभवं जगत्यदृष्ट्वैव हि ये क्षयं गताः ।। ४२०५-१ अहौ वा हारे वा बलवति रिपौ वा सुहृदि वा मणौ वा लोष्टे वा कुसुमशयने वा दृषदि वा । ४२०५-२ तृणे वा स्त्रैणे वा मम समदृशो यान्तु दिवसाः क्वचित्पुण्येऽरण्ये शिव शिव शिवेति प्रलपतः ।। ४२०६-१ अह्नस्त्रिश्चतुरम्बुभिः स्नपयसि स्वं पुष्करावर्जितैर्भुङ्क्षे मेध्यतराणि भद्र तरुणान्यश्वत्थपत्राणि च । ४२०६-२ पुण्यारण्यचरोऽसि न प्रविशसि ग्रामं सकृत्कुञ्जर ज्ञानं चेत्कियदप्युदेति न समा ब्रह्मर्षयोऽपि त्वया ।। ४२०७-१ अह्नि भास्करमिच्छन्ति रात्रावमृततेजसं । ४२०७-२ अह्नि रात्रौ च राजानं इच्छन्ति गुणिनं प्रजाः ।। ४२०८-१ अह्नि रविर्दहति त्वचि वृद्धः पुष्पधनुर्दहति प्रबलोढं । ४२०८-२ रात्रिदिनं पुनरन्तरमन्तः संवृतिरस्ति रवेर्न तु कन्तोः ।। ४२०९-१ आं ज्ञातं नृपते त्वमेव निखिलां नित्यं बिभर्षि क्षितिं शैलेन्द्राः स्वयमेव दुर्भरभरास्तैः प्रत्युताधो व्रजेत् । ४२०९-२ अस्याश्चोद्धरणे क्षमोऽपि न परस्त्वत्तो वराहादिकः पश्वादेर्भरणक्रियानिपुणता नैव प्रभागोचरः ।। ४२१०-१ आः कष्टं वनवासिसाम्यकृतया सिद्धाश्रमश्रद्धया पल्लीं बालकुरङ्ग संप्रति कुतः प्राप्तोऽसि मृत्योर्मुखं । ४२१०-२ यत्रानेककुरङ्गकोटिकदनक्रीडोल्लसल्लोहित- स्रोतोभिः परिपूरयन्ति परिखामुड्डामराः पामराः ।। ४२११-१ आः कष्टं सुविवेकशून्यहृदयैः संसर्गमाप्तं च तैर्विक्रीतं बदरैः समं क्षितितले कुग्रामसीम्नि स्फुटं । ४२११-२ संविष्टंशठगाढमूढवदने धूत्कारदूरीकृतं किं जानात्यगुणो जनो गुणमतो मुक्ताफलं रोदिति ।। ४२१२-१ आः कष्टमप्रःऋष्टाः शिष्टा अपि वित्तचापलाविष्टाः । ४२१२-२ अध्यापयन्ति वेदानादाय चिराय मासि मासि भृतिं ।। ४२१३-१ आः किमर्थमिदं चेतः सतामम्भोधिदुर्भरं । ४२१३-२ इति क्रुधेव दुर्वेधाः परदुःखैरपूरयत् ।। ४२१४-१ आः पाकं न करोषि पापिनि कथं पापी त्वदीयः पिता रण्डे जल्पसि किं तवैव जननी रण्डा त्वदीया स्वसा । ४२१४-२ निर्गच्छ त्वरितं गृहाद्बहिरितो नेदं त्वदीयं गृहं हा हा नाथ ममाद्य देहि मरणं जारस्य भाग्योदयः ।। ४२१५-१ आः पात्री स्यामकृतकघनप्रेमविस्फारितानां सव्रीडानां सकलकरणानन्दनाडिंधमानां । ४२१५-२ तेषां तेषां हृदयनिहिताकूतनिष्यन्दिनेत्र- व्यापाराणां पुनरपि तथा सुभ्रुवो विभ्रमाणां ।। ४२१६-१ आः सर्वतः स्फुरतु कैरवमापिबन्तु ज्योत्स्नाकरम्भमुदरंभरयश्चकोराः । ४२१६-२ यातो यदेष चरमाचलमूलचुम्बी पङ्केरुहप्रकरजागरणप्रदीपः ।। ४२१७-१ आः सीते पतिगर्वविभ्रमभरभ्रान्तभ्रमद्बान्धव- प्रध्वंसस्मितकान्तिमत्तव तदा जातं यदेतन्मुखं । ४२१७-२ संप्रत्येव हठात्तदेष कुरुते केशोच्चयाकर्षण- त्रासोत्तानितलोललोचनपतद्बाष्पप्लुतं रावणः ।। ४२१८-१ आकण्ठदृष्टशिरसाप्यविभाव्यपार्श्व- पृष्ठोदरेण चिरमृग्भिरुपास्यमानः । ४२१८-२ नाभीसरोरुहजुषा चतुराननेन शेते किलात्र भगवानरविन्दनाभः ।। ४२१९-१ आकण्ठार्पितकञ्चुकाञ्चलमुरो हस्ताङ्गुलीमुद्रणा- मात्रासूत्रितहास्यमास्यमलसाः पञ्चालिकाकेलयः । ४२१९-२ तिर्यग्लोचनचेष्टितानि वचसां च्छेकोक्तिसंक्रान्तयस्तस्याःसीदति शैशवे प्रतिकलं कोऽप्येष केलिक्रमः ।। ४२२०-१ आकम्पयन्फलभरानतशालिजालं आनर्तयंस्तरुवरान्कुसुमावनम्रान् । ४२२०-२ उत्फुल्लपङ्कजवनां नलिनीं विधुन्वन्यूनां मनश्चलयति प्रसभं नभस्वान् ।। ४२२१-१ आकम्पितक्षितिभृता महता निकामं हेलाभिभूतजलधित्रितयेन यस्य । ४२२१-२ वीर्येण संहतिभिदा विहतोन्नतेन कल्पान्तकालविसृतः पवनोऽनुचक्रे ।। ४२२२-१ आकम्पितानि हृदयानि मनस्विनीनां वातैः प्रफुल्लसहकारकृताधिवासैः । ४२२२-२ संबाधितं परभृतस्य मदाकुलस्य श्रोत्रप्रियैर्मधुकरस्य च गीतनादैः ।। ४२२३-१ आकरः कारणं जन्तोर्दौर्जन्यस्य न जायते । ४२२३-२ कालकूटः सुधासिन्धोः प्राणिनां प्राणहारकः ।। ४२२४-१ आकरः सर्वशास्त्राणां रत्नानामिव सागरः । ४२२४-२ गुणैर्न परितुष्यामो यस्य मत्सरिणो वयं ।। ४२२५-१ आकरप्रभवः कोशः कोशाद्दण्डः प्रजायते । ४२२५-२ पृथिवी कोशदण्डाभ्यां प्राप्यते कोशभूषणा ।। ४२२६-१ आकर्णपलितः श्यामो वयसाशीतिपञ्चकः । ४२२६-२ रणे पर्यचरद्द्रोणो वृद्धः षोडशवर्षवत् ।। ४२२७-१ आकर्णमुल्लसति मातरपाङ्गदेशे कालाञ्जनेन घटिता तव भाति रेखा । ४२२७-२ शैवालपङ्क्तिरिव संततनिर्जिहान- कारुण्यपूरपदवी कलितानुबन्धा ।। ४२२८-१ आ कर्णमूलमपकृत्य धनुः सबाणं मय्येव किं प्रहरसि स्मर बद्धकोपः । ४२२८-२ तस्यां मुहुः क्षिप शरान्हरिणेक्षणायां तन्मन्मथोऽपि भव मन्मथ एव मा भूः ।। ४२२९-१ आकर्णय त्वमिममभ्युपगम्य वादं जानातु कोऽपि यदि वा हृदयं श्रुतीनां । ४२२९-२ तस्याप्यसंख्यभवबन्धशतार्जितोऽयं द्वैतभ्रमो गलतु जन्मशतैः कियद्भिः ।। ४२३०-१ आकर्णय सरोजाक्षि वचनीयमिदं भुवि । ४२३०-२ शशाङ्कस्तव वक्त्रेण पामरैरुपमीयते ।। ४२३१-१ आकर्णान्तविसर्पिणः कुवलयच्छायामुषश्चक्षुषः क्षेपा एव तवाहरन्ति हृदयं किं संभ्रमेणामुना । ४२३१-२ मुग्धे केवलमेतदाहितनखोत्खाताङ्कमुत्पांशुलं बाह्वोर्मूलमलीकमुक्तकबरीबन्धच्छलाद्दर्शितं ।। ४२३२-१ आकर्णितानि रसितानि यया प्रसर्पत्प्रद्युम्नराजरथनिःस्वनसोदराणि । ४२३२-२ उच्चै रणच्चरणनूपुरया पुरन्ध्र्या क्षिप्रं प्रियं कुपितयापि तयाभिसस्रे ।। ४२३३-१ आकर्ण्य गर्जितं घोरं जलदानां समागमे । ४२३३-२ बाला विधूतलज्जेव सत्रासं श्लिष्यति प्रियं ।। ४२३४-१ आकर्ण्य गर्जितरवं घनगर्जितुल्यं सिंहस्य यान्ति वनमन्यदिभा भयार्ताः । ४२३४-२ तत्रैव पौरुषनिधिः स्वकुलेन सार्धं दर्पोद्धुरो वसति वीतभयो वराहः ।। ४२३५-१ आकर्ण्य जयदेवस्य गोविन्दानन्दिनीर्गिरः । ४२३५-२ बालिशाः कालिदासाय स्पृहयन्तु वयं तु न ।। ४२३६-१ आकर्ण्यन्ते तपनतनयग्रामसंलापघोषा मन्दं मन्दं ग्रसति नियतः कालपाशोऽपि कण्ठे । ४२३६-२ आपृच्छ्यन्ते कृतजिगमिषासंभ्रमाः प्राणवाता नैवेदानीमपि विषयवैमुख्यमभ्येति चेतः ।। ४२३७-१ आकर्ण्य भूपाल यशस्त्वदीयं विधूनयन्तीह न के शिरांसि । ४२३७-२ विश्वंभराभङ्गभयेन धात्रा नाकारि कर्णौ भुजगेश्वरस्य ।। ४२३८-१ आकर्ण्य मामवादीद्धन्यास्ता युवतयः सखि कठोराः । ४२३८-२ या विषहन्ते दीर्घ- प्रियतमविरहानलासारं ।। ४२३९-१ आकर्ण्य वाणीः पौराणीर्मयैतदवधारितं । ४२३९-२ तिष्ठन्तु देवा देव्योऽपि सेव्यो नारायणः परः ।। ४२४०-१ आकर्ण्य वारवनितापठितं सभायां संपूरणं सपदि पादमुदारभावः । ४२४०-२ यः कालिदासमरणं हृदि निश्चिकाय भोजः स एव परमं भुवि भावबोद्धा ।। ४२४१-१ आकर्ण्य संगरमहार्णवचेष्टितानि गोष्ठीरसाहृतजनस्य मनोविकारः । ४२४१-२ अङ्गे करोति पुलकं नयने विकाशं कान्तिं च कामपि मुखे स्फुरणं च बाह्वोः ।। ४२४२-१ आकर्ण्य स्मरयौवराज्यपटहं जीमूतनूत्नध्वनिं नृत्यत्केकिकुटुम्बकस्य दधतं मन्द्रां मृदङ्गक्रियां । ४२४२-२ उन्मीलन्नवनीलकन्दलदलव्याजेन र्ॐआञ्चिता हर्षेणेव समुच्छ्रितान्वसुमती दध्रे शिलीन्ध्रध्वजान् ।। ४२४३-१ आकर्ण्याम्रफलस्तुतिं जलमभूत्तन्नारिकेलान्तरं प्रायः कण्टकितं तथैव पनसं जातं द्विधोर्वारुकं । ४२४३-२ आस्तेऽध्ॐउखमेव कादलफलं द्राक्षाफलं क्षुद्रतां श्यामत्वं बत जाम्बवं गतमहो मात्सर्यदोषादिह ।। ४२४४-१ आकर्षतेवोर्ध्वमतिक्रशीयानत्युन्नतत्वात्कुचमण्डलेन । ४२४४-२ ननाम मध्योऽतिगुरुत्वभाजा नितान्तमाक्रान्त इवाङ्गनानां ।। ४२४५-१ आकर्षन्ति न केषां अन्तःकरणं प्रवालशालिन्यः । ४२४५-२ ललना इवात्र लतिकाः कुसुमेषु शिलीमुखैर्निचिताः ।। ४२४६-१ आकर्षन्निव गां वमन्निव खुरान्पश्चार्धमुज्झन्निव स्वीकुर्वन्निव खं पिबन्निव दिशश्छायाममर्षन्निव । ४२४६-२ साङ्गारप्रकरां स्पृशन्निव धरां वातं समश्नन्निव श्रीमन्नाथ स वाजिराट्तव कथं मादृग्गिरां गोचरः ।। ४२४७-१ आकर्षेत्कैशिकव्याये न शिखां चालयेत्ततः । ४२४७-२ पूर्वापरौ समौ कार्यौ समांसौ निश्चलौ करौ ।। ४२४८-१ आकलितोरुक्रमपद- पद्मालंकृत्यनल्पपुण्यभवं । ४२४८-२ निजगुणगुरुस्वरूपं काव्यञ्जयति प्रसन्नमतिमधुरं ।। ४२४९-१ आकल्पं मुरजिन्मुखेन्दुमधुरोन्मीलन्मरुन्माधुरी- धीरोदात्तमनोहरः सुखयतु त्वां पाञ्चजन्यध्वनिः । ४२४९-२ लीलालङ्घितमेघनादविभवो यः कुम्भकर्णव्यथा- दायी दानवदन्तिनां दशमुखं दिक्चक्रमाक्रामति ।। ४२५०-१ आकल्पं यदि वर्षसि प्रतिदिनं धारासहस्रैस्तथाप्य्- अम्भोधौ कलयत्यगाधजठरे कस्तावकीनं श्रमं । ४२५०-२ अम्भोद क्षणमात्रमुज्झसि पयः पृष्ठे यदि क्ष्माभृतां तत्किं न प्रसरन्ति निर्झरसरिद्व्याजेन ते कीर्तयः ।। ४२५१-१ आकाल्प्य तल्पं शशिकान्तिकल्पं उद्ग्रथ्य वीटीः सुरपुष्पगर्भाः । ४२५१-२ द्वारे दृगन्तान्परिकल्पयन्ती मनो मनोजस्य चमच्चकार ।। ४२५२-१ आ कल्यादा निशीथाच्च कुक्ष्यर्थं व्याप्रियामहे । ४२५२-२ न च निर्वृणुमो जातु शान्तास्तु सुखमासते ।। ४२५३-१ आकस्मिकस्मितमुखीषु सखीषु विज्ञा विज्ञास्वपि प्रणयनिह्नवमाचरन्ती । ४२५३-२ तत्रैव रङ्कुनयना नयनारविन्दं अस्पन्दमाहितवती दयिते गतेऽपि ।। ४२५४-१ आकाङ्क्षिणं क्ष्मापतिमन्दिराणि प्रविश्य पातालसहोदराणि । ४२५४-२ अधोगतेर्नान्यदुपार्जयन्ति फलं भुजङ्गा इव वायुभक्ष्याः ।। ४२५५-१ आकाङ्क्षोच्चपदेऽहमात्मकमतिः कार्ये मनोधारणा इत्येवंविधभावजातमुचितं धर्तुं न चित्तान्तरे । ४२५५-२ वैषम्यस्य निवारणाय मृगयेस्तत्कारणं नापरे स्वात्मन्येव गवेषयेत्यतितरां श्रेयस्करं ते सदा ।। ४२५६-१ आकारं विनिगूहतां रिपुबलं जेतुं समुत्तिष्ठतां तन्त्रं चिन्तयतां कृताकृतशतव्यापारशाखाकुलं । ४२५६-२ मन्त्रिप्रोक्तनिषेविणां क्षितिभुजामाशङ्किनां सर्वतो दुःखाम्भोनिधिवर्तिनां सुखलवः कान्तासमालिङ्गनं ।। ४२५७-१ आकारः कमनीयताकुलगृहं लीलालसा सा गतिः संपर्कः कमलाकरैः कलतया लोकोत्तरं कूजितं । ४२५७-२ यस्येयं गुणसंपदस्ति महती तस्यापि भव्यस्य ते संरब्धत्वमसद्गुमद्गुकलहे नाहं सहे हंस हे ।। ४२५८-१ आकारः स मनोहरः स महिमा तद्वैभवं तद्वयः सा कान्तिः स च विश्वविस्मयकरः सौभाग्यभाग्योदयः । ४२५८-२ एकैकस्य विशेषवर्णनविधौ तस्याः स एव क्षमो यस्यास्मिन्नुरगप्रभोरिव भवेज्जिह्वासहस्रद्वयं ।। ४२५९-१ आकारणाय मान्त्रिकं आगतदूतस्य वचनमादाय । ४२५९-२ कृत्वा प्रमाणमादावभिमन्त्र्य च तत्र मन्त्रण ।। ४२६०-१ आकारदारुणोऽयं भयमस्मादित्यनिश्चयोऽयमपि । ४२६०-२ भवति महाभैरवमपि शिवस्य रूपं शिवायैव ।। ४२६१-१ आकारपरिवृत्तिस्तु बुद्धेः परिभवः पुनः । ४२६१-२ आशाहानिरिवार्थित्वं परासुत्वमिवापरं ।। ४२६२-१ आकारमात्रविज्ञानसंपादितमनोरथाः । ४२६२-२ धन्यास्ते ये न शृण्वन्ति दीनाः क्वाप्यर्थिनां गिरः ।। ४२६३-१ आकारवेषसौभाग्यैः कन्दर्पप्रतिमोऽपि सन् । ४२६३-२ यासां संगममासाद्य प्राप्तः को वा न वञ्चनां ।। ४२६४-१ आकारश्छाद्यमानोऽपि न शक्यो विनिगूहितुं । ४२६४-२ बलाद्धि विवृणोत्येव भावमन्तर्गतं नृणां ।। ४२६५-१ आकारसंवृतिः कार्या सुरक्तेनापि कामिना । ४२६५-२ रक्तः परिभवं याति परिभूतः कथं प्रियः ।। ४२६६-१ आकारसदृशप्रज्ञः प्रज्ञया सदृशागमः । ४२६६-२ आगमैः सदृशारम्भ आरम्भसदृशोऽदयः ।। ४२६७-१ आकारालापसंभोगैर्यदीयैर्लज्जते जनः । ४२६७-२ अहो वक्रोद्धुरग्रीवस्तैरेव करभोऽधमः ।। ४२६८-१ आकाराहीनकान्तिर्निधनविरहितो योगदोल्लासभागी विक्रान्तो विश्वतुल्यः कमलकलितदृग्विभ्रमोत्कृष्टमूर्तिः । ४२६८-२ नानाशापूर्णकीर्तिः सुखरसमयितो वारणाक्रान्तदेहो यादृग्देव त्वमेवं भवतु रिपुगणोऽप्यादिवर्णप्रलोपात् ।। ४२६९-१ आकारेण तथा गत्या चेष्टया भाषितैरपि । ४२६९-२ नेत्रवक्त्रविकाराभ्यां ज्ञायतेऽन्तर्हितं मनः ।। ४२७०-१ आकारेण नरेण वानरयुवा वाहेन वालेयको व्याघ्रेणैवरथो (?) गवापि गवयः सिंहेन कौलेयकः । ४२७०-२ श्यामाङ्गेन पिकेन काक इति [च] स्पर्धानुबद्धादरा यद्यप्यत्र तथापि तद्गुणगणस्यांशं लभन्ते न ते ।। ४२७१-१ आकारेण शशी गिरा परभृतः पारावतश्चुम्बने हंसश्चङ्क्रमणे समं दयितया रत्या विमर्दे गजः । ४२७१-२ इत्थं भर्तरि मे समस्तयुवतिश्लाघ्यैर्गुणैः सेविते क्षुण्णं नास्ति विवाहितः पतिरिति स्यान्नैष दोषो यदि ।। ४२७२-१ आकारेणैव चतुरास्तर्कयन्ति परेङ्गितं । ४२७२-२ गर्भस्थं केतकीपुष्पं आमोदेनेव षट्पदाः ।। ४२७३-१ आकारे मदनः सुकाव्यरचनाचातुर्ययुक्तौ गुरुः षड्भाषास्वपि दृश्यते व्यसनिता तं दृष्टवत्यः स्त्रियः । ४२७३-२ स्वप्राणेश्वरसङ्गमं सुखकरं हित्वा न जीवन्त्यहो तस्यान्ते क्रियतेऽनया तनययाभ्यासः कलानां कथं ।। ४२७४-१ आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च । ४२७४-२ नेत्रवक्त्रविकारैश्च गृह्यतेऽन्तर्गतं मनः ।। ४२७५-१ आकारैर्न विदन्ति वक्रफणितीर्बोद्धुं न मेधाविनः शब्दाख्येयनिजाशयं कुलवधूवर्गस्य नैतद्व्रतं । ४२७५-२ ग्रामेऽस्मिनृजुवाच्यवाचकहतात्मानो युवानो जडास्तत्त्वज्ञोपगताध्वगावधिरयं कामज्वरः सह्यतां ।। ४२७६-१ आकारो न मनोहरः श्रवणयोः शल्योपमं कूजितं वक्त्रं विड्विकृतं कृतान्तसमयालम्बीदमालोकितं । ४२७६-२ क्रीडासंवनने पृथग्जनचिते वासस्तरौ कुत्सिते तत्केनास्तु वराक काक कनकागारे तवावेशनं ।। ४२७७-१ आकाशकुण्डे सतडिद्धुताशे करोति ह्ॐअं झषकेतुदेवः । ४२७७-२ उच्चाटनायेव वियोगिनीनां यद्गर्जितं सैष हि मन्त्रपाठः ।। ४२७८-१ आकाशतः पतितमेत्य नदादिमध्यं तत्रापि धावनसमुत्थमलावलिप्तं । ४२७८-२ नानाविधावनिगताशुचिपूर्णमर्णो यत्तेन शुद्धिमुपयाति कथं शरीरं ।। ४२७९-१ आकाशदेशात्परिपातुकानि लङ्केशशीर्षाणि सकुन्तलानि । ४२७९-२ क्षणं नभः प्रांशुमहीरुहस्य शिक्याश्रितानीव फलानि रेजुः ।। ४२८०-१ आकाशधारणां कुर्वन्मृत्युं जयति निश्चितं । ४२८०-२ यत्र तत्र स्थितो वापि सुखमत्यन्तमश्नुते ।। ४२८१-१ आकाश प्रसर प्रसर्पत दिशस्त्वं पृथ्वि पृथ्वी भव प्रत्यक्षीकृतमादिराजयशसां युष्माभिरुज्जृम्भितं । ४२८१-२ श्रीमुद्दाफरशाहपार्थिवयशोराशेः समुज्जृम्भणाद्बीजोच्छ्वासविदीर्णदाडिमदशां ब्रह्माण्डमारोक्ष्यति ।। ४२८२-१ आकाशमानसविगाहनराजहंसं नारीजनग्रहिलतानलिनीमहेभं । ४२८२-२ आघ्रायमानरतिनायकसंप्रदाय- दीक्षागुरुं दृशि निवेशय सुन्दरीन्दुं ।। ४२८३-१ आकाशमुत्पततु गच्छतु वा दिगन्तं अम्भोनिधिं विशतु तिष्ठतु वा यथेच्छं । ४२८३-२ जन्मान्तरार्जितशुभाशुभकृन्नराणां छायेव न त्यजति कर्मफलानुबन्धः ।। ४२८४-१ आकाशयानतटकोटिकृतैकपादास्तद्धेमदण्डयुगलान्यवलम्ब्य हस्तैः । ४२८४-२ कौतूहलात्तव तरङ्गविघट्टितानि पश्यन्ति देवि मनुजाः स्वकलेवराणि ।। ४२८५-१ आकाशवापीसितपुण्डरीकं शाणोपलं मन्मथसायकानां । ४२८५-२ पश्योदितं शारदमुत्पलाक्षि संध्याङ्गनाकन्दुकमिन्दुबिंबं ।। ४२८६-१ आकाशश्यामिमानं जलधरघटनां वा दधानं सुधांशुं नूनं मन्ये प्रियास्यं शिरसि शिरसिजैराहितापूर्वशोभं । ४२८६-२ यद्दृष्ट्वा हन्त हर्षं मनसि कलयसे ज्ञानशान्त्यादिभव्या- रामोर्वीजच्छिदायै निशिततरमसिं तं महान्तो ब्रुवन्ति ।। ४२८७-१ आकाशसौधमधिरुह्य दिगङ्गनानां अङ्गेषु निक्षिपति काम्यमिवाङ्गरागं । ४२८७-२ तारावरोधवलितो ललितात्मजश्रीर्ज्योत्स्नाच्छलेन मुदिताखिललोक इन्दुः ।। ४२८८-१ आकाशसौधे शशिसंपटस्थं तमालनीलं शिवलिङ्गमुच्चैः । ४२८८-२ सिद्धाङ्गनेयं रजनी सकामा नक्षत्ररत्नैः परिपूजतीव ।। ४२८९-१ आकाशात्पतितं तोयं यथा गच्छति सागरं । ४२८९-२ सर्वदेवनमस्कारः केशवं प्रति गच्छति ।। ४२९०-१ आकाशात्पतितं पुनर्जलनिधौ मध्ये चिरं संस्थितं पश्चाद्दुःसहदेहरन्ध्रजनितक्लेशान्वितं मौक्तिकं । ४२९०-२ बाले बालकुरङ्गलोचनयुगे घोरं तपः संचरन्नासाभूषणतामुपैति सखि ते बिम्बाधरापेक्षया ।। ४२९१-१ आकाशे नटनं सरोरुहयुगे मञ्जीरमञ्जुध्वनिः शीतांशौ कलकूजितं किसलये पीयूषपानोत्सवः । ४२९१-२ स्वर्गक्षोणिधरे नखात्परिभवो ध्वान्ते कराकर्षणं रम्भायां रसनारवस्तरुणयोः पुण्यानि मन्यामहे ।। ४२९२-१ आकाशे पश्य नेमा निबिडघनघटाः संभृताग्नेयचूर्णा मञ्जूषा भान्ति तासामुपरि सुरधनुः कैतवात्केतवोऽमी । ४२९२-२ विद्युन्नो नालयन्त्रश्रुतिमुखनिपतद्दीप्तवर्त्तिप्रकाशः सैन्यं मारस्य मन्ये स्फुरति विमथितुं मानिनी मानदुर्गं ।। ४२९३-१ आकिंचन्यं च राज्यं च तुलया समतोलयं । ४२९३-२ अत्यरिच्यत दारिद्र्यं राज्यादपि गुणाधिकं ।। ४२९४-१ आकिंचन्यं सुखं लोके पथ्यं शिवमनामयं । ४२९४-२ अनमित्रमथो ह्येतद्दुर्लभं सुलभं सतां ।। ४२९५-१ आकिंचन्यं सुसंतोषो निराशीष्ट्वमचापलं । ४२९५-२ एतदाहुः परं श्रेय आत्मज्ञस्य जितात्मनः ।। ४२९६-१ आकिंचन्यादतिपरिचयाज्जाययोपेक्ष्यमाणो भूपालानामननुसरणाद्बिभ्यदेवाखिलेभ्यः । ४२९६-२ गेहे तिष्ठन्कुमतिरलसः कूपकूर्मैः सधर्मा किं जानीते भुवनचरितं किं सुखं चोपभुङ्क्ते ।। ४२९७-१ आकिंचन्ये च राज्ये च विशेषः सुमहानयं । ४२९७-२ नित्योद्विग्नो हि धनवान्मृत्योरास्यगतो यथा ।। ४२९८-१ आकीर्णः शोभते राजा न विविक्तः कदाचन । ४२९८-२ ये तं विविक्तमिच्छन्ति ते तस्य रिपवः स्मृताः ।। ४२९९-१ आकुञ्चिताग्राङ्गुलिना ततोऽन्यः किंचित्समावर्जितनेत्रशोभः । ४२९९-२ तिर्यग्विसंसर्पिनखप्रभेण पादेन हैमं विलिलेख पीठं ।। ४३००-१ आकुञ्चितैकजङ्घं दरावृतोर्ध्वोरु गोपितार्धोरु । ४३००-२ सुतनोः श्वसितक्रमनमदृ- उदरस्फुटनाभि शयनमिदं ।। ४३०१-१ आकुञ्चितोरू द्वौ यत्र जानुभ्यां धरणिं गतौ । ४३०१-२ दर्दुरक्रममित्याहुः स्थानकं दृढभेदने ।। ४३०२-१ आकुञ्च्य पाणिमशुचिं मम मूर्ध्नि वेश्या मन्त्राम्भसां प्रतिपदं पृषतैः पवित्रे । ४३०२-२ तारस्वनं प्रथितथूत्कमदात्प्रहारं हाहा हतोऽहमिति रोदिति विष्णुशर्मा ।। ४३०३-१ आकुञ्च्याग्रं नखविलिखने पश्यति भ्रूविभङ्ग्या गाढाश्लेषे वदति च ह हा मुञ्च मुञ्चेति वाचं । ४३०३-२ केशाकृष्टावरुणनयना ताडने साश्रुनेत्रा नानाभावं श्रयति तरुणी नाटके मन्मथस्य ।। ४३०४-१ आकुब्जीकृतपृष्ठमुन्नतवलद्वक्त्राग्रपुच्छं भयादन्तर्वेश्मनिवेशितैकनयनं निष्कम्पकर्णद्वयं । ४३०४-२ लालाकीर्णविदीर्णसृक्कविकचद्दंष्ट्राकरालाननः श्वा निःश्वासनिरोधपीवरगलो मार्जारमास्कन्दति ।। ४३०५-१ आकुमारमुपदेष्टुमिच्छवः संनिवृत्तिमपथान्महापदः । ४३०५-२ योगशक्तिजितजन्ममृत्यवः शीलयन्ति यतयः सुशीलतां ।। ४३०६-१ आकुलश्चलपतत्रिकुलानां आरवैरनुदितौषसरागः । ४३०६-२ आययावहरिदश्वविपाण्डुस्तुल्यतां दिनमुखेन दिनान्तः ।। ४३०७-१ आकृतिप्रेमसरसा विलासालसगामिनी । ४३०७-२ विसारे हन्त संसारे सारं सारङ्गलोचना ।। ४३०८-१ आकृतेः किंचिदुल्लेखो विभावयति लक्षणं । ४३०८-२ महतोपप्लवेनेव पीडितं चन्द्रमण्डलं ।। ४३०९-१ आकृष्टः शिखया नखैर्विलिखितः स्पृष्टः कपोलस्थले मौलौ दामभिराहतः प्रतिदिशं क्रामन्सलीलं पथि । ४३०९-२ इत्थं वारविलासिनीकृतपरीहासस्य दैत्याध्वरे विष्णोर्वामनवेषविभ्रमभृतो हासोर्मयः पान्तु वः ।। ४३१०-१ आकृष्टकरवालोऽसौ संपराये परिभ्रमन् । ४३१०-२ प्रत्यर्थिसेनया दृष्टः कृतान्तेन समः प्रभुः ।। ४३११-१ आकृष्टप्रतनुवपुर्लतैस्तरद्भिस्तस्याम्भस्तदथ सर्ॐअहार्णवस्य । ४३११-२ अक्षोभि प्रसृतविलोलबाहुपक्षैर्योषाणामुरुभिरुरोजगण्डशैलैः ।। ४३१२-१ आकृष्टश्चक्रवाकैर्नयनकलनया बन्धकीभिर्निरस्तो नास्तं द्रागेति भानुर्निवसति नलिनीबोधनिद्रान्तराले । ४३१२-२ सन्ध्यादीपप्ररोहं बहुलतिलरसव्याप्तपत्रान्तरालं वासागारे दिशन्ती हसति नववधूक्रोधदृष्टा भुजिष्या ।। ४३१३-१ आकृष्टिः कृतचेतसां सुमहतामुच्चाटनं चांहसां आचण्डालममूकलोकसुलभो वश्यश्च मोक्षश्रियः । ४३१३-२ नो दीक्षां न च दक्षिणां न च पुरश्चर्यां मनागीक्षते मन्त्रोऽयं रसानास्पृगेव फलति श्रीकृष्णनामात्मकः ।। ४३१४-१ आकृष्टिभग्नकटकं केन तव प्रकृतिक्ॐअलं सुभगे । ४३१४-२ धन्येन भुजमृणालं ग्राह्यं मदनस्य राज्यमिव ।। ४३१५-१ आकृष्टे कवचादहीन्द्ररसनाकल्पे कृपाणे त्वया श्रीमन्नायक रामचन्द्र भवतः प्रत्यर्थिनां वेश्मसु । ४३१५-२ गाहन्ते सहसा लुलायचमरीशार्दूलशाखाचरी- यक्षोरक्षशृगालकोलशलभृद्भल्लूकभिल्लादयः ।। ४३१६-१ आकृष्टे युधि कार्मुके रघुपतेर्वामोऽब्रवीद्दक्षिणं दानादानसुभोजनेषु पुरतो युक्तं किमित्थं तव । ४३१६-२ कामान्यः पुनरब्रवीन्मम न भीः प्रष्टुं जगत्स्वामिनं छेत्तुं रावणवक्त्रपंक्तिमिति यो दद्यात्स वो मंगलं ।। ४३१७-१ आकृष्टे युधि कार्मुके समवदद्वामः करो दक्षिणं रे रे दक्षिणहस्त भोजनमहादानादि ते कुर्वतः । ४३१७-२ पश्चाद्गंन्तुमयुक्तमित्यथ पुनः सोऽप्यब्रवीदद्रवं प्रष्टुं राघवमाशुरावणशिरोवृन्दानि भिन्दानि किं ।। ४३१८-१ आकृष्टे वसनाञ्चले कुवलयश्यामा त्रपाधःकृता दृष्टिः संवलिता रुचा कुचयुगे स्वर्णप्रभे श्रीमति । ४३१८-२ बालः कश्चन चूतपल्लव इति प्रान्तस्मितास्यश्रियं श्लिष्यंस्तामथ रुक्मिणीं नतमुखीं कृष्णः स पुष्णातु नः ।। ४३१९-१ आकृष्यन्ते करिणः पङ्कनिमग्ना महद्विपैरेव । ४३१९-२ प्राप्तापदो महान्त उद्धरणीया महापुंभिः ।। ४३२०-१ आकृष्यादावमन्दग्रहमलकचयं वक्त्रमासज्य वक्त्रे कण्ठे लग्नः सुकण्ठः पुनरपि कुचयोर्दत्तगाढाङ्गसङ्गः । ४३२०-२ बद्धासक्तिर्नितम्बे पतति चरणयोर्यः स तादृक्प्रियो मे बाले लज्जा प्रणष्टा नहि नहि कुटिले चोलकः किं त्रपाकृत् ।। ४३२१-१ आ केशग्रहणान्मित्रं अकार्यात्संनिवर्तयन् । ४३२१-२ अवाच्यः कस्यचिद्भवति कृतयत्नो यथाबलं ।। ४३२२-१ आकोपितोऽपि कुलजो न वदत्यवाच्यं निष्पीडितो मधुरमेव वमेत्किलेक्षुः । ४३२२-२ नीचो जनो गुणशतैरपि सेव्यमानो हास्येषु यद्वदति तत्कलहेष्ववाच्यं ।। ४३२३-१ आक्ॐआरं समरजयिना कुर्वतोर्वीमवीरां एतेनामी कथमिव दिशामीशितारो विमुक्ताः । ४३२३-२ अन्तर्ज्ञातं वपुषि कलया तस्य तेऽष्टौ प्रविष्टाः प्रह्वीभूते प्रभवति नहि क्षत्रियाणां कृपाणः ।। ४३२४-१ आ क्ॐआराद्गुरुचरणशुश्रूषया ब्रह्मविद्या- स्वास्थायास्थामहह, महतीमर्जितं कौशलं यत् । ४३२४-२ निद्राहेतोर्निशि निशि कथाः शृण्वतां पार्थिवानां कालक्षेपौपयिकमिदमप्याः कथं पर्यणंसीत् ।। ४३२५-१ आक्रन्दाः स्तनितैर्विलोचनजलान्यश्रान्तधाराम्बुभिस्तद्विच्छेदभुवश्च शोकशिखिनस्तुल्यास्तडिद्विभ्रमैः । ४३२५-२ अन्तर्मे दयितामुखं तव शशी वृत्तिः समैवावयोस्तत्किं मामनिशं सखे जलधर त्वं दग्धुमेवोद्यतः ।। ४३२६-१ आक्रन्दितं रुदितमाहतमानने वा कस्यार्द्रमस्तु हृदयं किमतः फलं वा । ४३२६-२ यस्या मनो द्रवति या जगतां स्वतन्त्रा तस्यास्तवाम्ब पुरतः कथयामि खेदं ।। ४३२७-१ आक्रम्य यद्द्विजैर्भुक्तं परिक्षीणैश्च बान्धवैः । ४३२७-२ गोभिश्च नृपशार्दूल राजसूयाद्विशिष्यते ।। ४३२८-१ आक्रम्य यस्य दोर्दण्डं अरिचक्रं प्रकाशते । ४३२८-२ प्राप्नोति पुरुषो लोके स वैकुण्ठ इति प्रथां ।। ४३२९-१ आक्रम्य सर्वः कालेन परलोकं च नीयते । ४३२९-२ कर्मपाशवशो जन्तुस्तत्र का परिदेवना ।। ४३३०-१ आक्रम्याक्रम्य साधूनां दारांश्चैव धनानि च । ४३३०-२ भोक्ष्यन्ति निरनुक्रोशा रुदतामपि भारत ।। ४३३१-१ आक्रम्याजेरग्रिमस्कन्धमुच्चैरास्थायाथो वीतशङ्कं शिरश्च । ४३३१-२ हेलालोला वर्त्म गत्वातिमर्त्यं द्यामारोहन्मानभाजः सुखेन ।। ४३३२-१ आक्रम्यैकामग्रपादेन जङ्घां अन्यामुच्चैराददानः करेण । ४३३२-२ सास्थिस्वानं दारुवद्दारुणात्मा कंचिन्मध्यात्पाटयामास दन्ती ।। ४३३३-१ आक्रम्योच्चैः शिरसि वसतिर्भूभृतामुन्नतानां तोयादानं तदपि जलधेर्लोकसंतापशान्त्यै । ४३३३-२ दीर्घा छाया प्रकृतिमहति व्य्ॐनि चाभोगबन्धो हे हे मेघ स्पृहयति न ते कः किलेत्थं व्रताय ।। ४३३४-१ आक्रान्तं वलिभिः प्रसह्य पलितैरत्यन्तमास्कन्दितं वार्धक्यं श्लथसंधिबन्धनतया निःस्थाम निर्धाम च । ४३३४-२ एतन्मे वपुरस्थिकेवलजरत्कङ्कालमालोकय - - स्थूलशिराकरालपरुषत्वङ्मात्रपात्रीकृतं ।। ४३३५-१ आक्रान्तपूर्वा रभसेन सैनिकैर्दिगङ्गनाव्य्ॐअरजोऽभिदूषिता । ४३३५-२ भेरीरवाणां प्रतिशब्दितैर्घनैर्जगर्ज गाढं गुरुमत्सरादिव ।। ४३३६-१ आक्रान्तमन्तररिभिर्मदमत्सराद्यैर्गात्रं वलीपलितरोगशतानुविद्धं । ४३३६-२ दारैः सुतैश्च गृहमावृतमुत्तमर्णैर्मातः कथं भवतु मे मनसः प्रसादः ।। ४३३७-१ आक्रान्तासु वसुन्धरासु यवनैरासेतुहेमाचलं विद्राणे क्षितिभृद्गणे विकरुणे निद्राति नारायणे । ४३३७-२ निर्विघ्नप्रसरे कलावपि बलान्निष्कण्टकं वैदिकं पन्थानं किल तत्र तत्र परिपात्येको हि लोकोत्तरः ।। ४३३८-१ आक्रान्तेव महोपलेन मुनिना शप्तेव दुर्वाससा सातत्यं बत मुद्रितेव जतुना नीतेव मूर्च्छां विषैः । ४३३८-२ बद्धेवातनुरज्जुभिः परगुणान्वक्तुं न शक्ता सती जिह्वा लोहशलाकया खलमुखे विद्धेव संलक्ष्यते ।। ४३३९-१ आक्रान्ते शैशवेऽस्मिन्नभिनववयसा शासनान्मीनकेतोर्बालाया नेत्रयुग्मं श्रुतियुगमविशद्भ्रूयुगेनापि सार्धं । ४३३९-२ वक्षोजद्वन्द्वमुच्चैर्बहिरिह निरगाच्छ्रोणबिम्बेन साकं मध्यः संगृह्य बद्धस्त्रिवलिभिरभितः कार्श्यमङ्गीकरोति ।। ४३४०-१ आक्रामन्तु तमेव चूतमपि च क्रोशन्तु रेफोत्तरं डिम्भोऽस्माकमपीति वाभिदधतां काका वराकाः स्वयं । ४३४०-२ गन्तव्यं क्व ततोऽन्यतः परभृत क्षन्तव्यमेतावदप्यग्रे कस्य निवेद्यतामिदमतिक्रान्तो वसन्तोऽधुना ।। ४३४१-१ आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः । ४३४१-२ आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ।। ४३४२-१ आक्रुष्टोऽपि व्रजति न रुषं भाषते नापभाष्यं नोत्कृष्टोऽपि प्रवहति मदं शौर्यधैर्यादिधर्मैः । ४३४२-२ यो यातोऽपि व्यसनमनिशं कातरत्वं न याति सन्तः प्राहुस्तमिह सुजनं तत्त्वबुद्ध्या विवेच्य ।। ४३४३-१ आक्रोशकसमो लोके सुहृदन्यो न विद्यते । ४३४३-२ यस्तु दुष्कृतमादाय सुकृतं स्वं प्रयच्छति ।। ४३४४-१ आक्रोशन्नाह्वयन्नन्यानाधावन्मण्डलं रुदन् । ४३४४-२ गाः कालयति दण्डेन डिम्भः सस्यावतारिणीः ।। ४३४५-१ आक्रोशपरिवादाभ्यां विहिंसन्त्यबुधा बुधान् । ४३४५-२ वक्ता पापमुपादत्ते क्षममाणो विमुच्यते ।। ४३४६-१ आक्रोशेन न दूयते न च पटुः प्रोक्तः समानन्द्यते दुर्गन्धेन न बाध्यते न च समं मोदेन संजीयते । ४३४६-२ स्त्रीरत्नेन न रज्यते न च मृतस्नानेन विद्वेष्यते माध्यस्थेन विराजितो विजयते कोऽप्येष योगीश्वरः ।। ४३४७-१ आक्षिपन्त्यरविन्दानि मुग्धे तव मुखश्रियं । ४३४७-२ कोषदण्डसमग्राणां किमेषामस्ति दुष्करं ।। ४३४८-१ आक्षिपसि कर्णमक्ष्णा बलिरपि बद्धस्त्वया त्रिधा मध्ये । ४३४८-२ इति जितसकलवदान्ये तनुदाने लज्जसे सुतनु ।। ४३४९-१ आक्षिप्तसंपातमपेतशोभं उद्वह्नि धूमाकुलदिग्विभागं । ४३४९-२ वृतं नभो भोगिकुलैरवस्थां परोपरुद्धस्य पुरस्य भेजे ।। ४३५०-१ आक्षिप्ता चामरश्रीः प्रसभमपहृतः पौण्डरीको विलासः प्रच्छन्नो वीरकम्बुः समजनि विहितः कण्ठभाराय हारः । ४३५०-२ लुप्तो हासप्रकाशः कमपि परिभवं प्रापितः पुष्पराशिश्चन्द्राभैर्यद्यशोभिः प्रतिधरणिभुजां निह्नुता किं च कीर्तिः ।। ४३५१-१ आक्षिप्तैः प्रतिपक्षभूमिपतिभिः क्रुद्धेन देव त्वया वित्रस्तैर्न महायुधानि विविधान्याविष्क्रियन्ते युधि । ४३५१-२ दूरावर्जितमौलयस्तव पुरस्तन्वन्ति ते केवलं नानाकारकिरीटरत्ननिकरैरिन्द्रायुधानि क्षितौ ।। ४३५२-१ आक्षेपचरणलङ्घन- केशग्रहकेलिकुतुकतरलेन । ४३५२-२ स्त्रीणां पतिरपि गुरुरिति धर्मं न श्राविता सुतनुः ।। ४३५३-१ आक्षेपवचनं तस्य न वक्तव्यं कदाचन । ४३५३-२ अनुकूलं प्रियं चास्य वक्तव्यं जनसंसदि ।। ४३५४-१ आखुः कैलासशैलं तुलयति करटस्तार्क्ष्यमांसाभिलाषी बभ्रुर्लाङ्गूलमूलं चलयति चपलस्तक्षकाहिं जिघांसुः । ४३५४-२ भेकः पारं यियासुर्भुजगमपि महाघस्मरस्याम्बुराशेः प्रायेणासन्नपातः स्मरति समुचितं कर्म न क्षुद्रकर्मा ।। ४३५५-१ आखुना भक्षितस्याथ नामोच्चार्य समुद्धरेत् । ४३५५-२ मार्गधूलिं क्षिपेद्दूरं तस्य शीघ्रं सुखं भवेत् ।। ४३५६-१ आखुभ्यः किं खलैर्ज्ञातं खलेभ्यश्च किमाखुभिः । ४३५६-२ अन्यत्परगृहोत्खातात्कर्म येषां न विद्यते ।। ४३५७-१ आखुर्वाञ्छति भस्मसूत्रहरणं व्यालस्तथा मूषकं व्यालं बर्हिरयं हरिश्च वृषभं गङ्गा तथा चन्द्रकं । ४३५७-२ इत्थं दुःखमहर्निशं शृणु विभो सोढव्यमेतत्कथं शंभोरात्मदशानिबोधनपरं त्वां पातु दीनं वचः ।। ४३५८-१ आखेटकं वृथाक्लेशं मूर्खं व्यसनसंस्थितं । ४३५८-२ समालापेन यो युङ्क्ते स गच्छति पराभवं ।। ४३५९-१ आखेटकस्य धर्मेण विभवाः स्युर्वशे नृणां । ४३५९-२ नृप्रजाः प्रेरयत्येको हन्त्यन्योऽत्र मृगानिव ।। ४३६०-१ आख्यातनामरचनाचतुरस्रसंधि- सद्धात्वलंकृतिगुणं सरसं सुवृत्तं । ४३६०-२ आसेदुषामपि दिवं कविपुंगवानां तिष्ठत्यखण्डमिह काव्यमयं शरीरं ।। ४३६१-१ आख्याते हसितं पितामह इति त्रस्तं कपालीति च व्यावृत्तं गुरुरित्यसौ दहन इत्याविष्कृता भीरुता । ४३६१-२ पौल्ॐईपतिरित्यसूयितमथ व्रीडावनम्रं श्रिया पायाद्वः पुरुषोत्तमोऽयमिति च न्यस्तः स पुष्पाञ्जलिः ।। ४३६२-१ आख्यायिकानुरागी व्रजति सदा पुण्यपुस्तकं श्रोतुं । ४३६२-२ दष्ट इव कृष्णसर्पैः पलायते दानधर्मेभ्यः ।। ४३६३-१ आख्यास्तदीया रुचिरार्थपोषा गायन्ति कोशाधिकृताः सतोषाः । ४३६३-२ परंतु पुण्यैरिह हर्षधाम प्राप्तं त्वया संप्रति चूतनाम ।। ४३६४-१ आगच्छतां च तुच्छानां अतुच्छानां च गच्छतां । ४३६४-२ यदध्वनि न संघट्टो घटानां तद्वृथा सरः ।। ४३६५-१ आगच्छतानवेक्षित- पृष्ठेनार्थी वराटकेनेव । ४३६५-२ मुषितास्मि तेन जघनां- शुकमपि वोढुं नशक्तेन ।। ४३६६-१ आगच्छदुत्सवो भाति यथैव न तथा गतः । ४३६६-२ हिमांशोरुदयः सायं चकास्ति न तथोषसि ।। ४३६७-१ आगच्छदुर्वीन्द्रचमूसमुत्थैर्भूरेणुभिः पाण्डुरिता मुखश्रीः । ४३६७-२ विस्पष्टमाचष्ट हरिद्वधूनां रूपं पतित्यागदशानुरूपं ।। ४३६८-१ आगच्छन्त्यवगुण्ठयन्त्यथ पुनः पश्यन्ति जिघ्रन्ति च स्वारब्धं मधुमक्षिकां न कणमप्यस्य स्वयं भुञ्जते । ४३६८-२ धन्यस्त्वन्य उपेत्य निर्भयममूरुत्सारयन्दूरतः स्वादंस्वादमिदं स्वसंभृतमिव स्वच्छन्दमानन्दति ।। ४३६९-१ आगच्छन्सूचितो येन येनानीतो गृहं प्रति । ४३६९-२ प्रथमं सखि कः पूज्यः किं काकः किं क्रमेलकः ।। ४३७०-१ आगच्छागच्छ सज्जं कुरु वरतुरगं संनिधेहि द्रुतं मे खङ्गः क्वासौ कृपाणीमुपनय धनुषा किं किमङ्ग प्रविष्टं । ४३७०-२ संरम्भोन्निद्रितानां क्षितिभृति गहनेऽन्योऽन्यमेवं प्रतीच्छन्वादः स्वप्नाभिदृष्टे त्वयि चकितदृशां विद्विषामाविरासीत् ।। ४३७१-१ आगच्छामि झटित्यहं प्रियतमे कार्यं विधायाल्पकं गत्वेतस्त्वमिहैव तिष्ठ विजने तावद्गृहे सुन्दरे । ४३७१-२ इत्युक्त्वा सखि वञ्चकः स तु गतस्तत्र स्थिता या निशा सर्वा सा हि गता ममातिकुटिलो नो वै तथाप्यागतः ।। ४३७२-१ आगतं विग्रहं विद्वानुपायैः प्रशमं नयेत् । ४३७२-२ विजयस्य ह्यनित्यत्वाद्रभसेन न संपतेत् ।। ४३७३-१ आगतः पतिरितीरितं जनैः शृण्वती चकितमेत्य देहलीं । ४३७३-२ क्ॐउदीव शिशिरीकरिष्यते लोचने मम कदा मृगेक्षणा ।। ४३७४-१ आगतः पाण्डवाः सर्वे दुर्योधनसमीहया । ४३७४-२ तस्मै गां च सुवर्णं च रत्नानि विविधानि च ।। ४३७५-१ आगतव्ययशीलस्य कृशत्वमतिशोभते । ४३७५-२ द्वितीयश्चन्द्रमा वन्द्यो न वन्द्यः पूर्णचन्द्रमाः ।। ४३७६-१ आगतश्च गतश्चैव गत्वा यः पुनरागतः । ४३७६-२ अकर्णहृदयो मूर्खस्तत्रैव निधनं गतः ।। ४३७७-१ आगतानगणितप्रतियातान्वल्लभानभिसिसारयिषूणां । ४३७७-२ प्रापि चेतसि सविप्रतिसारे सुभ्रुवामवसरः सरकेण ।। ४३७८-१ आगतानामपूर्णानां पूर्णानामपि गच्छतां । ४३७८-२ यदध्वनि न संघट्टो घटानां तत्सरोऽवरं ।। ४३७९-१ आगते कुसुमधन्विनि तन्व्या मानसाद्बहिरभूत्कुचकोकः । ४३७९-२ तिष्ठतास्य सरसीरुहचक्षुः खञ्जनेन चकितं सहसैव ।। ४३८०-१ आगत्य प्रणिपातसान्त्वितसखीदत्तान्तरे सागसि स्वैरं कुर्वति तल्पपार्श्वनिभृते धूर्तेऽङ्गसंवाहनं । ४३८०-२ ज्ञात्वा स्पर्शवशात्तया किल सखीभ्रान्त्या स्ववक्षः शनैः खिन्नासीत्यभिधाय मीलितदृशा सानन्दमारोपितः ।। ४३८१-१ आगत्य संप्रति वियोगविसंष्ठुलाङ्गीं अम्भोजिनीं क्वचिदपि क्षपितत्रियामः । ४३८१-२ एतां प्रसादयति पश्य शनैः प्रभाते तन्वङ्गि पादपतनेन सहस्ररश्मिः ।। ४३८२-१ आगत्य सम्प्रति शरत्समयः प्रसादादीषद्विहस्य विकसत्कुमुदच्छलेन । ४३८२-२ उत्सार्य रोषमिव वारिधरोपरोधं एष प्रसादयति दिग्वनितामुखानि ।। ४३८३-१ आगत्य सत्वरमसी रविरम्बरान्तं उल्लास्य पादपतनैः स्फुटसांध्यरागः । ४३८३-२ पश्य प्रसादयति रागवतीं प्रतीची- दिक्कामिनीं प्रकुपितामिव मन्यमानः ।। ४३८४-१ आगत्यैव कुतश्चिदेव गगनाभोगं च कृत्वात्मसात्भावाभावविलोकनास्पदममून्नीत्वेन्दुमुख्यानपि । ४३८४-२ जाज्वल्यं जगतो विधाय किमपि प्राप्तः प्रियोऽह्नां पतिर्यात्वस्तं प्रविशत्वथाब्धिमथवा मेरौ परिभ्राम्यतु ।। ४३८५-१ आगन्तौ जाङ्घिके चैव सर्वे काकाः समाः स्मृताः । ४३८५-२ क्षेत्रजे शकुने ग्राह्यः काकोलस्तेषु सर्वदा ।। ४३८६-१ आगमं निर्गमं स्थानं तथा वृद्धिक्षयावुभौ । ४३८६-२ विचार्य सर्वपण्यानां कारयेत्क्रयविक्रयौ ।। ४३८७-१ आगमरूपविचारिण्यधिकरणसहस्रशिक्षितविपक्षे । ४३८७-२ स्वामिनिजैमिनियोगिन्युपरज्यति हृदयमस्मदीयमिदं ।। ४३८८-१ आगमादेव नरकाः श्रूयन्ते रौरवादयः । ४३८८-२ विषयित्वं दरिद्राणां प्रत्यक्षं नरकं विदुः ।। ४३८९-१ आगमार्थं हि यतते रक्षणार्थं हि सर्वदा । ४३८९-२ कुटुम्बपोषणे स्वामी तदन्ये तस्करा इव ।। ४३९०-१ आगमिष्यन्ति ते भावा ये भावा मयि भाविनः । ४३९०-२ अहं तैरनुसर्तव्यो न तेषामन्यतो गतिः ।। ४३९१-१ आगमेन च युक्त्या च योऽर्थः समभिगम्यते । ४३९१-२ परीक्ष्य हेमवद्ग्राह्यः पक्षपातग्रहेण किं ।। ४३९२-१ आगमे यस्य चत्वारि निर्गमे सार्धपञ्च च । ४३९२-२ अतिविस्तारविस्तीर्णाश्चिरं तिष्ठन्ति नो श्रियः ।। ४३९३-१ आगमोऽभ्यधिको भोगाद्विना पूर्वक्रमागतात् । ४३९३-२ आगमेऽपि बलं नैव भुक्तिः स्तोकापि यत्र नो ।। ४३९४-१ आगर्जद्गिरिकुञ्जकुञ्जरघटानिस्तीर्णकर्णज्वरं ज्यानिर्घोषममन्ददुन्दुभिरवैराध्मातमुत्तम्भयन् । ४३९४-२ वेल्लद्भैरवरुण्डमुण्डनिकरैर्वीरो विधत्ते भुवं तृप्यत्कालकरालवक्त्रविघसव्याकीर्यमाणामिव ।। ४३९५-१ आगर्भमाबद्धममर्षशीलः पितुः स्मरन्क्षत्रकृतापराधं । ४३९५-२ परश्वधेनैव भृगुप्रवीरः प्राणैर्वियोज्यापि रिपूंश्छिनत्ति ।। ४३९६-१ आ गर्भादा कुलपरिवृढादा चतुर्वक्त्रतोऽपि त्वत्पादाब्जप्रपदनपरान्वेत्सि नश्चन्द्रमौले । ४३९६-२ मायायाश्च प्रपदनपरेष्वप्रवृत्तिं त्वमात्थ स्वामिन्नेवं सति यदुचितं तत्र देवः प्रमाणं ।। ४३९७-१ आगस्कारिणि कैटभप्रमथने तत्ताडनार्थं रुषा नाभीपङ्कजमस्त्रतां गमयितुं जाते प्रयत्ने श्रियः । ४३९७-२ स्वावासोन्मथनोपपादितभयभ्रान्तात्मनस्तत्क्षणाद अब्रह्मण्यपराः पुरातनमुनेर्वाग्वृत्तयः पान्तु वः ।। ४३९८-१ आगारदाही मित्रघ्नः शाकुनिर्ग्रामयाजकः । ४३९८-२ रुधिरान्धे पतन्त्येते स्ॐअं विक्रीणते च ये ।। ४३९९-१ आगुल्फमालम्बितवल्गुवेणी विभाति बाला कनकाङ्गयष्टिः । ४३९९-२ उत्तीर्णमौर्वीव वशीकृतोर्वी मनोभुवश्चम्पकचापवल्ली ।। ४४००-१ आग्नेयास्त्रप्रवीणप्रबलमृगभटाः शत्रुसंक्षोभदक्षा यस्य प्रौढप्रतापानलबहलशिखास्विन्धनत्वं प्रयान्ति । ४४००-२ सोऽयं प्राचीपयोधिप्रहितकरततीतूर्णसंपूर्णकोपो बाङ्गालक्षोणिपालस्त्रिभुवनजनतागीतकीर्ति प्ररोहः ।। ४४०१-१ आग्नेयीमेति शीतादिव दिशमरुणो वासराः संकुचन्ती- वासंस्तर्षेऽपि तोयाद्वहति तनुशिखी शीतपीडां प्रमार्ष्टि (?) । ४४०१-२ तल्पेऽनल्पप्रकोपप्रविदलितदृढालिङ्गनग्रन्थिबन्धे लब्ध्वा संधानरन्ध्रं निबिडयति जडो दम्पती मातरिश्वा ।। ४४०२-१ आग्नेये यदि कोणे ग्रामस्य पुरस्य वा भवति कूपः । ४४०२-२ नित्यं स करोति भयं दाहं च समानुषं प्रायः ।। ४४०३-१ आग्नेय्यामनलाजी- विकयुवतिप्रवरधातुलाभश्च । ४४०३-२ याम्ये माषकुलत्थं भोज्यं गान्धर्विकैर्योगः ।। ४४०४-१ आघट्टयति मन्त्राणि ब्रुवन्हास्यं प्रपद्यते । ४४०४-२ संभावयति दोषेण वृत्तिच्छेदं करोति च ।। ४४०५-१ आघातं नीयमानस्य वध्यस्येव पदे पदे । ४४०५-२ आसन्नतरतां याति मृत्युर्जन्तोर्दिने दिने ।। ४४०६-१ आघूर्णद्वपुषः स्खलन्मृदुगिरः किञ्चिल्लसद्वाससो रेवत्यां सनिषण्णनिःसहभुजस्याताम्रनेत्रद्युतेः । ४४०६-२ श्वासामोदमदान्धषट्पदकुलव्यादष्टकण्ठस्रजः पायासुः परिमन्थराणि हलिनो मत्तस्य यातानि वः ।। ४४०७-१ आघूर्णितं पक्ष्मलमक्षिपद्मं प्रान्तद्युतिश्वैत्यजितामृतांशु । ४४०७-२ अस्या इवास्याश्चलदिन्द्रनील- गोलामलश्यामलतारतारं ।। ४४०८-१ आघ्राणश्रवणावलोकनरसास्वादादयश्चुम्बन- श्रद्धा वाग्विषवर्षणं च शिरसो दोषा इमे यैर्जनः । ४४०८-२ मूढो लङ्घितसत्पथोऽयमिति संक्रुद्धः शठानां हठाद्यः शीर्षाणि कृपाणपाणिरलुनात्तस्मै नमः कल्किने ।। ४४०९-१ आघ्रातं कमलं प्रियेण सुदृशा स्मित्वापनीतं मुखं दत्तं विभ्रमकन्दुके नखपदं सीत्कृत्य गूढौ स्तनौ । ४४०९-२ दत्ता चम्पकमालिकोरसि भुजानिर्भिन्नर्ॐआञ्चया मीलल्लोचनया स्थितं प्रणयिनोर्दूरेऽपि पूर्णो रसः ।। ४४१०-१ आघ्रातं परिलीढमुग्रनखरैः क्षुण्णं च यच्चर्वितं क्षिप्तं यद्भुवि नीरसत्वकुपितेनेति व्यथां मा कृथाः । ४४१०-२ हे माणिक्य तवैतदेव कुशलं यद्वानरेणाग्रहादन्तःसत्त्वनिरूपणाय सहसा चूर्णीकृतं नाश्मना ।। ४४११-१ आघ्रातं मरणेन जन्म जरया यात्युज्ज्वलं यौवनं संतोषो धनलिप्सया शमसुखं प्रौढाङ्गनाविभ्रमैः । ४४११-२ लोकैर्मत्सरिभिर्गुणा वनभुवो व्यालैर्नृपा दुर्जनैरस्थैर्येण विभूतिरप्यपहृता ग्रस्तं न किं केन वा ।। ४४१२-१ आघ्रातक्षोणिपीठः खुरशिखरसमाकृष्टरेणुस्तुरङ्गः पुञ्जीकृत्याखिलाङ्घ्रीन्क्रमवशविनमज्जानुरुन्मुक्तकायः । ४४१२-२ पृष्ठान्तःपार्श्वकण्डूव्यपनयनर साद्द्विस्त्रिरुद्वर्तिताङ्गः प्रोत्थाय द्राङ्निरीहः क्षणमथ वपुरास्यानुपूर्व्यां धुनोति ।। ४४१३-१ आघ्राय पुस्तकं धन्याः सर्वं विद्म इति स्थिताः । ४४१३-२ शतकृत्वोऽपि शृण्वन्तो हा न विद्मो जडा वयं ।। ४४१४-१ आघ्राय श्रमजमनिन्द्यगन्धबन्धुं निश्वासश्वसनमसक्तमङ्गनानां । ४४१४-२ आरण्याः सुमनस ईषिरे न भृङ्गैरौचित्यं गणयति को विशेषकामः ।। ४४१५-१ आघ्रायाघ्राय गन्धं विकृतमुखपुटो दर्शयन्दन्तपङ्क्तिं धावन्नुन्मुक्तनादो मुहुरपि रभसाकृष्टया पृष्ठलग्नः । ४४१५-२ गर्दभ्याः पादघातद्विगुणितसुरतप्रीतिराकृष्टशिश्नो वेगादारुह्यमुह्यन्नवतरति खरः खण्डितेच्छश्चिराय ।। ४४१६-१ आचक्ष्महे बत किमद्यतनीमवस्थां तस्याद्य विन्ध्यशिखरस्य महोन्नतस्य । ४४१६-२ यत्रैव सप्त मुनयस्तपसा निषेदुः सोऽयं किलाद्य वसतिह्पिशिताशनानां ।। ४४१७-१ आचम्याधरसिन्धुवारि कबरीसंभारसंमार्जिते स्वेदाम्भःस्नपिते कपोलविगलत्काश्मीरपङ्कोज्ज्वले । ४४१७-२ काञ्चीमन्त्ररुतेन निर्भरगलन्मुक्ताकलापस्रजा धन्यस्योरसि घूर्णमाननयना पञ्चेषुमभ्यर्चति ।। ४४१८-१ आचरति दुर्जनो यत्सहसा मनसोऽप्यगोचरानर्थान् । ४४१८-२ तन्न न जाने जाने स्पृशति मनः किं तु नैव निष्ठुरतां ।। ४४१९-१ आचरन्बहुभिर्वैरं अल्पकैरपि नश्यति । ४४१९-२ जनैः प्रत्यायितोऽमात्यं प्रेतमित्यत्यजन्नृपः ।। ४४१९आ-१ आचरेच्च सकलां रतिचर्यां कामसूत्रविहितामनवद्यां । ४४१९आ-२ देशकालबलशक्त्यनुरोधाद्वैद्यतन्त्रसमयोक्त्यविरुद्धां ।। ४४२०-१ आचान्तकान्तिरुन्निद्रैर्मयूखैरहिमत्विषः । ४४२०-२ धूसरापि कला चान्द्री किं न बध्नाति लोचनं ।। ४४२१-१ आचारं भजते त्यजत्यपि मदं वैराग्यमालम्बते कर्तुं वाञ्छति सङ्गभङ्गगलितोत्तुङ्गाभिमानं तपः । ४४२१-२ दैवन्यस्तविपर्ययैः सुखशिखाभ्रष्टः प्रणष्टो जनः प्रायस्तापविलीनलोहसदृशीमायाति कर्मण्यतां ।। ४४२२-१ आचारः कुलमाख्याति देशमाख्याति भाषणं । ४४२२-२ संभ्रमः स्नेहमाख्याति वपुराख्याति भोजनं ।। ४४२३-१ आचारः कुलमाख्याति वपुराख्याति भोजनं । ४४२३-२ वचनं श्रुतमाख्याति स्नेहमाख्याति लोचनं ।। ४४२४-१ आचारः खलु कर्तव्यः प्राणैः कण्ठगतैरपि । ४४२४-२ आचारैः शुध्यते देहो वस्त्रं क्षारोदकैरिव ।। ४४२५-१ आचारः परमो धर्म आचारः परमं तपः । ४४२५-२ आचारः परमं ज्ञानं आचारात्किं न साध्यते ।। ४४२६-१ आचारः परमो धर्मः श्रुत्युक्तः स्मार्त एव च । ४४२६-२ तस्मादस्मिन्सदा युक्तो नित्यं स्यादात्मवान्द्विजः ।। ४४२७-१ आचारः परमो धर्मः सर्वेषामिति निश्चयः । ४४२७-२ हीनाचारपरीतात्मा प्रेत्य चेह च नश्यति ।। ४४२८-१ आचारः प्रथमो धर्मो नृणां श्रेयस्करो महान् । ४४२८-२ इहलोके परा कीर्तिः परत्र परमं सुखं ।। ४४२९-१ आचार इत्यवहितेन मया गृहीता या वेत्रयष्टिरवरोधगृहेषु राज्ञः । ४४२९-२ काले गते बहुतिथे मम सैव जाता प्रस्थानविक्लवगतेरवलम्बनाय ।। ४४३०-१ आचारधाराधवलीकृतानां राधाधवाराधनमानसानां । ४४३०-२ विद्याविवेकोन्नतिभूषितानां भवादृशानामिह का प्रशंसा ।। ४४३१-१ आचारप्रभवो धर्मो नृणां श्रेयस्करो महान् । ४४३१-२ इहलोके परा कीर्तिः परत्र परमं सुखं ।। ४४३२-१ आचारप्रेरको राजा ह्येतत्कालस्य कारणं । ४४३२-२ यदि कालह्प्रमाणं हि कस्माद्धर्मोऽस्ति कर्तृषु ।। ४४३३-१ आचारमाचर चिरादालस्यमपास्य जात्युचितं । ४४३३-२ लोकानुरागसाधनं आराधनमेतदेव हरेः ।। ४३३४-१ आचारसंभवो धर्मो धर्माद्वेदाः समुत्थिताः । ४३३४-२ वेदैर्यज्ञाः समुत्पन्ना यज्ञैर्देवाः प्रतिष्ठिताः ।। ४४३५-१ आचारहीनं न पुनन्ति वेदा यद्यप्यधीता सह षड्भिरङ्गैः । ४४३५-२ छन्दांस्येनं मृत्युकाले त्यजन्ति नीडं शकुन्ता इव जातपक्षाः ।। ४४३६-१ आचारहीनस्य तु ब्राह्मणस्य वेदाः षडङ्गास्त्वखिलाः सयज्ञाः । ४४३६-२ कां प्रीतिमुत्पादयितुं समर्था अन्धस्य दारा इव दर्शनीयाः ।। ४४३७-१ आचारात्फलते धर्म आचारात्फलते धनं । ४४३७-२ आचाराच्छ्रियमाप्नोति आचारो हन्त्यलक्षणं ।। ४४३८-१ आचाराद्विच्युतो विप्रो न वेदफलमश्नुते । ४४३८-२ आचारेण तु संयुक्तः संपूर्णफलभाक्स्मृतः ।। ४४३९-१ आचाराल्लभते धर्मं आचाराल्लभते धनं । ४४३९-२ आचाराच्छ्रियमाप्नोति आचारो हन्त्यलक्षणं ।। ४४४०-१ आचाराल्लभते ह्यायुराचारादीप्सितां प्रजां । ४४४०-२ आचाराद्धनमक्षय्यं आचारो हन्त्यलक्षणं ।। ४४४१-१ आचाराल्लभते ह्यायुराचाराल्लभते श्रियं । ४४४१-२ आचारात्कीर्तिमाप्नोति पुरुषः प्रेत्य चेह च ।। ४४४३-१ आचारो ग्रामवासान्तो गृहान्ता प्रभुता स्त्रियः । ४४४३-२ नृपश्रीर्ब्रह्मशापान्ता फलान्तं ब्रह्मवर्चसं ।। ४४४४-१ आचार्यः सप्तयुद्धः स्याच्चतुर्युद्धस्तु भार्गवः । ४४४४-२ द्वाभ्यां चैव भवेद्योध एकेन गणको भवेत् ।। ४४४५-१ आचार्यः सर्वचेष्टासु लोक एव हि धीमतः । ४४४५-२ अनुकुर्यात्तमेवातो लौकिकार्थे परीक्षकः ।। ४४४६-१ आचार्यमानीय शुभेऽह्नि कार्यं पैष्टं श्वयुग्मं शुचिरर्चयित्वा । ४४४६-२ क्षीरेण भोज्यं भषणस्य तुष्ट्यै दद्यात्कुमारीशिशुबान्धवेभ्यः ।। ४४४७-१ आचार्यश्च पिता चैव माता भ्राता च पूर्वजः । ४४४७-२ नार्तेनाप्यवमन्तव्या ब्राह्मणेन विशेषतः ।। ४४४८-१ आचार्या नरपतयश्च तुल्यशीला न ह्येषां परिचितिरस्ति सौहृदं वा । ४४४८-२ शुश्रूषां चिरमपि सम्चितां प्रयत्नात्संक्रुद्धा रज इव नाशयन्ति मेघाः ।। ४४४९-१ आचार्येण धनुर्देयं ब्राह्मणे सुपरीक्षिते । ४४४९-२ लुब्धे धूर्ते कृतघ्ने च मन्दबुद्धौ न दीयते ।। ४४५०-१ आचार्योपासनं वेदशास्त्रार्थेषु विवेकिता । ४४५०-२ तत्कर्मणामनुष्ठानं सङ्गः सद्भिर्गिरः शुभाः ।। ४४५१-१ स्त्र्यालोकालम्भविगमः सर्वभूतात्मदर्शनं । ४४५१-२ त्यागः परिग्रहाणां च जीर्णकाषायधारणं ।। ४४५२-१ विषयेन्द्रियसंरोधस्तन्द्रालस्यविवर्जनं । ४४५२-२ शरीरपरिसंख्यानं प्रवृत्तिष्वघदर्शनं ।। ४४५३-१ नीरजस्तमसा सत्त्वशुद्धिर्निःस्पृहता शमः । ४४५३-२ एतैरुपायैः संशुद्धः स हि योग्यमृतीभवेत् ।। ४४५४-१ आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः । ४४५४-२ भ्राता मरुत्पतेमूर्तिर्माता साक्षात्क्षितेस्तनुः ।। ४४५५-१ दयाया भगिनी मूर्तिर्धर्मस्यात्मातिथिः स्वयं । ४४५५-२ अग्नेरभ्यागतो मूर्तिः सर्वभूतानि चात्मनः ।। ४४५६-१ आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः । ४४५६-२ माता पृथिव्या मूर्तिश्च भ्राता स्वो मूर्तिरात्मनः ।। ४४५७-१ आचार्यो ब्रह्मलोकेशः प्राजापत्ये पिता प्रभुः । ४४५७-२ अतिथिस्त्विन्द्रलोकेशो देवलोकस्य चर्त्विजः ।। ४४५८-१ आचार्यौ द्वारिहेतौ (?) शरकलशभरौ (?) द्रोणभूस्तत्समानो भीष्मस्तातस्य तातो धनुषि न सदृशाः कर्णदुर्योधनाद्याः । ४४५८-२ इत्थं हन्तव्यचिन्ताकुलहृदयतला कौरवाणां पुरस्ताद्दीव्यद्दोःस्तम्भशाली समिति विजयते पाण्डवह्खाण्डवारिः ।। ४४५९-१ आचिन्वानमहन्यहन्यहनि साकारान्विहारक्रमानारुन्धानमरुन्धतीहृदयमप्यार्द्रस्मितार्द्रश्रिया । ४४५९-२ आतन्वानमनन्यजन्मनयनश्लाघ्यामनर्घ्यां दशां आनन्दं व्रजसुन्दरीस्तनतटीसाम्राज्यमुज्जृम्भते ।। ४४६०-१ आचीर्णमशुभं कर्म द्विजा भोगाय कल्पते । ४४६०-२ अवेष्टितगलो नागः किमदष्ट्वा हि गच्छति ।। ४४६१-१ आचुम्बितं कामिवरेण हर्षात्सकामवामाचिबुकं मनोज्ञं । ४४६१-२ शृङ्गारसत्संपुटपद्ममध्ये भृङ्गाभिधः (?) कोरकवद्विभाति ।। ४४६२-१ आचुम्ब्य बिम्बाधरमङ्गवल्लीं आलिङ्ग्य संस्पृश्य कपोलपालिं । ४४६२-२ श्रीखण्डमादाय करेण कान्तः संत्रासयामास सरोरुहाक्षीं ।। ४४६३-१ आचूडमाचरणमम्ब तवानुवारं अन्तःस्मरन्भुवनमङ्गलमङ्गमङ्गं । ४४६३-२ आनन्दसागरतरङ्गपरम्पराभिरान्दोलितो न गणयामि गतान्यहानि ।। ४४६४-१ आच्छन्ने क्षितितेजसी मनसिजव्यापारमेयं मनः स्वात्मा च द्वयमेतदस्ति दशमं द्रव्यं परेषां तमः । ४४६४-२ कालाकाशदिशां निरस्तमधुना नामापि वर्षागमे द्रव्यं वारि गुणश्च वारिदरवः कर्मापि वारिक्रिया ।। ४४६५-१ आच्छादयसि किं मुग्धे वस्त्रेणाधरपल्लवं । ४४६५-२ खण्डिता एव शोभन्ते वीराधरपयोधराः ।। ४४६६-१ आच्छादितायतदिगम्बरमुच्चकैर्गां आक्रम्य संस्थितमुदग्रविशालशृङ्गं । ४४६६-२ मूर्ध्निस्खलत्तुहिनदीधितिकोटिमेनं उद्वीक्ष्य को भुवि न विस्मयते नगेशं ।। ४४६७-१ आच्छाद्य पुष्पपटमेष महान्तमन्त- रावर्तिभिर्गृहकपोतशिरोधराभैः । ४४६७-२ स्वाङ्गानि धूमरुचिमागुरवीं दधानैर्धूपायतीव पटलैर्नवनीरदानां ।। ४४६८-१ आच्छिद्य प्रियतः कदम्बकुसुमं यस्यारिदारैर्नवं यात्राभङ्गविधायिनो जलमुचां कालस्य चिह्नं महत् । ४४६८-२ हृष्यद्भिः परिचुम्बितं नयनयोर्न्यस्तं हृदि स्थापितं सीमन्ते निहितं कथंचन ततः कर्णावतंसीकृतं ।। ४४६९-१ आच्छिद्य लक्ष्मीमित एव पूर्वं अत्रैव विस्रम्भसुखप्रसुप्तः । ४४६९-२ एकः परं वेद स कैटभारिर्महाशयत्वं मकरालयस्य ।। ४४७०-१ आच्छिद्योरगमण्डलीकबलनाकाङ्क्षारसं पत्रिणां भर्तुर्येन शरीरदानविधिना मन्ये जगद्रक्षितं । ४४७०-२ नो चेत्तेन गरुत्मता कबलिते शेषे निरालम्बना क्व क्षोणी क्व पयोधराः क्व गिरयः क्वैते दिशां नायकाः ।। ४४७१-१ आजगाम यदा लक्ष्मीर्नारिकेलफलाम्बुवत् । ४४७१-२ निर्जगाम यदा लक्ष्मीर्गजभुक्तकपित्थवत् ।। ४४७२-१ आजननादामरणा- दभ्यस्यतु वायसस्तपस्यतु वा । ४४७२-२ एकामपि काकलिकां कोकिलकान्तेव नाकलयेत् ।। ४४७३-१ आजननादामरणा- दभ्यस्यतु वायसस्तपस्यतु वा । ४४७३-२ केकिवदेकां केकां कोकिलवत्पञ्चमं च किं कुरुते ।। ४४७४-१ आजन्मकल्पतरुकाननकामचारी यत्कौतुकादुपगतः कुटजं मिलिन्दः । ४४७४-२ तत्कर्मणः सुसदृशं फलमेतदेव यत्प्राप्य साम्यमधुना मधुमक्षिकाभिः ।। ४४७५-१ आ जन्मनः कुशलमण्वपि रे कुजन्मन्पांसो त्वया यदि कृतं वद तत्त्वमेतत् । ४४७५-२ उत्थापितोऽस्यनलसारथिना यदर्थं दुष्टेन तत्कुरु कलङ्कय विश्वमेतत् ।। ४४७६-१ आ जन्मनः प्रतिमुहूर्तविशेषरम्याण्याचेष्टितानि तव संप्रति तानि तानि । ४४७६-२ चाटूनि चारुमधुराणि च संस्मृतानि देहं दहन्ति हृदयं च विदारयन्ति ।। ४४७७-१ आ जन्मनः शाठ्यमशिक्षितो यस्तस्याप्रमाणं वचनं जनस्य । ४४७७-२ परातिसम्धानमधीयते यैर्विद्येति ते सन्तु किलाप्तवाचः ।। ४४७८-१ आ जन्मनः सहजतुल्यर्विवर्तमान- दौर्गत्यतोऽस्ति परमो न सुहृन्ममान्यः । ४४७८-२ येनात्मनोऽपरिगणय्य विनाशमाशु देव त्वदाश्रयणपुण्यधनः कृतोऽस्मि ।। ४४७९-१ आ जन्मनः सह निवासितया मयैव मातुः पयोधरपयोऽपि समं निपीय । ४४७९-२ त्वं पुण्डरीकमुख बन्धुतया निरस्तं एको निवापसलिलं पिबसीत्ययुक्तं ।। ४४८०-१ आ जन्मनो विहितभक्तिरनन्यनाथः सारथ्यकर्मणि च दक्षतया नियुक्तः । ४४८०-२ नाद्याप्यवाप चरणावरुणोऽपि सूर्यात्पुण्यैर्विना नहि भवन्ति मनीषितानि ।। ४४८१-१ आजन्मब्रह्मचारी पृथुलभुजशिलास्तम्भविभ्राजमान- ज्याघातश्रेणिसम्ज्ञान्तरितवसुमती चक्रजैत्रप्रशस्तिः । ४४८१-२ वक्षः पीठे घनास्त्रव्रणकिणकठिने संक्ष्णुवानः पृषत्कान्प्राप्तो राजन्यगोष्ठीवनगजमृगया कौतुकी जामदग्न्यः ।। ४४८२-१ आजन्मब्रह्मचारी सकलरिपुकुलानल्पकालाग्निकल्पः कल्पान्तः कल्पकर्ता कपिशतनुरुचिः कामगः कामदाता । ४४८२-२ कान्तः कामारिबन्धुः कपिकुलतिलकः कोपनः क्ॐअलाङ्गः कौशल्यासूनुदूतः कलयतु कुशलं वायुपुत्रश्चिरं वः ।। ४४८३-१ आजन्मविषसंभोगात्कन्या विषमयी कृता । ४४८३-२ स्पर्शोच्छ्वासादिभिर्हन्ति तस्यास्त्वेतत्परीक्षणं ।। ४४८४-१ आजन्मव्यवसायिना क्रतुशतैराराध्य पुष्पायुधं केनाकारि पुरा तनूदरि तनुत्यागः प्रयागभ्रमे । ४४८४-२ यस्यार्थे सखि लोलनेत्रनलिनीनालायमानस्खलद्- बष्पाम्भःपतनान्तरालवलितग्रीवं पथः पश्यसि ।। ४४८५-१ आजन्मसिद्धं कौटिल्यं खलस्य च हलस्य च । ४४८५-२ सोढुं तयोर्मूखाक्षेपं अलमेकैव सा क्षमा ।। ४४८६-१ आजन्मसेवितं दानैर्मानैश्च परिपोषितं । ४४८६-२ तीक्ष्णवाक्यान्मित्रमपि तत्कालं याति शत्रुतां । ४४८६-३ वक्रोक्तिशल्यमुद्धर्तुं न शक्यं मानसं यतः ।। ४४८७-१ आजन्मस्थितयो महीरुह इमे कूले समुन्मूलिताः कल्लोलाः क्षणभङ्गुराः पुनरमी नीताः परामुन्नतिं । ४४८७-२ अन्तः प्रस्तरसंग्रहो बहिरपि भ्रश्यन्ति गन्धद्रुमा भ्रातः शोण न सोऽस्तियो न हसति त्वत्संपदां विप्लवे ।। ४४८८-१ आजन्मानुगतेऽप्यस्मिन्नाले विमुखमम्बुजं । ४४८८-२ प्रायेण गुणपूर्णेषु रीतिर्लक्ष्मीवतामियं ।। ४४८९-१ आजन्मैव तमः सुहृत्कुटिलता वक्त्रे गिरां निर्गमो ग्रामोत्सादकरः श्मशानविटपी प्रायेण यस्याश्रयः । ४४८९-२ धिग्धातः ससृजे स एव मलिनः क्रूरः कथं कौशिकः सृष्टो वा किमकल्प्यतास्य भवता कल्पान्तमायुः स्थिरं ।। ४४९०-१ आजानुलम्बिबाहुः कम्बुग्रीवो बली चतुर्दंष्ट्रः । ४४९०-२ भाग्यनिधिः पृथुवक्षा लघुमधुराशी च पद्माक्षः ।। ४४९१-१ आजावसौ चोडनृपस्य सेना महावनस्याश्वमृगाकुलस्य । ४४९१-२ मत्तेभसारद्रुमपूर्णितस्य दावानलोऽभूच्चलमूर्तिचण्डः ।। ४४९२-१ आजीवः कपटानुरागकलया दोषो न दुःशीलता वैधव्यं न च बाधते सदसतोः संभावनाव्यत्ययात् । ४४९२-२ यत्किंचित्करणे परस्वहरण व्रीडा न पीडाकरी नो वा राजभयं च ही बत सुखं जीवन्ति वारस्त्रियः ।। ४४९३-१ आ जीवनास्तात्प्रणयाः कोपास्तत्क्षणभङ्गुराः । ४४९३-२ परित्यागाश्च निःसङ्गा भवन्ति हि महात्मनां ।। ४४९४-१ आजीवितान्ताः प्रणयाः कोपाश्च क्षणभङ्गुराः । ४४९४-२ परित्यागाश्च निःसङ्गा न भवन्ति महात्मनां ।। ४४९५-१ आजीवोच्छित्तये यासां प्रीतिद्वेषावुभौ हि तौ । ४४९५-२ कथं नु खलु तौ तासां स्यातामुपरि कस्यचित् ।। ४४९६-१ आजीव्यः सर्वभूतानां राजा पर्जन्यवद्भवेत् । ४४९६-२ निराजीव्यं त्यजन्त्येनं शुष्कं सर इवाण्डजाः ।। ४४९७-१ आजीव्यैकतरं भावं यस्त्वन्यमुपजीवति । ४४९७-२ न तस्माद्विन्दते क्षेमं जारान्नार्यसती यथा ।। ४४९८-१ आजौ त्वद्वाजिराजिप्रखरखुरतरन्यासलीलाभिरुर्व्यां दीर्णायां देव निर्यन्नविरलमवनीपाल पातालवह्निः । ४४९८-२ अश्नीयाद्विश्वमेव प्रतिनृपतिवधूनेत्रधाराम्बुधारा- वारा यद्येनमारादरिकुलदमन द्राङ्न निर्वापयेयुः ।। ४४९९-१ आज्ञां मन्मथचक्रवर्तिनृपतेरादाय निःशङ्कधीर्भ्राम्यद्भृङ्गमहाजनान्पिकगिरा साकूतमाकारयन् । ४४९९-२ कुञ्जाटे च्युतपत्रसंस्तरवति श्रीमान्वसन्ताभिधो व्यापारी सुमन्ॐअरन्दवसुभिर्वाणिज्यमालम्बते ।। ४५००-१ आज्ञाकरश्च ताडन- परिभवसहनश्च सत्यमहमस्याः । ४५००-२ न तु शीलशीतलेयं प्रियेतरद्वक्तुमपि वेद ।। ४५०१-१ आज्ञा काकुर्याच्ञा- क्षेपो हसितं च शुष्करुदितं च । ४५०१-२ इति निधुवनपाण्डित्यं ध्यायंस्तस्या न तृप्यामि ।। ४५०२-१ आज्ञा कीर्तिः पालनं ब्राह्मणानां दानं भोगो मित्रसंरक्षणं च । ४५०२-२ येषामेते षड्गुणा न प्रवृत्ताः कोऽर्थस्तेषां पार्थिवोपाश्रयेण ।। ४५०३-१ आज्ञा तेजः पार्थिवानां सा च वाचि प्रतिष्ठिता । ४५०३-२ यत्ते ब्रूयुरसत्सद्वा स धर्मो व्यवहारिणां ।। ४५०४-१ आज्ञापयिष्यसि पदं दास्यसि दयितस्य शिरसि किं त्वरसे । ४५०४-२ असमयमानिनि मुग्धे मा कुरु भग्नाङ्कुरं प्रेम ।। ४५०५-१ आज्ञाभङ्गकरान्राजा न क्षमेत सुतानपि । ४५०५-२ विशेषः को नु राज्ञश्च राज्ञश्चित्रगतस्य च ।। ४५०६-१ आज्ञाभङ्गो नरेन्द्राणां ब्राह्मणानामनादरः । ४५०६-२ पृथक्शय्या च नारीणां अशस्त्रविहितो वधः ।। ४५०७-१ आज्ञामवाप्य महतीं द्विषतां निखातान्- निर्वर्त्य तां सपदि लब्धमुखप्रसादः । ४५०७-२ उच्चैः प्रमोदमनुमोदितदर्शनः सन्धन्यो नमस्यति पदाम्बुरुहं प्रभूणां ।। ४५०८-१ आज्ञामात्रफलं राज्यं ब्रह्मचर्यफलं तपः । ४५०८-२ ज्ञानमात्रफला विद्या दत्तभुक्तफलं धनं ।। ४५०९-१ आज्ञामेव मुनेर्निधाय शिरसा विन्ध्याचल स्थीयतां अत्युच्चैः पदमिच्छता पुनरियं नो लङ्घनीया त्वया । ४५०९-२ मैनाकादिमहीध्रलब्धवसतिं यः पीतवानम्बुधिं तस्य त्वां गिलतः कपोलमिलनक्लेशोऽपि किं जायते ।। ४५१०-१ आज्ञा मौलिषु भूभुजां भयरुजा चित्तेषु दुर्मेधसां प्रीतिः सत्सु दिशासु कीर्तिरतुला येनार्पिता सर्वतः । ४५१०-२ सर्वं राज्यमकण्टकं च विहितं ध्वस्ता द्विषां संपदः सोऽसौ संमतवैभवो विजयते श्रीराजनारायणः ।। ४५११-१ आज्ञारूपेण या शक्तिः सर्वेषां मूर्धनि स्थिता । ४५११-२ प्रभुशक्तिर्हि सा ज्ञेया प्रभावमहितोदया ।। ४५१२-१ आज्ञा शक्रशिखामणिप्रणयिनी शास्त्राणि चक्षुर्नवं भक्तिर्भूतपतौ पिनाकिनि पदं लङ्केति दिव्या पुरी । ४५१२-२ उत्पत्तिर्द्रुहिणान्वये च तदहो नेदृग्वरो लभ्यते स्याच्चेदेष न रावणः क्व नु पुनः सर्वत्र सर्वे गुणाः ।। ४५१३-१ आज्ञासंपादिनीं दक्षां वीरसूं प्रियवादिनीं । ४५१३-२ योऽदृष्टदोषां त्यजति सोऽक्षयं नरकं व्रजेत् ।। ४५१४-१ आज्ञेव शम्बररिपोरवलङ्घनीया वाञ्छेव विग्रहवती वशगा दृशोर्मे । ४५१४-२ अन्यार्थमेव किमुतापणमभ्युपैति संदेशमानयति सा किमु सारसाक्ष्याः ।। ४५१५-१ आञ्जस्यं व्यवहाराणां आर्जवं परमं धियां । ४५१५-२ स्वातन्त्र्यमपि तन्त्रेषु सूते काव्यपरिश्रमः ।। ४५१६-१ आटीकसेऽङ्गकरिघोटीपदातिजुषि वाटीभुवि क्षितिभुजां चेटी भवंस्तदपि शाटीनते वपुषि वीटीनवाधिवदनं । ४५१६-२ कोटीररत्नपरिपाटी भृशारुणितजूटीविधुन्तनुलसन्पाटीरलिप्तिमिभधाटीजुषं सुरवधूटीनुतां भज शिवं ।। ४५१७-१ आटोपेन पटीयसा यदपि सा वाणी कवेरामुखे खेलन्ती प्रथते तथापि कुरुते नो सन्मनोरञ्जनं । ४५१७-२ न स्याद्यावदमन्दसुन्दरगुणालंकारझंकारितः सप्रस्यन्दिलसद्रसायनरसासारानुसारी रसः ।। ४५१८-१ आढ्यराजकृतोत्साहैर्हृदयस्थैः स्मृतैरपि । ४५१८-२ जिह्वान्तःकृष्यमाणेव न कवित्वे प्रवर्तते ।। ४५१९-१ आढ्यस्य किं च दानेन सुहितस्याशनेन किं । ४५१९-२ किं शशाङ्केन शीतालोः किं घनेन हिमागमे ।। ४५२०-१ आढ्यानां मांसपरमं मध्यानां गोरसोत्तरं । ४५२०-२ तैलप्रायं दरिद्राणां भोजनं भरतर्षभ ।। ४५२१-१ आढ्यान्निवापलम्भो निकेतगामी च पिच्छिलः पन्थाः । ४५२१-२ द्वयमाकुलयति चेतः स्कन्धावारद्विजातीनां ।। ४५२२-१ आढ्यो वापि दरिद्रो वा दुःखितः सुखितोऽपि वा । ४५२२-२ निर्दोषो वा सदोषो वा वयस्यः परमा गतिः ।। ४५२३-१ आततायिनमायान्तं हन्यादेवाविचारयन् । ४५२३-२ हननादेव निस्तारो नरकात्तस्य दुष्कृतेः ।। ४५२४-१ आततायिनमायान्तं अपि वेदान्तपारगं । ४५२४-२ जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् ।। ४५२५-१ आतन्वद्भिर्दिक्षु पत्राग्रनादं प्राप्तैर्दूरादाशु तीक्ष्णैर्मुखाग्रैः । ४५२५-२ आदौ रक्तं सैनिकानामजीवैर्जीवैः पश्चात्पत्रिपूगैरपायि ।। ४५२६-१ आतपत्यविदुषाममृतांशुं अंशुमन्तमपि रश्मिसहस्रे । ४५२६-२ रागिणां भवति लक्षणमिन्दोरिन्द्रनीलशकलच्छविलक्ष्म ।। ४५२७-१ आतपासहनः पाण्डुः शाखाहीनो मुहुर्यदि । ४५२७-२ अकालफलपाकी स्याच्छाखी पित्तात्मकः कृशः ।। ४५२८-१ आतपे धृतिमता सह वध्वा यामिनीविरहिणा विहगेन । ४५२८-२ सेहिरे न किरणा हिमरश्मेर्दुःखिते मनसि सर्वमसह्यं ।। ४५२९-१ आतरलाघवहेतोर्मुरहर तरिं तवावलम्बे । ४५२९-२ अपणं पणमिह कुरुषे नाविकपुरुषे न विश्वासः ।। ४५३०-१ आताम्रतामपनयामि विवर्ण एष लाक्षाकृतां चरणयोस्तव देवि मूर्ध्ना । ४५३०-२ कोपोपरागजनितां तु मुखेन्दुबिम्बे हर्तुं क्षमो यदि परं करुणामयि स्यात् ।। ४५३१-१ आताम्राः किरणा रवेर्नवदलत्वक्पल्लवाः पादपाः वल्ल्यस्तारकतुल्यकान्तिसुमनःसौरभ्यसंभाविताः । ४५३१-२ वात्यस्मिन्मधुमत्तषट्पदपदव्याधूतचूतद्रुम- प्राग्भारप्रपतत्परागपटलामोदी मरुद्दाक्षिणः ।। ४५३२-१ आताम्राभा रोषभाजः कटान्तादाशूत्खाते मार्गणे धूर्गतेन । ४५३२-२ निश्च्योतन्ती नागराजस्य जज्ञे दानस्याहो लोहितस्येव धारा ।। ४५३३-१ आताम्रायतलोचनांशुलहरीलीलासुधाप्यायितैः गीताम्रेडितदिव्यकेलिभरितैः स्फीतं व्रजस्त्रीजनैः । ४५३३-२ स्वेदाम्भःकणभूषितेन किमपि स्मेरेण वक्त्रेन्दुना पादाम्भोजमृदुप्रचारसुभगं पश्यामि दृश्यं महः ।। ४५३४-१ आताम्रे नयने स्फुरन्कुचभरः श्वासो न विश्राम्यति स्वेदाम्भःकणदन्तुरं तव मुखं हेतुस्तु नो लक्ष्यते । ४५३४-२ धिक्को वेद मनः स्त्रिया इति गिरा रुष्टां प्रियां भीषयंस्तस्यास्तत्क्षणकातरेक्षणपरिस्पृष्टो हरिः पातु वः ।। ४५३५-१ आताम्रौ पूजितावोष्ठौ लेलिहानौ मृदुत्वचौ । ४५३५-२ जिह्वा रक्ता च तन्वी च तालु रक्तं प्रशस्यते ।। ४५३६-१ आतारुण्योद्भेदात्कान्ते दृष्टिर्यथा न्यस्ता । ४५३६-२ सामाजिकमध्यस्था कथमन्या समुपयाति परभागं ।। ४५३७-१ आतिथ्यं ब्राह्मणानां तु कुर्यात्प्रतिदिनं गृहे । ४५३७-२ आतिथ्ये रन्तिदेवस्य मधुपर्कं गवां शतं ।। ४५३८-१ आतिथ्ये श्राद्धयज्ञेषु देवयात्रोत्सवेषु च । ४५३८-२ महाजने च सिद्धार्थो न गच्छेद्योगवित्क्वचित् ।। ४५३९-१ आतुरस्य कुतो निद्रा त्रस्तस्यामर्षितस्य च । ४५३९-२ अर्थं चिन्तयतो वापि कामयानस्य वा पुनः ।। ४५४०-१ आतुराद्वित्तहरणं मृताच्च प्रपलायनं । ४५४०-२ एतद्वैद्यस्य वैद्यत्वं न वैद्यः प्रभुरायुषः ।। ४५४१-१ आतुरे च पिता वैद्यः स्वस्थीभूते च बान्धवः । ४५४१-२ गते रोगे कृते स्वास्थ्ये वैद्यो भवति पालकः ।। ४५४२-१ आतुरे नियमो नास्ति बाले वृद्धे तथैव च । ४५४२-२ पराचाररते चैव एष धर्मः सनातनः ।। ४५४३-१ आत्तमात्तमधिकान्तमुक्षितुं कातरा शफरशङ्किनी जहौ । ४५४३-२ अञ्जलौ जलमधीरलोचना लोचनप्रतिशरीरलाञ्छितं ।। ४५४४-१ आत्ते वाससि रोद्धुमक्षमतया दोःकन्दलीभ्यां स्तनौ तस्योरःस्थलमुत्तरीयविषये सद्यो मया सञ्जितं । ४५४४-२ श्रोणीं तस्य करेऽधिरोहति पुनर्व्रीडाम्बुधौ मामथो मज्जन्तीमुदतारयन्मनसिजो देवः स मूर्च्छागुरुः ।। ४५४५-१ आत्ते सीमन्तरत्ने मरकतिनि हृते हेमताटङ्कपत्रे लुप्तायां मेखलायां झटिति मणितुलाकोटियुग्मे गृहीते । ४५४५-२ शोणं बिम्बोष्ठकान्त्या त्वदरिमृगदृशामित्वरीणामरण्ये राजन्गुञ्जाफलानां स्रज इति शबरा नैव हारं हरन्ति ।। ४५४६-१ आत्मकार्यं महाकार्यं परकार्यं न केवलं । ४५४६-२ आत्मकार्यस्य दोषेण कूपे पतति मानवः ।। ४५४७-१ आत्मच्छन्देन वर्तन्ते नार्यो मन्मथचोदिताः । ४५४७-२ न च दह्यन्ति गच्छन्त्यः सुतप्तैरपि पांसुभिः ।। ४५४८-१ आत्मच्छिद्रं न जानाति परच्छिद्राणि पश्यति । ४५४८-२ श्वच्छिद्रं यदि जानाति परच्छिद्रं न पश्यति ।। ४५४९-१ आत्मजन्मास्पदं वंशं कामं दहन वार्यसे । ४५४९-२ किं तु संनिहितानेताणप्यग्ने किं दहस्यहो ।। ४५५०-१ आत्मजादिपरिक्लेशं आत्मन्यारोप्य मूढधीः । ४५५०-२ प्रतिकर्तुमशक्तोऽपि वार्द्धक्ये शोचते परं ।। ४५५१-१ आत्मज्ञः शौचवान्दान्तस्तपस्वी विजितेन्द्रियः । ४५५१-२ धर्मकृद्वेदविद्यावित्सात्त्विको देवयोनितां ।। ४५५२-१ आत्मज्ञानं समारम्भस्तितिक्षा धर्मनित्यता । ४५५२-२ यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते ।। ४५५३-१ आत्मज्ञानमनायासस्तितिक्षा धर्मनित्यता । ४५५३-२ वाक्चैव गुप्ता दानं च नैतान्यन्त्येषु भारत ।। ४५५४-१ आत्मज्ञानी यतो धन्यो मध्यः पितृपितामहैः । ४५५४-२ मातृपक्षेण मात्रा च ख्यातिं याति नराधमः ।। ४५५५-१ आत्मतत्त्वं न जानाति करोति बहुविस्तरं । ४५५५-२ स एव निधनं याति नालिकेरोदकं यथा ।। ४५५६-१ आत्मदेहस्य मांसानि भोक्तुं ब्रह्मन्न शक्यते । ४५५६-२ देहिनां वद यद्योग्यं संतुष्टिर्जायते यतः ।। ४५५७-१ आत्मदोषैर्नियच्छन्ति सर्वे दुःखमुखे जनाः । ४५५७-२ मन्ये दुश्चरितं तेऽस्ति तस्येयं निष्कृतिः कृता ।। ४५५८-१ आत्मद्वेषाद्भवेन्मृत्युः परद्वेषाद्धनक्षयः । ४५५८-२ राजद्वेषाद्भवेन्नाशो ब्रह्मद्वेषात्कुलक्षयः ।। ४५५९-१ आत्मनः प्रतिकूलानि परेभ्यो यदि नेच्छसि । ४५५९-२ परेषां प्रतिकूलेभ्यो निवर्तय ततो मनः ।। ४५६०-१ आत्मनः प्रीयते नात्मा परतः स्वत एव वा । ४५६०-२ लक्षयेऽलब्धकामं त्वां चिन्तया शबलं मुखं ।। ४५६१-१ आत्मनः शक्तिमुद्वीक्ष्य मानोत्साहौ तु यो व्रजेत् । ४५६१-२ शत्रूनेकोऽपि हन्याच्च क्षत्रियान्भार्गवो यथा ।। ४५६२-१ आत्मनश्च परित्राणे दक्षिणानां च संगरे । ४५६२-२ स्त्रीविप्राभ्युपपत्तौ च घ्नन्धर्मेण न दुष्यति ।। ४५६३-१ आत्मनश्च परेषां च प्रतापस्तव कीर्तिनुत् । ४५६३-२ भयकृद्भूपतेर्बाहुर्द्विषां च सुहृदां च ते ।। ४५६४-१ आत्मनश्च परेषां च यः समीक्ष्य बलाबलं । ४५६४-२ अन्तरं नैव जानाति स तिरस्क्रियतेऽरिभिः ।। ४५६५-१ आत्मनश्चपलो नास्ति कुतोऽन्येषां भविष्यति । ४५६५-२ तस्मात्सर्वाणि कार्याणि चपलो हन्त्यसंशयं ।। ४५६६-१ आत्मनश्च प्रजायाश्च दोषदर्श्युत्तमो नृपः । ४५६६-२ विनियच्छति चात्मानं आदौ भृत्यांस्ततः प्रजाः ।। ४५६७-१ आत्मनात्मानमन्विच्छेन्मनोबुद्धीन्द्रियैर्यतैः । ४५६७-२ आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ।। ४५६८-१ आत्मनानर्थयुक्तेन पापे निविशते मनः । ४५६८-२ स कर्म कलुषं कृत्वा क्लेशे महति धीयते ।। ४५६९-१ आत्मनाम गुरोर्नाम नामातिकृपणस्य च । ४५६९-२ आयुष्कामो न गृह्णीयात्ज्येष्ठापत्यकलत्रयोः ।। ४५७०-१ आत्मना विहितं दुःखं आत्मना विहितं सुखं । ४५७०-२ गर्भशय्यामुपादाय भुज्यते पौर्वदेहिकं ।। ४५७१-१ आत्मनाशाय नोन्नत्यै छिद्रेण परिपूर्णता । ४५७१-२ भूयो भूयो घटीपात्रं निमज्जत्किं न पश्यसि ।। ४५७२-१ आत्मना संगृहीतेन शत्रुणा शत्रुमुद्धरेत् । ४५७२-२ पदलग्नं करस्थेन कण्टकेनैव कण्टकं ।। ४५७३-१ आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः । ४५७३-२ अनाचरितमार्याणां वृत्तमेतच्चतुर्विधं ।। ४५७४-१ आत्मनीनमुपतिष्ठते गुणाः संभवन्ति विरमन्ति चापदः । ४५७४-२ इत्यनेकफलभाजि मा स्म भूदर्थिता कथमिवार्यसंगमे ।। ४५७५-१ आत्मनैव गुणदोषकोविदः किं न वेत्सि करणीयवस्तुषु । ४५७५-२ यत्तथापि न गुरून्न पृच्छसि त्वं क्रमोऽयमिति तत्र कारणं ।। ४५७६-१ आत्मनो गुरुरात्मैव पुरुषस्य विशेषतः । ४५७६-२ यत्प्रत्यक्षानुमानाभ्यां श्रेयोऽसावनुविन्दते ।। ४५७७-१ आत्मनो न सहायार्थं पिता माता च तिष्ठति । ४५७७-२ न पुत्रदारा न ज्ञातिर्धर्मस्तिष्ठति केवलं ।। ४५७८-१ आत्मनो बलमज्ञात्वा धर्मार्थपरिवर्जितं । ४५७८-२ अलभ्यमिच्छन्नैष्कर्म्यान्मूढबुद्धिरिहोच्यते ।। ४५७९-१ आत्मनोऽभ्युदयाकाङ्क्षी पीड्यमानः परेण वा । ४५७९-२ देशकालबलोपेतः प्रारभेतैव विग्रहं ।। ४५८०-१ आत्मनो मुखदोषेण बध्यन्ते शुकसारिकाः । ४५८०-२ बकास्तत्र न बध्यन्ते मौनं सर्वार्थसाधनं ।। ४५८१-१ आत्मनोऽर्धमिति श्रौतं सा रक्षति धनं प्रजा । ४५८१-२ शरीरं लोकयात्रां वै धर्मं स्वर्गमृषीन्पित्न् ।। ४५८२-१ आत्मनो वधमाहर्ता क्वासौ विहगतस्करः । ४५८२-२ येन तत्प्रथमं स्तेयं गोप्तुरेव गृहे कृतं ।। ४५८३-१ आत्मनो विक्रियमिव कुर्वन्दद्यात्समीहितं । ४५८३-२ जलवत्पर्वताञ्छत्रून्भिन्द्यादनुपलक्षितः ।। ४५८४-१ आत्मन्निच्छसि हन्त शाश्वतपुरीमार्गे विहर्तुं यदि भ्रातः संयमवर्मणा कुरु तदा रक्षाविधिं सर्वतः । ४५८४-२ नो चेदिन्द्रियतस्करैस्तव हठात्तीक्ष्णाग्रभूरिस्फुरच्- चिन्ताभल्लशतैर्विभिद्य मनसो ग्राह्यो विवेको मणिः ।। ४५८५-१ आत्मन्यपि न विश्वासस्तावान्भवति सत्सु यः । ४५८५-२ तस्मात्सत्सु विशेषेण सर्वः प्रणयमिच्छति ।। ४५८६-१ आत्मन्यस्य समुच्छ्रितीकृतगुणस्याहोतरामौचिती यद्गात्रान्तरवर्जनादजनयद्भूजानिरेष द्विषां । ४५८६-२ भूयोऽहंक्रियते स्म येन च हृदा स्कन्धो न यश्चानमत्तन्मर्माणि दलं दलं समिदलंकर्मीणबाणव्रजः ।। ४५८७-१ आत्मपक्षक्षयायैव परपक्षोदयाय च । ४५८७-२ मन्त्रद्वैधममात्यानां तन्न स्यादिह भूतये ।। ४५८८-१ आत्मपक्षपरित्यागात्परपक्षेषु यो रतः । ४५८८-२ स परैर्हन्यते मूढो नीलवर्णशृगालवत् ।। ४५८९-१ आत्मपितृभ्रातरश्च तत्स्त्रीपुत्राश्च शत्रवः । ४५८९-२ स्नुषा श्वश्रूः सपत्नी च ननान्दा यातरस्तथा ।। ४५९०-१ आत्मपितृमातृगुणैः प्रख्यातश्चोत्तमोत्तमः । ४५९०-२ गुणैरात्मभवैः ख्यातः पैतृकैर्मातृकैः पृथक् ।। ४५९१-१ आत्मप्रतीतिर्दृढता विरक्तिरिति त्रयं स्वात्मनि यो दधाति । ४५९१-२ नेता स एवास्ति समस्तशिष्ट- गुणाश्रयत्वान्निखिलप्रजानां ।। ४५९२-१ आत्मप्रशंसा मरणं परनिन्दा च तादृशी । ४५९२-२ तथापि वक्ष्ये काकुत्स्थ नास्ति मत्सदृशः कपिः ।। ४५९३-१ आत्मप्रशंसिनं दुष्टं धृष्टं विपरिधावकं । ४५९३-२ सर्वत्रोत्सृष्टदण्डं च लोकः सत्कुरुते नरं ।। ४५९४-१ आत्मबुद्धिः सुखं चैव गुरुबुद्धिर्विशेषतः । ४५९४-२ परबुद्धिरर्विनाशाय स्त्रीबुद्धिः प्रलयंकरी ।। ४५९५-१ आत्मबुद्ध्या सुखी भूयात्गुरुबुद्ध्या विशेषतः । ४५९५-२ बहुबुद्ध्या विनाशः स्यात्स्त्रीबुद्ध्या प्रलयो भवेत् ।। ४५९६-१ आत्मभाग्यक्षतद्रव्यः स्त्रीद्रव्येणानुकम्पितः । ४५९६-२ अर्थतः पुरुषो नारी या नारी सार्थतः पुमान् ।। ४५९७-१ आत्मरक्षा हि सततं पूर्वं कार्या विजानता । ४५९७-२ अग्नाविव हि संप्रोक्ता वृत्ती राजोपजीविनां ।। ४५९८-१ एकदेशंदहेदग्निः शरीरं वा परं गतः । ४५९८-२ सपुत्रदारं राजा तु घातयेदर्धयेत वा ।। ४५९९-१ आत्मरक्षिततन्त्राणां सुपरीक्षितकारिणां । ४५९९-२ आपदो नोपपद्यन्ते पुरुषाणां स्वदोषजाः ।। ४६००-१ आत्मरतिः परशाठ्यं सज्जनबन्धुवर्जनं । ४६००-२ रिपौ श्रद्धा स्त्रियां भक्तिः तस्य निन्दा भवेद्ध्रुवं ।। ४६०१-१ आत्मरुतादपि विरुतं कुर्वाणाः स्पर्धया सह मयूरैः । ४६०१-२ किं जानन्ति वराकाः काकाः केकारवान्कर्तुं ।। ४६०२-१ आत्मवत्सततं पश्येदपि कीटपिपीलिकं । ४६०२-२ आत्मनः प्रतिकूलानि परेषां न समाचरेत् ।। ४६०३-१ आत्मवत्सर्वभूतानि परद्रव्याणि लोष्टवत् । ४६०३-२ मातृवत्परदारांश्च यः पश्यति स पश्यति ।। ४६०४-१ आत्मवत्सर्वभूतानि पश्यतां शान्तचेतसां । ४६०४-२ अभिन्नमात्मनः सर्वं को दाता दीयते च किं ।। ४६०५-१ आत्मवर्गं परित्यज्य परवर्गं समाश्रयेत् । ४६०५-२ स्वयमेव लयं याति यथा राजान्यधर्मतः ।। ४६०६-१ आत्मवर्गं परित्यज्य परवर्गेषु ये रताः । ४६०६-२ वानवन्नहं रोदिमि आत्मानं नैव रोद्यते ।। ४६०७-१ आत्मवर्गं परित्यज्य परवर्गेषु ये रताः । ४६०७-२ सर्वे तेऽपि विनश्यन्ति यथा राजा कुकर्दमः ।। ४६०८-१ आत्मवांस्त्वल्पदेशोऽपि युक्तः प्रकृतिसंपदा । ४६०८-२ नयज्ञः पृथिवीं कृत्स्नां जयत्येव न हीयते ।। ४६०९-१ आत्मविक्रयिणि क्लीबे सदा शङ्कितचेतसि । ४६०९-२ नित्यमिष्टवियोगार्ते किं सेवकपशौ सुखं ।। ४६१०-१ आत्मवित्सह तया दिवानिशं भोगभागपि न पापमाप सः । ४६१०-२ आहृता हि विषयैकतानता ज्ञानधौतमनसं न लिम्पति ।। ४६११-१ आत्मसंपद्गुणैः सम्यक्संयुक्तं युक्तकारिणं । ४६११-२ महेन्द्रमिव राजानं प्राप्य लोको विवर्धते ।। ४६१२-१ आत्मसंभाविताः स्तब्धा धनमानमदान्विताः । ४६१२-२ यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकं ।। ४६१३-१ आत्मस्त्रीधनगुह्यानां गोप्ता बन्धुस्तु मित्रवत् । ४६१३-२ धनदस्तु कुबेरः स्याद्यमः स्याच्च सुदण्डकृत् ।। ४६१४-१ आत्मस्त्रीधनगुह्यानां शरणं समये सुहृत् । ४६१४-२ प्रोक्तोत्तमोऽयमन्यश्च त्रिद्व्येकपदमित्रकः ।। ४६१५-१ आत्महेतोः परार्थे वा नर्महास्याश्रयात्तथा । ४६१५-२ ये मृषा न वदन्तीह ते नराः स्वर्गगामिनः ।। ४६१६-१ आत्मा कायश्च द्वावेतौ मित्ररूपावुभावपि । ४६१६-२ कायं मित्रं परित्यज्य आत्मा याति सुनिश्चितं ।। ४६१७-१ आत्मा जन्मशतैर्धनार्जनधिया मिथ्या किमायास्यते पङ्गोः श्रीर्गृहमेति लङ्घितभुवो दैवेच्छया निर्धनाः । ४६१७-२ इत्येताः पुरुषार्थमूलहतयः कैश्चित्समुत्सारिता मुग्धानामलसोत्कटाः प्रतिपदं कुर्वन्ति चित्तभ्रमं ।। ४६१८-१ आत्मा जेयः सदा राज्ञा ततो जेयाश्च शत्रवः । ४६१८-२ अजितात्मा नरपतिर्विजयेत कथं रिपून् ।। ४६१९-१ आत्मात्मनैव जनितः पुत्र इत्युच्यते बुधैः । ४६१९-२ तस्माद्भार्यां नरः पश्येन्मातृवत्पुत्रमातरं ।। ४६२०-१ आत्माधीनशरीराणां स्वपतां निद्रया स्वया । ४६२०-२ कदन्नमपि मर्त्यानां अमृतत्वाय कल्पते ।। ४६२१-१ आत्मानं कुपथेन निर्गमयितुं यः सूकलाश्वायते कृत्याकृत्यविवेकजीवितहतौ यः कृष्णसर्पायते । ४६२१-२ यः पुण्यद्रुमखण्डखण्डनविधौ स्फूर्जत्कुठारायते तं लुप्तव्रतमुद्रमिन्द्रियगणं जित्वा शुभंयुर्भव ।। ४६२२-१ आत्मानं च जगत्सर्वं दृशा नित्याविभिन्नया । ४६२२-२ चिदाकाशमयं ध्यायन्योगी याति परां गतिं ।। ४६२३-१ आत्मानं च परं चैव त्रायते महतो भयात् । ४६२३-२ क्रुध्यन्तमप्रतिक्रुध्यन्द्वयोरेष चिकित्सकः ।। ४६२४-१ आत्मानं च परं चैव पलायन्हन्ति संयुगे । ४६२४-२ द्रव्यनाशो व्ययोऽकीर्तिरयशश्च पलायने ।। ४६२५-१ आत्मानं च परं चैव वीक्ष्य धीरः समुत्पतेत् । ४६२५-२ एतदेव हि विज्ञानं यदात्मपरवेदनं ।। ४६२६-१ आत्मानं धर्मकृत्यं च पुत्रदारांश्च पीडयन् । ४६२६-२ देवतातिथिभृत्यांश्च स कदर्य इति स्मृतः ।। ४६२७-१ आत्मानं नावमन्येत पूर्वाभिरसमृद्धिभिः । ४६२७-२ आमृत्योः श्रियमन्विच्छेन्नैनां मन्येत दुर्लभां ।। ४६२८-१ आत्मानं नियमैस्तैस्तैः कर्षयित्वा प्रयत्नतः । ४६२८-२ प्राप्यते निपुणैर्धर्मो न सुखाल्लभ्यते सुखं ।। ४६२९-१ आत्मानं परमं प्रमाणनिकरैरप्राप्यमव्याहतं ज्ञेयं यद्गुरुवीक्षणादपि जना मूढास्तु मुक्त्वैव तत् । ४६२९-२ कोशेषु प्रमितेषु पञ्चसु परिज्ञातुं समुद्युञ्जते नष्टेभाः कलशान्तरेष्वपि करं कृत्वा विचिन्वन्ति हि ।। ४६३०-१ आत्मानं प्रथमं राजा विनयेनोपपादयेत् । ४६३०-२ ततः पुत्रांस्ततोऽमात्यांस्ततो भृत्यांस्ततः प्रजां ।। ४६३१-१ आत्मानं प्रथमं राजा विनयेनोपपादयेत् । ४६३१-२ ततोऽमात्यांस्ततो भृत्यांस्ततः पुत्रांस्ततः प्रजाः ।। ४६३२-१ आत्मानं भावयेन्नित्यं ज्ञानेन विनयेन च । ४६३२-२ न पुनर्म्रियमाणस्य पश्चात्तापो भविष्यति ।। ४६३३-१ आत्मानं मन्त्रिणं दूतं अमात्यवचनं क्रमं । ४६३३-२ आकारं ब्रुवते षष्ठं एतावान्मन्त्रनिश्चयः ।। ४६३४-१ आत्मानं मन्त्रिदूतं च च्छन्नं त्रिषवणक्रमं । ४६३४-२ आकारं ब्रुवते षष्ठं एतावान्मन्त्रनिश्चयः ।। ४६३५-१ आत्मानं सततं रक्षेद्दारैरपि धनैरपि । ४६३५-२ पुनर्दाराः पुनर्वित्तं न शरीरं पुनः पुनः ।। ४६३६-१ आत्मानं सर्वथा रक्षेद्राजा रक्षेच्च मेदिनीं । ४६३६-२ आत्ममूलमिदं सर्वं आहुर्हिविदुषो जनाः ।। ४६३७-१ आत्मानं सुस्थिरं लक्ष्यं चैव स्थिरं बुधः । ४६३७-२ वेधयेत्त्रिप्रकारं तु स्थिरवेधी स उच्यते ।। ४६३८-१ आत्मा नदी भारत पुण्यतीर्था सत्योदका धृतिकूला दमोर्मिः । ४६३८-२ तस्यां स्नातः पूयते पुण्यकर्मा पुण्यो ह्यात्मा नित्यमम्भोऽम्भ एव ।। ४६३९-१ आत्मा नदी संयमपुण्यतीर्था सत्योदका शीलसमाधियुक्ता । ४६३९-२ तस्यां स्नातः पुण्यकर्मा पुनाति न वारिणा शुद्ध्यति चान्तरात्मा ।। ४६४०-१ आत्मानन्दरसज्ञानां अलं शास्त्रावलोकनं । ४६४०-२ भक्षितव्या ह्यपूपाः किं गण्यानि सुषिराणि किं ।। ४६४१-१ आत्मानमनुशोच त्वं किमन्यमनुशोचसि । ४६४१-२ आयुस्ते हीयते यस्य स्थितस्य च गतस्य च ।। ४६४२-१ आत्मानमन्यमथ हन्ति जहाति धर्मं पापं समाचरति युक्तमपाकरोति । ४६४२-२ पूज्यं न पूजयति वक्ति विनिन्द्यवाक्यं किं किं करोति न नरः खलु कोपयुक्तः ।। ४६४३-१ आत्मानमम्भोनिधिरेतु शोषं ब्रह्माण्डमासिञ्चतु वा तरङ्गैः । ४६४३-२ नास्ति क्षतिर्नोपचितः कदापि पयोदवृत्तेः खलु चातकस्य ।। ४६४३आ-१ आत्मानमाख्याति हि कर्मभिर्नरः स्वशीलचारित्रकृतैः शुभाशुभैः । ४६४३आ-२ प्रनष्टमप्यात्मकुलं तथा नरः पुनः प्रकाशं कुरुते स्वकर्मभिः ।। ४६४४-१ आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मना । ४६४४-२ आत्मना कृतिना च त्वं आत्मन्येव प्रलीयसे ।। ४६४५-१ आत्मानमालोक्य च शोभमानं आदर्शबिम्बे स्तिमितायताक्षी । ४६४५-२ हरोपयाने त्वरिता बभूव स्त्रीणां प्रियालोकफलो हि वेषः ।। ४६४६-१ आत्मानमेव प्रथमं देशरूपेण यो जयेत् । ४६४६-२ ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते ।। ४६४७-१ आत्मानमेव प्रथमं इच्छेद्गुणसमन्वितं । ४६४७-२ कुर्वीत गुणसंपन्नस्ततः शेषपरीक्षणं ।। ४६४९-१ आत्मापि चायं न मम सर्वा वा पृथिवी मम । ४६४९-२ यथा मम तथान्येषां इति बुद्ध्या न मे व्यथा ।। ४६५०-१ आत्मा प्रयत्नादर्थेभ्यो मनः समधितिष्ठति । ४६५०-२ संयोगादात्ममनसोः प्रवृत्तिरुपजायते ।। ४६५१-१ आत्माभिधं सुखमनन्तमखण्डमेकं यज्ञादिकर्मजनितेन सुखेन तुल्यं । ४६५१-२ मा ब्रूहि कर्म सुखदं तदपीति बुद्ध्या रत्नाकरस्य सदृशं नु कुलालकुण्डं ।। ४६५२-१ आत्मा मनश्च तद्विद्यैरन्तःकरणमुच्यते । ४६५२-२ ताभ्यां तु सप्रयत्नाभ्यां संकल्प उपजायते ।। ४६५३-१ आत्मा बुद्धीन्द्रियाण्यर्था बहिष्करणमुच्यते । ४६५३-२ संकल्पाध्यवसायाभ्यां सिद्धिरस्य प्रकीर्त्तिता ।। ४६५४-१ उभे एते हि करणे यत्नानन्तर्यके स्मृते । ४६५४-२ तस्मात्प्रयत्नसंरोधाद्भावयेन्निर्मनस्कतां ।। ४६५५-१ आत्मायत्ते गुणग्रामे नैर्गुण्यं वचनीयता । ४६५५-२ दैवायत्तेषु वित्तेषु पुंसां का नाम वाच्यता ।। ४६५६-१ आत्मायमात्मनि गतो हृदयेऽतिसूक्ष्मो ग्राह्योऽचलेन मनसा सतताभियोगात् । ४६५६-२ यो यं विचिन्तयति याति स तन्मयत्वं यस्मादतः सुभगमेव गता युवत्यः ।। ४६५७-१ आत्मा यस्य वशे नास्ति कुतस्तस्य परे जनाः । ४६५७-२ आत्मानं वशमानीय त्रैलोक्यं वर्तते वशे ।। ४६५८-१ आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर्हि चञ्चला । ४६५८-२ ते स्वामिवचनं सर्वे प्रतिगृह्य महौजसः ।। ४६५९-१ आत्मारामा विहितरतयो निर्विकल्पे समाधौ ज्ञानोद्रेकाद्विघटिततमोग्रन्थयः सत्त्वनिष्ठाः । ४६५९-२ यं वीक्षन्ते कमपि तमसां ज्योतिषां वा परस्तात्तं मोहान्धः कथमयममुं वेत्तु देवं पुराणं ।। ४६६०-१ आत्मार्थं जीवलोकेऽस्मिन्को न जीवति मानवः । ४६६०-२ परं परोपकारार्थं यो जीवति स जीवति ।। ४६६१-१ आत्मार्थं यः पशून्हन्यात्सोऽवश्यं नरकं व्रजेत् । ४६६१-२ देवान्पित्न्समभ्यर्च्य खादन्मांसं न दोषभाक् ।। ४६६२-१ आत्मार्थं युक्तवित्तानां मित्रमण्डलभेदिनां । ४६६२-२ अतिलङ्घितलोकानां न बन्धः केनचित्क्वचित् ।। ४६६३-१ आत्मार्थत्वेन हि प्रेयान्विषयो न स्वतः प्रियः । ४६६३-२ स्वत एव हि सर्वेषां आत्मा प्रियतमो यतः । ४६६३-३ तत आत्मा सदानन्दो नास्य दुःखं कदाचन ।। ४६६४-१ आत्मार्थे संततिस्त्याज्या राज्यं रत्नं धनं तथा । ४६६४-२ अपि सर्वस्वमुत्सृज्य रक्षेदात्मानमात्मना ।। ४६६५-१ ... ... ... ... ... ... । ४६६५-२ आत्मा वै यमितो येन स यमस्तु विशिष्यते ।। ४६६६-१ आत्मा समस्तजगतां भवतीति सम्यग्विज्ञाय यद्वितनुते त्वयि भावबन्धं । ४६६६-२ सा भक्तिरित्यभिमतं यदि सिद्धमिष्टं व्यर्थं विशेष्यमलमस्तु विशेषणं नः ।। ४६६७-१ आत्मा सहैति मनसा मन इन्द्रियेण स्वार्थेन चेन्द्रियमिति क्रम एष शीघ्रः । ४६६७-२ योगोऽयमेव मनसः किमगम्यमस्ति यस्मिन्मनो व्रजति तत्र गतोऽयमात्मा ।। ४६६८-१ आत्मास्ति सर्वजगतां आधारः पूर्वमिति विचिन्त्यैव । ४६६८-२ पश्चात्तत्त्वविचारः कुड्ये सत्येव चित्रकर्म स्यात् ।। ४६६९-१ आत्मा हि दाराः सर्वेषां दारसंग्रहवर्तिनां । ४६६९-२ ... ... ... ... ... ... ।। ४६७०-१ आत्मीयं चरणं दधाति पुरतो निम्नोन्नतायां भुवि स्वीयेनैव करेण कर्षति तरोः पुष्पं श्रमाशङ्कया । ४६७०-२ तल्पे किं च मृगत्वचा विरचिते निद्राति भागैर्निजैरन्तःप्रेमभरालसां प्रियतमामङ्गे दधानो हरः ।। ४६७१-१ आत्मैव तातस्य चतुर्भुजस्य जातश्चतुर्दोरुचितः स्मरोऽपि । ४६७१-२ तच्चापयोः कर्णलते भ्रुवोर्ज्ये वंशत्वगंशौ चिपिटे किमस्याः ।। ४६७२-१ आत्मैव देवताः सर्वाः सर्वमात्मन्यवस्थितं । ४६७२-२ आत्मा हि जनयत्येषां कर्मयोगं शरीरिणां ।। ४६७३-१ आत्मैव भार इति तं त्वयि यो निधत्ते सोऽङ्गानि कानि कलयत्वलसः प्रपत्तेः । ४६७३-२ विश्वत्र सात्र सविलक्षणलक्षणाया विस्रम्भसंपदियमेव समस्तमङ्गि ।। ४६७४-१ आत्मैव यदि नात्मानं अहितेभ्यो निवारयेत् । ४६७४-२ कोऽन्यो हितकरस्तस्मादात्मानं वारयिष्यति ।। ४६७५-१ आत्मैव ह्यात्मनः साक्षी गतिरात्मा तथात्मनः । ४६७५-२ मावमंस्थाः स्वमात्मानं नृणां साक्षिणमुत्तमं ।। ४६७६-१ आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः । ४६७६-२ आत्मैव चात्मनः साक्षी कृतस्याप्यकृतस्य च ।। ४६७७-१ अत्मोदयः परज्यानिर्द्वयं नीतिरितीयती । ४६७७-२ तदूरीकृत्य कृतिभिर्वाचस्पत्यं प्रतीयते ।। ४६७८-१ आत्मोपकारचतुरा नरा न गणयन्ति गुरुकुलक्लेशं । ४६७८-२ वेधव्यथैव कियती श्रवसो ह्यवतंसभूषणीयस्य ।। ४६७९-१ आत्मोपमश्च भूतेषु यो वै भवति पूरुषः । ४६७९-२ न्यस्तदण्डो जितक्रोधः स प्रेत्य सुखमेधते ।। ४६८०-१ आत्मौपम्येन यो वेत्ति दुर्जनं सत्यवादिनं । ४६८०-२ स एव वञ्च्यते तेन ब्राह्मणाश्छागतो यथा ।। ४६८१-१ आत्म्यौपम्येन सर्वत्र समं पश्यति योऽर्जुन । ४६८१-२ सुखं वा यदि वा दुःखं स योगी परमो मतः ।। ४६८२-१ आददानः प्रतिदिनं कलाः सम्यङ्महीपतिः । ४६८२-२ शुक्लपक्षे प्रविचरन्शशाङ्क इव वर्द्धते ।। ४६८३-१ आदरं राजसदसि धनेन लभते नरः । ४६८३-२ सुभटः शत्रुसंग्रामे विक्रमेण यथा जयं ।। ४६८४-१ आदरणीयगुणा सखि महता निहितासि तेन शिरसि त्वं । ४६८४-२ तव लाघवदोषोऽयं सौधपताकेव यच्चलसि ।। ४६८५-१ आदरेण यथा स्तौति धनवन्तं धनेच्छया । ४६८५-२ तथा चेद्विश्वकर्तारं को न मुच्येत बन्धनात् ।। ४६८६-१ आदरेणार्जवेनैव शौर्याद्दानेन विद्यया । ४६८६-२ प्रत्युत्थानाभिगमनैरानन्दस्मितभाषणैः । ४६८६-३ उपकारैः स्वाशयेन वशीकुर्याज्जगत्सदा ।। ४६८७-१ आ दर्शनात्प्रविष्टा सा मे सुरलोकसुन्दरी हृदयं । ४६८७-२ बाणेन मकरकेतोः कृतमार्गमवन्ध्यपातेन ।। ४६८८-१ आदर्शाय शशाङ्कमण्डलमिदं हर्म्याय हेमाचलं दीपाय द्युमणिं महीमिव कथं नो भिक्षवे दत्तवान् । ४६८८-२ दित्सापल्लवितप्रमोदसलिलव्याकीर्णनेत्राम्बुजो जानीमो भृगुनन्दनस्तदखिलं न प्रायशो दृष्टवान् ।। ४६८९-१ आदातव्यं न दातव्यं प्रियं ब्रूयन्निरर्थकं । ४६८९-२ आशां कालवतीं कुर्यात्कालं विघ्नेन योजयेत् ।। ४६९०-१ आदातुं सकृदीक्षितेऽपि कुसुमे हस्ताग्रमालोहितं लाक्षारञ्जनवार्तयापि सहसा रक्तं तलं पादयोः । ४६९०-२ अङ्गानामनुलेपनस्मरणमप्यत्यन्तखेदावहं हन्ताधीरदृशः किमन्यदलकामोदोऽपि भारायते ।। ४६९१-१ आदानं चैव तूणीरात्संधानं कर्षणं तथा । ४६९१-२ क्षेपणं च त्वरायुक्तो बाणस्य कुरुते तु यः । ४६९१-३ नित्याभ्यासवशात्तस्य शीघ्रसंधानता भवेत् ।। ४६९२-१ आदानपानलेपैः काश्चिद्गरलोपतापहारिण्यः । ४६९२-२ सदसि स्थितैव सिद्धौ- षधिवल्ली कापि जीवयति ।। ४६९३-१ आदानमप्रियकरं दानं च प्रियकारकं । ४६९३-२ अभीप्सितानामर्थानां काले युक्तं प्रशस्यते ।। ४६९४-१ आदाय करमाढ्येभ्यः कीकटेष्वपि वर्षसि । ४६९४-२ प्रपीय वारि सिन्धुभ्यः स्थलेष्विव घनाघनः ।। ४६९५-१ आदाय चापमचलं कृत्वाहीनं गुणं विषमदृष्टिः । ४६९५-२ यश्चित्रमच्युतशरो लक्ष्यमभाङ्क्षीन्नमस्तस्मै ।। ४६९६-१ आदाय दण्डं सकलासु दिक्षु योऽयं परिभ्राम्यति भानुभिक्षुः । ४६९६-२ अब्धौ निमज्जन्निव तापसोऽयं संध्याभ्रकाषायमधत्त सायं ।। ४६९७-१ आदाय धनमनल्पं ददानया सुभग तावकं वासः । ४६९७-२ मुग्धा रजकगृहिण्या कृता दिनैः कतिपयैर्निःस्वा ।। ४६९८-१ आदाय पत्रं त्वरितं यदि श्वा दूर्वां नवां वा नवग्ॐअयं वा । ४६९८-२ प्रयाति यातुः परतस्तदानीं राजप्रसादं नियतं ब्रवीति ।। ४६९९-१ आदाय प्रतिपक्षकीर्तिनिवहान्ब्रह्माण्डमूषान्तरे निर्विघ्नं धमता नितान्तमुदितैः स्वैरेव तेजोऽग्निभिः । ४६९९-२ तत्तादृक्पुटपाकशोधितमिव प्राप्तं गुणोत्कर्षिणां पिण्डस्थं च महत्तरं च भवता निःक्षारतारं यशः ।। ४७००-१ आदाय मांसमखिलं स्तनवर्जमङ्गान्मां मुञ्च वागुरिक यामि कुरु प्रसादं । ४७००-२ सीदन्ति शष्पकवलग्रहणानभिज्ञा मन्मार्गवीक्षणपराः शिशवो मदीयाः ।। ४७०१-१ आदाय वकुलगन्धानन्धीकुर्वन्पदे पदे भ्रमरान् । ४७०१-२ अयमेति मन्दमन्दं कावेरीवारिपावनः पवनः ।। ४७०२-१ आदाय वारि परितः सरितां मुखेभ्यः किं तावदर्जितमनेन दुरर्णवेन । ४७०२-२ क्षारीकृतं च वडवादहने हुतं च पातालकुक्षिकुहरे विनिवेशितं च ।। ४७०३-१ आदाय वारि यत एव जहाति भूयस्तत्रैव यः स जलदः प्रथमो जडानां । ४७०३-२ वान्तं प्रतीप्सति तदेव तदेव यस्तु स्रोतःपतिः स निरपत्रपसार्थवाहः ।। ४७०४-१ आदाय विप्रस्वमपि नाशयेद्राज्यघातिनः । ४७०४-२ आदायास्थि दधीचेस्तु शक्रो दैत्यान्जघान हि ।। ४७०५-१ आदायादाय मुक्तास्तदनु शिखिधियादाय माणिक्यवर्गं धूमभ्रान्तिं वहन्त्यः स्ववदनकमलामोदलुब्धालिवृन्दे । ४७०५-२ पक्तुं भिल्ल्यः प्रवृत्ताः सरभसमसकृद्यद्द्विषत्पत्तनेषु ब्रूमः किं कीर्तिपूरं धवलितवसुधं मल्लशाहस्य तस्य ।। ४७०६-१ आदायामृतपूर्णमर्कचषकं शोणारविन्दप्रभे पाणाविन्द्रवधूर्विलोक्य च पुनस्तस्मिन्नभःश्यामिकां । ४७०६-२ चिक्षेपोपरि कोपतः परिजनेऽसंशोध्य दत्ता सुधेत्येनं तं शशिनं प्रशंसति जनस्तत्पाणिमुक्तार्जुनं ।। ४७०७-१ आदावघटितं कार्यं मध्ये सुघटितं मम । ४७०७-२ भूयो विघटितं भूयो भूयाद्घटयितुं प्रभुः ।। ४७०८-१ आदावङ्कुरितं पुनः प्रतिपदं पत्रावृतं त्वां मुदा सौरभ्यस्फुरितप्रसूनकलितं दृष्ट्वाथ हृष्टोऽस्म्यहं । ४७०८-२ किं ब्रूमः फलिते त्वयि द्रुततरं हा हन्त किम्पाक हे भूयो व्याकुलयन्ति कण्टकभराः सर्वत्र तत्किं ब्रुवे ।। ४७०९-१ आदावञ्जनपुञ्जलिप्तवपुषां श्वासानिलोल्लासित- प्रोत्सर्पद्विरहानलेन च ततः संतापितानां दृशां । ४७०९-२ संप्रत्येव निषेकमश्रुपयसा देवस्य चेतोभुवो भल्लीनामिव पानकर्म कुरुते कामं कुरङ्गेक्षणा ।। ४७१०-१ आदावप्युपचारचाटुविनयालंकारशोभान्वितं मध्ये चापि विचित्रवाक्यकुसुमैरभ्यर्चितं निष्फलैः । ४७१०-२ पैशुन्याविनयावमानमलिनं बीभत्समन्ते च यद्दूरे वोऽस्त्वकुलीनसंगतमसद्धर्मार्थमुत्पादितं ।। ४७११-१ आदावादिपितामहस्य नियमव्यापारपात्रे जलं पश्चात्पन्नगशायिनो भगवतः पादोदकं पावनं । ४७११-२ भूयः शम्भुजटाविभूषणमणिर्जह्नोर्महर्षेरियं कन्या कल्मषनाशिनी भगवती भागीरथी दृश्यते ।। ४७१२-१ आदावायुः परीक्षेत पश्चाल्लक्षणमुत्तमं । ४७१२-२ आयुर्हीननराणां च लक्षणैः किं प्रयोजनं ।। ४७१३-१ आदावुत्सृज्य कार्याणि पश्चाच्च प्रार्थयन्ति ये । ४७१३-२ ते लोके हास्यतां यान्ति पलाण्डुहरणादिव ।। ४७१४-१ आदावेव गजेन्द्रमौलिविलसद्दण्डा पताकावली पश्चाद्वारणराजधोरणिरतिप्रोद्दामयोधाश्रिता । ४७१४-२ उद्दण्डध्वजलाञ्छिताप्यथ घनीभूता रथानां ततिस्तत्पश्चात्तुरगावली विजयते योधैः समं सर्वतः ।। ४७१५-१ आदावेव मनुष्येण वर्तितव्यं यथा क्षमं । ४७१५-२ यथा नातीतमर्थं वै पश्चात्तापेन युज्यते ।। ४७१६-१ आदिकवी चतुरास्यौ कमलजवल्मीकजौ वन्दे । ४७१६-२ लोकश्लोकविधात्रोर्ययोर्भिदा लेशमात्रेण ।। ४७१७-१ आदितामजननाय देहिनां अन्ततां च दधतेऽनपायिने । ४७१७-२ बिभ्रते भुवमधः सदाथ च ब्रह्मणोऽप्युपरि तिष्ठते नमः ।। ४७१८-१ आदितालो जयन्तः स्याच्छृङ्गाररससंयुतः । ४७१८-२ रुद्रसंख्याक्षरपदैरायुर्वृद्धिकरः परः । ४७१८-३ एक एव लघुर्यस्मिन्नादितालः स कथ्यते ।। ४७१९-१ आदित्यचन्द्रहरिशंकरवासवाद्याः शक्ता न जेतुमतिदुःखकराणि यानि । ४७१९-२ तानीन्द्रियाणि बलवन्ति सुदुर्जयानि ये निर्जयन्ति भुवने बलिनस्त एके ।। ४७२०-१ आदित्यचन्द्रावनिजज्ञजीवः शुक्रार्कपुत्रा अपि राहुकेतू । ४७२०-२ कुर्वन्तु नित्यं धनधान्यसौष्ठ्यं दीर्घायुरारोग्यशुभान्यमी वः ।। ४७२१-१ आदित्यचन्द्रावनिलानलौ च द्यौर्भूमिरापो हृदयं यमश्च । ४७२१-२ अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तं ।। ४७२२-१ आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं व्यापारैर्बहुकार्यभारगुरुभिः कालो न विज्ञायते । ४७२२-२ दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ।। ४७२३-१ आदित्यस्य नमस्कारं ये कुर्वन्ति दिने दिने । ४७२३-२ जन्मान्तरसहस्रेषु दारिद्र्यं नोपजायते ।। ४७२४-१ आदित्यस्योदयो गानं ताम्बूलं भारतीकथा । ४७२४-२ इष्टा भार्या सुमित्रं च अपूर्वाणि दिने दिने ।। ४७२५-१ आदित्याः किं दशैते प्रलयभयकृतः स्वीकृताकाशदेशाः किं वोल्कामण्डलानि त्रिभुवनदहनायोद्यतानीति भीतैः । ४७२५-२ पायासुर्नारसिंहं वपुरमरगणैर्बिभ्रतः शार्ङ्गपाणेर्दृष्टा दृप्तासुरोरस्तलदरणगलद्रक्तरक्ता नखा वः ।। ४७२६-१ आदित्यादपि नित्यदीप्तममृतप्रस्यन्दि चन्द्रादपि त्रैलोक्याभरणं मणेरपि तमःकाषं हुताशादपि । ४७२६-२ विश्वालोकि विलोचनादपि परब्रह्मस्वरूपादपि स्वान्तानन्दनमस्तु धाम जगतस्तोषाय सारस्वतं ।। ४७२७-१ आदित्यादिग्रहाः सर्वे नक्षत्राणि च राशयः । ४७२७-२ आयुः कुर्वन्तु ते नित्यं यस्यैषा जन्मपत्रिका ।। ४७२८-१ आदित्याद्या ग्रहाः सर्वे यथा तुष्यन्ति दानतः । ४७२८-२ सर्वस्वेऽपि न तुष्येत जामाता दशमो ग्रहः ।। ४७२८आ-१ आदित्याय तमः सृष्टं मेघाय ग्रीष्मशोषणं । ४७२८आ-२ मार्गश्रमस्तु वृक्षाय दुःखिनस्तूपकारिणे ।। ४७२९-१ आदित्योऽयं स्थितो मूढाः स्नेहं कुरुत मा भयं । ४७२९-२ बहुरूपो मुहूर्तश्च जीवेतापि कदाचन ।। ४७३०-१ आदिमत्स्यः स जयताद्यः श्वासोच्छ्वासितैर्जलैः । ४७३०-२ गगने विदधेऽम्भोधिं गगनं च महोदधौ ।। ४७३१-१ आदिमध्यनिधनेषु सौहृदं सज्जने भवति नेतरे जने । ४७३१-२ छेदतापननिघर्षताडनैर्नान्यभावमुपयाति काञ्चनं ।। ४७३२-१ आदिमध्यान्तरहितं दशाहीनं पुरातनं । ४७३२-२ अद्वितीयमहं वन्दे मद्वस्त्रसदृशं हरिं ।। ४७३३-१ आदिमध्यावसाने च नैव गच्छति विक्रियां । ४७३३-२ अत एव कुलीनानां नृपाः कुर्वन्ति संग्रहं ।। ४७३४-१ आदिराजयशोबिम्बं आदर्शं प्राप्य वाङ्मयं । ४७३४-२ तेषामसंनिधानेऽपि न स्वयं पश्य नश्यति ।। ४७३५-१ आदीप्तवह्निसदृशैर्मरुतावधूतैः सर्वत्र किंशुकवनैः कुसुमावनम्रैः । ४७३५-२ सद्यो वसन्तसमयेन समागतेयं रक्तांशुका नववधूरिव भाति भूमिः ।। ४७३६-१ आदीर्घेण चलेन वक्रगतिना तेजस्विना योगिना नीलाब्जद्युतिनाहिना वरमहं दृश्यो न तच्चक्षुषा । ४७३६-२ दष्टे सन्ति चिकित्सका दिशि दिशि प्रायेण धर्मार्थिनो मुग्धाक्षीक्षणवीक्षितस्य नहि मे वैद्यो न चाप्यौषधं ।। ४७३७-१ आदूरात्प्रतिपान्थमाहितदृशः प्रत्याशयोन्मीलति ध्वान्ते स्वान्तमहर्व्ययेऽपि न परावृत्तं कुरङ्गीदृशः । ४७३७-२ तस्या निःसहबाहुवल्लिविगलद्धम्मिल्लवद्भङ्गुर- ग्रीवं दीर्घमजीववत्प्रियसखीवर्गेण नीतं वपुः ।। ४७३८-१ आदृतकुपितभवानी- कृतकरमालादिबन्धनव्यसनः । ४७३८-२ केलिकलाकलहादौ देवो वः शंकरः पायात् ।। ४७३९-१ आदृता नखपदैः परिरम्भाश्चुम्बितानि घनदन्तनिपातैः । ४७३९-२ सौकुमार्यगुणसंभृतकीर्तिर्वाम एव सुरतेष्वपि कामः ।। ४७४०-१ आ दृष्टिप्रसरात्प्रियस्य पदवीमुद्वीक्ष्य निर्विण्णया विश्रान्तेषु पथिष्वहःपरिणतौ ध्वान्ते समुत्सर्पति । ४७४०-२ गत्वैकं सशुचा गृहं प्रति पदं पान्थस्त्रियास्मिन्क्षणे मा भूदागत इत्यमन्दवलितग्रीवं पुनर्वीक्षितं ।। ४७४१-१ आदेयस्य प्रदेयस्य कर्तव्यस्य च कर्मणः । ४७४१-२ क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसं ।। ४७४२-१ आदेहदाहं कुसुमायुधस्य विधाय सौन्दर्यकथादरिद्रं । ४७४२-२ त्वदङ्गशिल्पात्पुनरीश्वरेण चिरेण जाने जगदन्वकम्पि ।। ४७४३-१ आदौ कुलं परीक्षेत ततो विद्यां ततो वयः । ४७४३-२ शीलं धनं ततो रूपं देशं पश्चात्विवाहयेत् ।। ४७४४-१ आदौ गृहीतपाणिः पश्चादारूढजघनकटिभागा । ४७४४-२ नखमुखलालनसुखदा सा किं रामास्ति नैव भोः पामा ।। ४७४५-१ आदौ चित्ते ततः काये सतां संजायते जरा । ४७४५-२ असतां च पुनः काये नैव चित्ते कदाचन ।। ४७४६-१ आदौ छायातिदीर्घापि प्राच्यामल्पतरा ततः । ४७४६-२ तथा मैत्र्यसतामादौ दीर्घाप्यल्पतरा भवेत् ।। ४७४७-१ आदौ तद्धितकृत्स्नेहं कार्यं स्नेहमनन्तरं । ४७४७-२ कृत्वा सधर्मवादं च मध्यस्थः साधयेद्धितं ।। ४७४८-१ आदौ तन्व्यो बृहन्मध्या विस्तारिण्यः पदे पदे । ४७४८-२ यायिन्यो न निवर्तन्ते सतां मैत्र्यः सरित्समाः ।। ४७४९-१ आदौ तातो वरं पश्येत्ततो वित्तं ततः कुलं । ४७४९-२ यदि कश्चिद्वरे दोषः किं धनेन कुलेन किं ।। ४७५०-१ आदौ तावद्व्यापारस्था यमवरुणधनदसदृशा भवन्त्यतिगर्विता मानोन्मत्ता दर्पोत्सिक्ताः परिभवहरणनिरता भवन्त्यतिदारुणाः । ४७५०-२ भ्रष्टास्तेभ्यो व्यापारेभ्यो हतिनिगडनियतचरणास्तथा लगुडार्दिता लम्बैः कूर्चैर्दीनैर्वक्त्रैर्मुनय इव शमदमरता भवन्त्यतिभद्रकाः ।। ४७५१-१ आदौ तु मन्दमन्दानि मध्ये समरसानि च । ४७५१-२ अन्ते स्नेहायमानानि संगतान्युत्तमैः सह ।। ४७५२-१ आदौ तु रमणीयानि मध्ये तु विरसानि च । ४७५२-२ अन्ते वैरायमाणानि संगतानि खलैः सह ।। ४७५३-१ आदौ दर्शयति नतिं यान्ती यान्ती समुन्नतिं धत्ते । ४७५३-२ अनुकूलापि वराही चिरेण तुच्छं फलं धत्ते ।। ४७५४-१ आदौ धर्मे प्रमाणं विविधविधिभिदाशेषतां च प्रयुक्तिं पौर्वापर्याधिकारौ तदनु बहुविधं चातिदेशं तथोहं । ४७५४-२ बाधं तन्त्रं प्रसङ्गं नयमनयशतैः सम्यगालोचयद्भ्यो भिन्ना मीमांसकेभ्यो विदधति भुवि के सादरं वेदरक्षां ।। ४७५५-१ आदौ नमस्कृतिः पश्चादाशंसावचनानि च । ४७५५-२ सुभाषितप्रशंसा च कविकाव्यस्तुतिस्ततः ।। ४७५६-१ आदौ नम्रस्ततह्स्तब्धः कार्यकाले च निष्ठुरः । ४७५६-२ कृते कार्ये पुनर्नम्रः शिश्नतुल्यो वणिग्जनः ।। ४७५७-१ आदौ नम्राः पुनर्वक्राः स्वीयकार्येषु तत्पराः । ४७५७-२ कार्यान्ते च पुनर्वक्राः काण्वास्तु प्राणघातकाः ।। ४७५८-१ आदौ न वाप्रणयिनां प्रणयो विधेयो दत्तोऽथवा प्रतिदिनं परिपोषणीयः । ४७५८-२ उत्क्षिप्य यत्क्षिपति तत्प्रकरोति लज्जां भूमौ स्थितस्य पतनाद्भयमेव नास्ति ।। ४७५९-१ आदौ नेच्छति नोज्झति स्मरकथां व्रीडाविमिश्रालसा मध्ये ह्रीपरिवर्जिताभ्युपरमे लज्जाविनम्रानना । ४७५९-२ भावैर्नैकविधैः करोत्यभिनयं भूयश्च या सादरा बुद्ध्वा पुंप्रकृतिं यानुचरति ग्लानेतरैश्चेष्टितैः ।। ४७६०-१ आदौ पत्रविचित्रितः पुनरसौ मुग्धप्रसूनाङ्कितः पश्चात्स्निग्धफलोद्गमे घनरसैः सिक्तो मया सर्वतः । ४७६०-२ दानोन्मत्तदुरन्तवारणकटीसंघट्टनैः केवलं सोऽयं घूर्णित एव दैववशतो माकन्दभूमीरुहः ।। ४७६१-१ आदौ प्रेमकषायिता हरमुखव्यापारलोला शनैर्व्रीडाभारविधूर्णिता मुकुलिता धूमोद्गमव्याजतः । ४७६१-२ पत्युः संमिलिता दृशा सरभसव्यावर्तनव्याकुला पार्वत्याः परिणीतिमङ्गलविधौ दृष्टिः शिवायास्तु वः ।। ४७६२-१ आदौ बुध्येत पणितः पणमानश्च कारणं । ४७६२-२ ततो वितर्क्योभयतो मतः श्रेयस्ततो व्रजेत् ।। ४७६३-१ आदौ मज्जनचीरहारतिलकं नेत्राञ्जनं कुण्डलं नासामौक्तिकमालतीविकरणं झंकारकं नूपुरं । ४७६३-२ अङ्गे चन्दनचर्चितं मणिगणः क्षुद्रावलिर्घण्टिका ताम्बूलं करकङ्कणं चतुरता शृङ्गारकाः षोडश ।। ४७६४-१ आदौ माता गुरोः पत्नी ब्रह्मणी राजपत्निका । ४७६४-२ धेनुर्धात्री तथा पृथ्वी सप्तैता मातरः स्मृताः ।। ४७६५-१ आदौ मानपरिग्रहेण गुरुणा दूरं समारोपिता पश्चात्तापभरेण तानवकृता नीता परं लाघवं । ४७६५-२ उत्सङ्गान्तरवर्तिनामनुगमात्संपीडिता गामिमां सर्वाङ्गप्रणयप्रियामिव तरुच्छाया समालम्बते ।। ४७६६-१ आदौ यादोनिवासोक्तिः पारावारवरोक्तयः । ४७६६-२ क्षीरनीरनिधेरुक्तिर्नद्युक्तिर्जाह्नव्युक्तयः ।। ४७६७-१ आदौ रक्तं पुना रक्तं मध्य उज्ज्वलभास्वरं । ४७६७-२ दुर्निरीक्ष्यप्रभावं तं दृश्यं द्रष्टारमाश्रये ।। ४७६८-१ आदौ राजेत्यधीराक्षि पार्थिवः कोऽपि गीयते । ४७६८-२ सनातनश्च नैवासौ राजा नापि सनातनः ।। ४७६९-१ आदौ रूपविनाशिनी कृशकरी कामस्य विध्वंसिनी प्रज्ञामान्द्यकरी तपःक्षयकरी धर्मस्य निर्मूलिनी । ४७६९-२ पुत्रभ्रातृकलत्रभेदनकरी लज्जाङ्कुरच्छेदिनी सा मां पीडति सर्वदोषजननी प्राणापहन्त्री क्षुधा ।। ४७७०-१ आदौ रूपविनाशिनी कृशकरी कामाङ्कुरच्छेदिनी पुत्रामित्रकलत्रभेदनकरी गर्वाङ्कुरच्छेदिनी । ४७७०-२ कामं मन्दकरी तपःक्षयकरी धर्मस्य निर्मूलनी सा मां संप्रति सर्वरोगजननी प्राणापहन्त्री क्षुधा ।। ४७७१-१ आदौ लज्जयति कृतं मध्ये परिभवति रिक्तमवसाने । ४७७१-२ खलसंगतस्य कथयत यदि सुस्थितमस्ति किंचिदपि ।। ४७७२-१ आदौ वरं निर्धनत्वं धनिकत्वमनन्तरं । ४७७२-२ तथादौ पादगमनं यानगत्वमनन्तरं । ४७७२-३ सुखाय कल्पते नित्यं दुःखाय विपरीतकं ।। ४७७३-१ आदौ वितत्य चरणौ विनमय्य कण्ठं उत्थाप्य वक्त्रमभिहत्य मुहुश्च वत्साः । ४७७३-२ मात्रा विवर्तितमुखं मुखलिह्यमान- पश्चार्धसुस्थमनसः स्तनमुत्पिबन्ति ।। ४७७४-१ आदौ विस्मयनिस्तरङ्गमनु च प्रेङ्खोलितं साध्वसैर्व्रीडानम्रमथ क्षणं प्रविकसत्तारं दिदृक्षारसैः । ४७७४-२ आकृष्टं सहजाभिजात्यकलनात्प्रेम्णा पुरह्प्रेरितं चक्षुर्भूरि कथंकथंचिदगमत्प्रेयांसमेणीदृशः ।। ४७७५-१ आदौ वेश्या पुनर्दासी पश्चाद्भवति कुट्टिनी । ४७७५-२ सर्वोपायपरिक्षीणा वृद्धा नारी पतिव्रता ।। ४७७६-१ आदौ हालाहलहुतभुजा दत्तहस्तावलम्बो बाल्ये शंभोर्निटिलमहसा बद्धमैत्रीनिरूढः । ४७७६-२ प्रौढो राहोरपि मुखविषेणान्तरङ्गीकृतो यः सोऽयं चन्द्रस्तपति किरणैर्मामिति प्राप्तमेतं ।। ४७७७-१ आद्यः कोपस्तदनु मदनस्त्वद्वियोगस्तृतीयः शान्त्यै दूतीवचनमपरः पञ्चमः शीतभानुः । ४७७७-२ इत्थं बाला निरवधि परं त्वां फलं प्रार्थयन्ती हा हा पञ्चज्वलनमधुना सेवते योगिनीव ।। ४७७८-१ आद्यः प्रवेशसमयः स कलेर्युगस्य प्राप्तस्तिरस्कृतबहूदकहंससार्थः । ४७७८-२ आहूय सादरतया तपसोऽन्ति मेऽह्नि काणो द्विजः प्रतिगृहं बत यत्र पूज्यः ।। ४७७९-१ आद्यकालिकया बुद्ध्या दूरे श्व इति निर्भयाः । ४७७९-२ सर्वभक्षा न पश्यन्ति कर्मभूमिं विचेतसः ।। ४७८०-१ आद्यन्तौ च तदाद्यन्तौ तदाद्यन्तौ च मध्यमौ । ४७८०-२ वह्नीन्दुवायुवरुणपुत्रौ पितृसमप्रभौ ।। ४७८१-१ आद्याद्यस्य गुणं तेषां अवाप्नोति परः परः । ४७८१-२ यो यो यावतिथश्चैषां स स तावद्गुणः स्मृतः ।। ४७८२-१ आद्यूनस…

No comments:

Post a Comment